________________
५५४
न्यायागमानुसारिणीवृत्त्यलङ्कतं [अष्टम उभयनियमारे पटोऽप्येवमेव । शिविकावाहकवत् तुल्यशक्तीनामप्यर्थानामङ्गाङ्गिभाव इति चेत्, न, शिबिकावाहकवत् प्रधानभूतस्यान्यस्य कस्यचित् सामान्यविशेषयोःप्रयोजयितुरभावात् । उत्तरभावः प्रयोजयितेति चेत्, न, तदाऽभूतत्वात् उत्पन्नस्यापि तदात्मकत्वात् शिविकावाहकवदखतन्त्रत्वात् ।
5 इतरस्य प्रधानस्यार्थ साधयितुमङ्गं प्रवर्तमानमङ्गिनमपेक्षते, अङ्गयप्यङ्गमित्यङ्गाङ्गिभावः, स न स्यात् परस्परानपेक्षत्वात् तयोः, परस्परानपेक्षत्वमपरार्थत्वात् , अपरार्थत्वं प्रधानत्वात् , यथा विजिगीषोः । ततो विरोधादेकत्र प्रवृत्त्यभावाद् वस्तु भावाभावात्मकं न भवतीति ।
कथं तर्हि भवतीति चेत् , घटो घटभावेन स्वेनैव भवति स्वभवनप्राधान्येन, न पटादिभावेन ३७०-२ उक्तसङ्कर-विशेषासत्त्वदोषभयात्, नाभावेन वा पटादेरोत्मनो वा, उक्तदोषादेव । पटोऽप्येवमेव, 10 खेनैव पटभावेन भवति न घटभावेनाभावेनैव वा ।
शिबिकावाहकेत्यादि यावच्चेदिति । स्यान्मतम् - परस्परनिरपेक्षत्वादित्यादिहेत्वसिद्धिः, तुल्यशक्तीनामप्यर्थानामङ्गाङ्गिभावदर्शनात्, यथा शिबिकावाहकानामिवेति । एतच्च [न], शिबिकावाहकवदित्यादि यावत् प्रयोजयितुरभावादिति । न हेत्वसिद्धिः, शिबिकावाहकानामिव प्रधानभूत ईश्वरो यथा प्रयोजयिता संहत्यकारिणामङ्गाङ्गिभावहेतुरस्ति वहन क्रियायां न तथा कश्चित् सामान्यविशेषयो15 घंटादेः पिण्ड शिवकादेश्च प्रधानभूतोऽन्यः कश्चित् प्रयोजयितास्ति । तस्माद् वैधादयुक्तदृष्टान्तमिदमुत्तरमिति ।
उत्तरभावः प्रयोजयितेति चेत् , पिण्डस्योत्तरो भावः शिवकादिः, स प्रयोजयिता प्रधानभूतः, तस्यापि स्थार्सेक-कोशक-कुशूलकादिरुत्तरो यावत् पश्चिमो घटः पुनरावृत्त्या इति एवं चेन्मन्यसे तदपि
न, तदाऽभूतत्वात् , उत्तरस्य भावस्य तस्मिन् कालेऽनुत्पन्नत्वादसतः प्रयोजकत्वाभावात् कुतः प्रधानत्वं 20 खपुष्पस्येव ? किञ्चान्यत्, अभ्युपेत्यापि तदुत्पत्तिमुत्पन्नस्यापि तदात्मकत्वात् मृत्पिण्डाद्यात्मकत्वादु
त्तरोत्तरभावस्य स्वबीजाँदभिन्नत्वात् पूर्व एवोत्तरः, स कथमात्मानमेव प्रयोजयितुमर्हति ? भेदमभ्युप३७१-१ गम्यापि शिबिकावाहकवदस्वतन्त्रत्वात् परवशवर्तित्वादप्रवर्तकत्वं पूर्वोत्तरयोर्दिक्तः कालतो वा भिन्न
योरपि भावाभावयोरप्रधानत्वादीश्वराप्रेरितशिबिकावाहकवत् । एवं तावत् प्रधानयोरप्रवृत्तिः सामान्यविशेषयोः। 25 अथ सन्मित्रवदित्यादि अन्यतरोपसर्जनप्रधानभावेन सामान्यविशेषयोरविशिष्टतेति
पूर्वपक्षयति । यथा संहत्यकारिणोः सन्मित्रयोः परस्परमतानुवर्तिनोरर्थवशादेकस्योपसर्जनता इतरस्य प्राधान्यमिति चेत् एवं चेन्मन्यसे, तदपि न, वक्ष्यमाणेत्यादि यावदभावादिति । 'भवितुर्विशेषस्यैव प्राधान्यम् सामान्यस्य भवनस्यैवोपसर्जनत्वमित्युभयनियमेनार्थवत्त्वं भावशब्दस्य नान्यथा' इति वक्ष्यतेऽस्य नयस्य मतम् । तस्माद् नान्यतरोपसर्जन-प्रधानभावः । . १ धान्येतत्र पटाप्र०॥ २रात्मनोक्तदोषादेव य०॥३ पृ० ५५३ पं० ८॥४°सकोशक भा०॥ ५त्यादि प्र०॥ ६°दिभिन्न य०॥ ७ यमेनार्थवत्त्वं य० ॥ ८ पृ. ५५५ पं० ७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org