________________
५५५
पूर्वनयमतदूषणम्]
द्वादशारं नयचक्रम् । अथ सन्मित्रवदन्यतरोपसर्जनप्रधानभावेन सामान्यविशेषयोरविशिष्टतेति चेत्, न, वक्ष्यमाणोभयनियमनयमतवदन्यतरोपसर्जनप्रधान भावाभावात्।
__ अथोपसर्जनावेव भावाभावौ ततस्तयोः प्रधानेनान्येनावश्यं भवितव्यं प्रवर्तयित्रा, तदभावे प्रवृत्त्यभावात् । न च भावाभावव्यतिरिक्तोऽर्थोऽस्ति । न च प्रधानेन विनोपसर्जनम् । न च प्रधानोपसर्जनभावेन विना दृश्यते भोक्तृभोग्यशरीरा-3 हारादिवस्तुप्रवृत्तिरिति तयोरेव प्रधानोपसर्जनता।
इत्युभयनियम उच्यते-भवत् प्रधानम्, भाव उपसर्जनम् । भवति विशेषः,
अथोपसर्जनावेव भावाभावौ ततस्तयोः प्रधानेनान्येनावश्यं भवितव्यं बैलवताश्रयभूतेन द्वयोरिव राजपुरुषयोपतिना प्रवर्तयित्रा, तदभावे प्रवृत्त्यभावात् । दृष्टा हि प्रवृत्तिरबलयोर्बलवंदाश्रया । एतावती च प्रवृत्तिः सामान्य-विशेषयोर्भवन्ती भवेत् , सर्वथा चानुपपन्ना, भावाभावयोरेव 10 पर्यायमात्रत्वात् तत्त्वान्यत्वादिधर्माणां वस्त्वन्तराभावात् , 'भावः सामान्यं प्रवृत्तिव्यं विधिरन्वयो धर्मी' इति पर्यायाः, 'अभावो विशेषोऽन्यत्वं निवृत्तिः पर्यायो नियमो धर्मः' इति पर्यायाः, गुणगुण्यादिकल्पनाखपि भावाभावत्वव्यतिरिक्तार्थासम्भवाद् द्विधैव स्यात् । तच्चेत्थं वस्तु परीक्ष्यमाणं चतुर्धापि न घटते । तस्माद् भावाभावव्यतिरिक्तस्यार्थस्याभावादुपसर्जनयोरप्रवृत्तिरिति । स्यान्मतम्-प्रधानेन विनाप्युप-३७१-२ सर्जनयोः प्रवृत्तिर्भविष्यतीति । तदपि न च प्रधानेन विना उपसर्जनम् 'अस्ति' इति वर्तते, भृत- 15 कादिरिव स्वामिना । तस्मादकल्पना इयमपीति ।
__ स्यान्मतम्-उपार्योपकारिभावेन विनापि भवति वस्त्विति। एतदपि न च प्रधानोपसर्जनभावेनेत्यादि यावद् वस्तुप्रवृत्तिरिति । भोक्ता प्रधानम् , तदर्थं भोग्यमुपसर्जनमोदनवर्धितकवच्छंरीराद्यात्मनः । शरीरमेव भोक्त चेतनाधिष्ठितम् , तदर्थमुपसर्जनमाहारादि, आदिग्रहणाद् वस्त्रशय्यासनगृहादि, आहारार्थं शाल्यादि, शाल्याद्यर्थ सलिलादि । यथैतद् भोक्तृभोग्यादि गुणप्रधानभावेनैव प्रवर्तते न विना तेनेति । 20 दृश्यते च वस्तुनः प्रवृत्तिरित्थं प्रत्यक्षीकृतमिति तयोरेव भावाभावयोः प्रधानोपसर्जनता गुण- . प्रधानभावः, तृतीयवस्त्वभावात् ।
__ इतिशब्दस्य हेत्वर्थत्वादेतस्मात् कारणादेवमवस्थिते कतरत् कथं नियतमित्युभयनियम उच्यते. तद्यथा-भवत् प्रधानं कर्तृसाधनं प्रत्ययार्थः । भाव उपसर्जनं भावसाधनं प्रकृत्यर्थः । को भवतीति चेत्, उच्यते-भवति विशेषः, स एव 'भवति' इति भावः 'ण'प्रत्ययान्तेन कर्तृवाचिना शब्देनोच्यते 25 पूर्वनयव्याख्याव्युत्पत्तिवत् । अर्थतः प्रकृत्यर्थविवक्षायामपि कर्बर्थप्राधान्याद् भावसाधनत्वेऽपि कर्थ एवोच्यते, अतस्तत्प्रदर्शनार्थमाह-यत् तेन भूयते, किमुक्तं भवतीति चेत्, उच्यते यदसौ भवति भवनमापद्यते भवनक्रियामनुभवति स्वरूपप्रतिलम्भे गुणभूतं क्रियात्वं प्रतिपद्यमानोऽर्थो विपरिवर्तत इत्युक्तं
१ अत्र यथाश्रुते 'बलवता आश्रयभूतेन' इति पदच्छेदो विधेयः। अत्र बलवदाश्रयभूतेन इत्यपि पाठः स्यात् । दृश्यतां टि. २॥ २वताश्रया भा०॥ ३ तथेत्थं य०॥ ४ कारोपका प्र०॥ ५ च्छरीरादि आत्मनः' इति पदच्छेदः ॥ ६ गुणधान प्र०॥ ७ दृश्यतां पृ. ३७७-२॥ ८ दृश्यतां पृ० १७३ पं० २०, पृ० ३८२ पं० १३॥ ९ दृश्यतां पृ० ५३६ पं० १३-१४ ॥ ...
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org