________________
दिङ्गागप्रणीतापोहवादनिरासः]
द्वादशारं नयचक्रम् ।
६३९
मित्रशत्रुमित्रच्च अपोह उपेक्षा च वेदितव्ये।"-Psvc.ed. D. ed. पृ. ७२B-७३A, N. ed. पृ. ८०B-८१B । Psvi N. ed. पृ० १६४ B-१६५ A, P. ed. पृ० १६३५-१६४B ॥
अस्य जिनेन्द्रबुद्धिरचिता विशालामलवती व्याख्या भोटभाषानुवादात् परिवोपन्यस्यते-"पूर्व 'कृतकत्वादिवत् खार्थमन्यापोहेन भाषते [ पृ. ६०७ ] इत्युक्तम् । इदानीं तस्यापवादम्-अन्यत्वेऽपीत्यादिनाह । यः परमः परिहारोऽन्यापोहः स सामान्य-विशेष-पर्यायशब्दार्थपरिहारेणेति । अन्यत्वे तुल्येऽपीति प्रसङ्गकारणमाह, प्रतिषेधस्य प्रसङ्गपूर्वकत्वात् , अन्यत्वं चापोहे निमित्तम् । अविरोधादित्यनपोहकत्वे हेतुः । येऽविरुद्धास्ते परस्परमप्रतिक्षिपन्तो नापोहन्ते यथा द्रव्ये रूपादयः । एवं त्रयाणामविरोधित्वं युगपदभिधायेदानी प्रत्येकं दर्शयितुमाह-पर्यायशब्द[स्य ] इत्यादि। अपोह्यस्तुल्य इत्येकार्थत्वमाह । युगपदप्रयोगादित्येकार्थत्वसाधनम् । तदेकार्थीकृतत्वादुभयोरप्रयोगः । यत्र शक्तौ सल्यामप्युभयोरप्रयोगस्तयोरेकार्थत्वम् , यथा विशेषयोः । य एकार्थास्तेऽविरोधिनो यथा द्रव्ये रूपादयो मित्राणि वा । पर्यायशब्दा अप्येकार्था इति व्यापकविरोधः । येऽविरोधिनस्ते परस्परतोऽप्रतिक्षिप्ता यथा त एव, पर्यायशब्दा अप्यविरोधिन इति व्यापकविरोध एव । स्वार्थश्च प्रतिक्षेप्तुं न युक्त इत्यनपोहत्वे हेत्वन्तरमाह । यो यस्य स्वार्थः स तेन नापोह्यते यथा विज्ञानेन स्वार्थः, पर्यायशब्दोऽपि पर्यायशब्दान्तरस्य स्वार्थः । सामान्यशब्देनापीत्यादि । सामान्यशब्दस्य वृक्षशब्दस्य यत् स्वसामान्य वृक्षत्वं तद्विशेषाः स्वभेदाः शिंशपादयः, तेषु अर्थान्तरस्य घटादेवृक्षशब्देनापोहो भेदशब्देन शिंशपाशब्देन अनुमन्यत एव अर्थित्वात । अर्थितो हि शिंशपाशब्देन घटाद्यपोहः । तदेवार्थित्वं दर्शयितुमाह-यथेत्यादि । अनेन घटाद्यपोहेनार्थित्वादेकार्थत्वद्योतकभेदशब्दः सामान्यशब्देनाविरुद्ध इति दर्शयति । यथा पलाशादिरूपः शिंशपाशब्दार्थो न भवतीति पलाशादयस्तत्प्रतिक्षेप्या एवं घटादिरूपोऽपि न भवतीति घटादयोऽप्यपोह्याः । ते च वृक्षशब्देनापोह्यन्ते । एतेनेत्यादिना स्वसामान्यस्य वृक्षत्वस्य यत् सामान्यं पार्थिवत्वं तच्छब्दः पार्थिवशब्दः सामान्यसामान्यशब्दः तेन यदपोह्यमा प्यादि तच्छिशपाशब्देनाप्यनुमन्यते, अर्थित्वात् । यथा शिंशपा न पलाशादि एवमाप्यत्वाद्यपि नास्ति ।....."एवं सामान्यशब्द इत्यादि । यथा भेदशब्दोऽविरोधात् सामान्यशब्दार्थ न प्रतिक्षिपति एवं सामान्यशब्दोऽपि सदादिः स्वार्थ सत्तादिकम् अभिमतविषये स्थापयन्निति भेदेष्वनवस्थितत्वात् स्थापयन् गुणादितो व्यवच्छिन्ने द्रव्यादौ निवेशयन्..... भेदशब्देन द्रव्यादिना भेदभेदशब्देन वा पार्थिव-वृक्ष-शिंशपादिशब्देन कथं नोपेक्ष्यते ? उपेक्ष्यत एव, अर्थित्वात् स्वविषये स्थित्या निर्विषयस्वार्थानुपपत्तेः । एतेनाभिमतार्थसाधनाद् भेदशब्दः सामान्यशब्दमुपकुरुते । ततश्च सामान्यशब्दस्तेनाविरुद्ध इति दर्शयति । समूहश्चेत्यादि अविरोधादप्रतिक्षेपे गुणोत्कर्ष दर्शयति, अथवा अन्योन्याप्रतिक्षेपे हेत्वन्तरमाह । परस्परार्थाप्रतिक्षेपे हि स्वार्थविशिष्टार्थवाचकत्वमुपपद्यते, नान्यथा ।............ एवं चेति परस्परार्थाप्रतिक्षेप एवेत्यर्थः, द्वयोरिति यथा 'वृक्षम्' इति प्रकृतिप्रत्यययोः........... । एवं नीलोत्पल मिति नीलोत्पलशब्दयोः ...... । बहूनामिति यथा 'राजपुरुषः सुरूप आगच्छति' इति स्वार्थसामान्ये प्रवर्तमानानां सर्वेषामपि वाक्यपदानामितरेषां च वाक्यार्थवाचकत्वमप्रतिक्षेपे योजनीयम् । अर्थान्तरवाचकत्विं ] प्रागेव प्रतिपादितमियाह-यथापूर्वोक्तवदिति । 'न हि तत् केवलं नीलं न च केवलमुत्पलम्' [पृ० ६३० पं० २२] इत्यादिना नीलोत्पलशब्दयोः समूहार्थस्य प्रत्येकं नैरर्थक्यदर्शनेन समूहस्यार्थान्तराभिधायकत्वमुक्तम् । आह चेति सामान्यभेदशब्दयोरविरोधे सामान्यशब्देन भेदानामत्यागानुपादाने अधिकृत्य कारिकामाहतन्मात्राकालणादित्यादि । स्वभेदमात्राकाङ्क्षणादित्यर्थः । आकाङ्क्षा तेषु सन्देहव्यवच्छेदार्थिता । मात्रशब्दो भेदान्तराकाङ्क्षानिरासाय । तथाहि वृक्षशब्दात् पलाशादिविषयैवाकाङ्क्षोत्पद्यते, न घटादि विषया ।......... - तस्माद् नोज्झितः । ............ ननूपात्तः, अनुज्झितत्वादिति चेत् , उच्यते-नोपात्त इत्यादि । नोपात्तो न प्रतिपादित इत्यर्थः । यो येषु संशयहेतुस्तेन ते न प्रतिपादिताः, यथा स एव, सामान्यशब्दोऽपि स्वभेदेषु संशयहेतुरिति कारणविरोधः। साम्ये चैकार्थता तयोरिति यत्र सामान्यविशेषशब्दाभ्यामुभयमपरिहृतमनुपात्तं च तत्रैकार्थत्वं तत्सामानाधिकरण्य मित्यर्थः । यथा सामान्यशब्देन स्वभेदा अप्रतिक्षिप्ता अत्यक्ताः किमेवं भेदशब्देनापि सामान्यम् ? इति पर्यनुयोग परिहरन्नाह-अनेकमपीत्यादि । यद्यपि सामान्यमनेकं तथापि तद् भेदशब्देनोपात्तं प्रतिपादितमित्यर्थः, प्रतिपादनाद् भिन्नस्योपादानस्यासम्भवात् ।............. अव्यभिचारिणेति यस्माद् विशेषः सामान्यं न व्यभिचरति सामान्याभावे विशेषाभावात् तस्मात् तेनोपात्तम् । न तयोरिष्टा(स्तुल्या?) विशेषणविशेष्यतेति वृक्षः शिंशपादिव्यभिचारव्यवच्छेदमपेक्षत इत्यस्ति विशेषण विशेष्यभावः, शिंशपा तु वृक्षसामान्याव्यभिचारं नापेक्षत इति नास्ति । व्यभिचारिणोर्विशेषणयोस्तु विशेषणविशेष्यभावस्तुल्यो यथा नीलोत्पलयोः ।....... किं पुनरत्रेत्यादि । सामान्ययोः खसामान्यापेक्षया भेदत्वात् पृथगनुपादानम् । भेदो भेदान्तरार्थमिति वृक्षत्वस्य भेदः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org