________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतं [अष्टम उभयनियमारे भेदपर्यायवाच्यनुत् । त्वया पुनस्त्यक्तोऽन्यापोहवादः, अनिर्वाहकत्वात् । शब्दान्तरार्थापोहं खार्थे कुर्वती [ श्रुतिः] तदर्था स्यात् । सामान्यादिशब्दान्तरार्थात्यागात्तु त्वदनिष्टो नन्वयमेव परमविधिः । विधानं विधिः ।
विध्येकीभूतार्थत्वादिति कारणं वक्ष्यति । नन्विदमेव विधिना वाच[क] त्वेऽनुमानं शब्दस्य-यदन्यत्वेऽपि सामान्यादीनां विशेषानुगुणानां गतिः। समूहश्च प्रकृतिप्रत्ययादीनां तथार्थान्तरवाचक इति युक्त्या वक्ष्यामः ।
त्वया पुनरुत्सर्गवाक्ये महता क्लेशेन प्रतिपाद्यापवादवादेन त्यक्तः । किं कारणम् ? अनिर्वाहकत्वात् , किमनेन प्रतिज्ञातमर्थमनिर्वहता ? शब्दान्तरार्थापोहं स्वार्थ कुर्वती तदर्था [अ]न्यापोहा स्यात् , तेत्तु नोक्तमत्यन्तं सामान्यादिशब्दान्तरार्थापोहानिष्टेः । तस्मात् त्यक्तोऽन्यापोहः। ततः किम् ? ततः सामान्यादिशब्दान्तरार्थात्यागात्तु त्वदनिष्टो नन्वयमेव परमविधिः । कोऽक्षरार्थो विधिरित्यत आह-विधानं विधिरिति । लक्षणतस्तु अनपवादं प्रतिपत्त्याधानं विधिः । स च विधिरेव शब्दार्थः सामान्याद्यन्यशब्दार्थेषु अव्याहतत्वात् परमः श्रेष्ठः ।
शिंशपादिः, परस्परतो मिद्यत इति कृत्वा । अत्र विषयेण विषयिनिर्देशाद् भेदो भेदान्तरं च शब्द इति विज्ञेयम् । भेदशब्दो भेदान्तरशब्दार्थमित्यर्थः । विरोधित्वादिति हेतुः । सामान्यार्थापहारित्वादिति विरोधित्वस्य कारणम् । राजपुत्रवदिति दृष्टान्तः । राजपुत्राणां पितरि मृते सामान्यार्थो राज्यम् , तस्य तैर्यथासर्वपराक्रममपहृतत्वाद् विरोधिनः, ततश्च परस्परार्थ न सहन्ते। ये सामान्यार्थापहारिणस्ते परस्परविरोधिनः, राजपुत्रवत् , सामान्यशब्दा अपि तथेति स्वभावः । ये विरोधिनस्ते परस्परार्थ न सहन्ते, तद्वदेव, भेदशब्दा अपि तथेति व्यापकविरोधः । यथेति सामान्यार्थापहारित्वं दर्शति । एकद्रव्यापहारित्वादिति सामान्यार्थापहारित्वस्यैवान्धाख्यानम् ।...... ... विरोधः परिहार हेतुरुक्तः, स च सामान्यार्थापहारित्वात् । सामान्यान्तरस्य पार्थिवत्वादेर्ये भेदा घटादयस्तद्वाचकशब्दैः सह शिंशपाशब्दस्यैकार्थापहारित्वं नास्ति, किं तर्हि ? वृक्षशब्देन । तस्मात् परिहारहेत्वभावान्नापोह इति मन्यमान आह-अथेत्यादि । शिशपासामान्यं वृक्षत्वम् , ततोऽन्यत्वात् पार्थिवत्वं सामान्यान्तरम् , तद्भेदो घटादिः, सोऽसम्बद्धः शिंशपाशब्देन विरोधाभावात् , तच्छब्देन शिंशापाशब्दस्यैकद्रव्यापहारित्वमपि नास्ति । तस्मात् तं कुतोऽपोहते ? अविरोधादम्यानपोह एवेत्यर्थः । सामान्यान्तरभेदार्था इति तमेव अपोहकारणं विरोधं दर्शयति । विरोधसामान्यमपोहस्य कारणम् । अत्र च यद्यपि न साक्षाद् विरोधस्तथापि परम्परयास्त्येव । तद्दर्शयति-वृक्षशब्देन त्वित्यादि । तेनेत्यादि । शिंशपाशब्दस्य मित्रं वृक्षशब्दः, तदर्थसामान्यवाचकत्वात् । तच्छत्रको घटादिशब्दाः पार्थिवत्वापहारित्वात् । ततो वृक्षशब्देन तेन घटाद्यपोहः क्रियमाणः शिंशपाशब्देनानुमन्यते मित्रशत्रुवत् । अर्थतस्तत् तेनेति शिंशपाशब्दार्थः शिंशपासामान्यम् , तच्चाघटादिरूपत्वाद् घटादितो व्यावृत्तम् । तत एवार्थतो गम्यते । शिंशपाशब्दस्य तत्र व्यापारो नास्ति तथापि शिंशपाशब्देन तेन घटाद्यपोढमिति गम्यते, तद्गत्यार्थतस्तस्यापोढत्वात् । पतेनेति अनया युक्त्या पार्थिव त्व]सामान्यात् सामान्यान्तरं द्रव्यत्वम् , तत्सामान्यं सत्ता, तद्भेदा गुणाः कर्माणि च, तेषामपि भेदा रूपादय उत्क्षेपणादयश्च यथासङ्ख्यं स्खविरोधिसामान्यशब्देनापोढा विशेषशब्देनोपेक्षिताश्च सम्बद्धसम्बन्धाद् वेदितव्याः । कथमिति चेदुच्यतेमित्रमित्रशत्रुवदित्यादि। अत्र मित्रमित्रेति द्विरुक्तिः परम्परया मित्रप्रतिपादनेच्छयावगन्तव्या, अन्यथा एकीकृतेनैव मित्रेण मित्रस्य प्रतीतेः । तत्र गुणकर्मणी शिंशपाशब्देन द्रव्यशब्देनापोह्यमानानि मित्रमित्रशत्रुवदनुमन्यन्ते । गुणविशेषा रूपादयः कर्मविशेषाश्चोत्क्षेपणादयस्तु शिंशपाशब्देन मित्रशत्रुमित्रवद् द्रव्यशब्देन.....'अपोह्यमाना उपेक्ष्यन्ते।"-विशालामलवती VT. D. ed. पृ० २६६ A-२७० A, P. ed. पृ० ३०१ -३०५ A ॥
१ दृश्यतां पृ० ४२४-२॥ २ तुलना-पृ० ६३८ पं० ११॥ ३°पवादन त्यक्तः भा० ॥ ४ तदर्थान्यापोहार्था प्र० ॥ ५ तत्तु त्यक्तमत्यन्तं इति सम्यग् भाति ॥ ६ श्रेष्ठः य० प्रतौ नास्ति । तुलना-पृ० ६३९ पं० ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org