________________
Y सद्गुरुभ्यो नमः
अथाष्टम उभयनियमारः। भावाभावभावनायां यदि भावो विधिरभावो विशेषः, स च पराभाव इष्टो न स्वरूपस्यैव विशेषः, ततस्तदभावे स्वत्वं परत्वं चाव्यवस्थितं परत्वाभावविशेष-. तुल्यत्वात् । ततश्च द्वयोरपीतरेतरात्मापत्तेः स्वपरविशेषत्वाभावे भावाभावयोर्भेदेनोपनिपातो न स्यात् खतोऽप्यसत्त्वं परतश्च सत्त्वं स्यात् ।
इदमिह सम्प्रधार्यम्-किमेतौ भावाभावौ द्वावपि प्रधानौ, भावः प्रधानं विशेष उपसर्जनम् , विशेषः प्रधानं भाव उपसर्जनम्, उभयमुपसर्जनम् ? यदि द्वावपि प्रधानी ततस्तयोरङ्गाङ्गिभावो न स्यात् परस्परानपेक्षत्वादपरार्थत्वात् प्रधानत्वाद् विजिगीषुवत् । घटो घटभावेन खेनैव भवति न पटादिभावेन नाभावेन वा,
विधि-नियमभङ्गसमस्तवृत्तिसत्यत्वप्रतिपादनाधिकारे पूर्वनयदृष्टावपरितुष्टेरुत्तरनयसमारम्भः,तद्यथा--10 भावाभावभावनायामित्यादि । यदि भावाभावात्मकं वस्त्विति भावो विधिरभावो विशेषः, स च पराभाव इष्टो न स्वरूपस्यैव भावस्य विशेषो नियम इति, ततस्तदभावे स्वगतविशेषाभावे परस्यापि स्वगतविशेषाभावे स्वत्वं परत्वं चाव्यवस्थितम्, परत्वाभावविशेषतुल्यत्वात् । स्वं खं न भवति पराभावविशेषत्वात् परवत् , पराभावविशेषत्वं वस्तुत्वात् स्ववत् स्वभावविशेषशून्यत्वात् । परमपि परं न भवति स्वभावविशेषशून्यत्वात् स्ववत्, पराभावविशेषत्वात् पूर्ववत् पक्षे धर्मसिद्धिः । ततश्च द्वयोरपि 15 स्वपरयोरितरेतरात्मापत्तेः 'स्वस्य स्खेत्वं परस्य च परत्वम्' इत्येष विशेषो नास्ति । सति च स्वपरविशेषत्वाभावे भावाभावयोः सामान्यविशेषयोर्भेदेनोपनिपातो न स्यात् । 'न स्यात्' इति सम्भावनया, मा मुखनिष्ठुरं वोचमिति । एवमैक्यापत्तिरनयोः । नैक्यापत्तिरेव, किं तर्हि ? सङ्करोऽपीत्यत आहस्वतोऽप्यसत्त्वं भावितार्थमेव, अपिशब्दात् परतोऽसत्त्वं त्वदभ्युपगतमेव, परतश्च सत्त्वं स्यात् , अनिष्टं चैतत् ।
किश्चान्यत्, इदमिह सम्प्रधार्यम्-किमेतौ भावाभावौ द्वावपि प्रधानौ विजिगीषू इवान्योन्यनिरपेक्षौ, भावः प्रधान विशेष उपसर्जनम् , विशेषः [प्रधानं] भाव उपसर्जनम् , उभयमुपसर्जनम् ? इति । चतुर्पु विकल्पेषु त्रीन् विकल्पान् व्युदस्य भावोपसर्जनं विशेषप्रधानं नयस्यास्य मतं समर्थयिष्यामः । तत्र तावद् यदि द्वावपीत्यादि उभयप्राधान्येऽनिष्टापादनं यावद् विजिगीषुवदिति ।
१ दृश्यतां पृ० ५३६ पं० १॥ २ सत्वं प्र० ॥ ३ स्यात्र प्र० ॥ ४ सभा प्र० ॥ ५ द्रष्टव्यं पृ० ५५५ पं० ७॥
नय० ७०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org