________________
दिनागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् ।
सामान्यानुदुक्तेः सामान्ये विशेषविध्यर्थो न व्याहन्यते । यथा न हि घटादि सामान्यानुपसर्जनं भवितुमर्हति, वस्तुत्वात्, आत्मवत् । यथा स सन्तानाख्यसामान्योपसर्जनस्तमन्तरेण न भवितुमर्हति आ मुक्तेरेवं घटशब्देनाप्यागृहीता मृदादयस्तच्छब्दार्थान्तःपातित्वादाकारादिवत् ।
भेदास्तूच्यन्त एव, घटसामान्यस्य तदङ्गत्वात् तद्भवनभवनात्मकत्वात्, 5
तत्र तावत्-सामान्यानुदुक्तेः सामान्ये 'विशेषविध्यर्थो न व्याहन्यते, त्वयैव 'सामान्यं न नुदति' इत्युक्तत्वादस्मदिष्टम् उपसर्जनीकृतसामान्यो विशेषो विधिनैवोक्त इति । तस्य निदर्शनम्-यथा न ४२०-२ हि घटादीत्यादि । साधनमिदम्-सामान्योपसर्जनमेव न सामान्यानुपसर्जनं भवितुमर्हति घट-पटादि बाह्यवस्त्विति प्रतिज्ञा । वस्तुत्वादिति हेतुः । आत्मवदिति दृष्टान्तः, आन्तरोऽर्थो नामरूपसन्तानाख्य आत्मा, यथा स शरीरादिप्रतिक्षणदेशभिन्नरूपादिसुखविज्ञानादिविशेषतत्त्वोऽर्थः सन्तानाख्यसामान्योपसर्जनस्तम-10 न्तरेण न भवितुमर्हति नरक-मनुजादिविशेषतत्त्वो वाऽऽमुक्तः यावद् मोक्षस्तावद् विशेषाः सामान्यानुविद्धा एव तथा घटादयोऽपि बाह्या इत्यत आह-एवं घटशब्देनाप्यागृहीता मृदादय इति साध्ये बाह्ये सामान्यमृदाशुपसर्जनं घटविशेषार्थं दर्शयति । तच्छब्दार्थान्तःपातित्वादिति आत्म-घटाद्यविशेषवाचिना सर्वनाम्ना वस्तुत्वसामान्यस्य साध्येनानुगतत्वं विशेषाविनाभाविनो दर्शयति । आकारादिवदिति प्रतिक्षणदेशादिभिन्नरूपादिविशेषपरमार्थस्य ऊर्द्धग्रीव-पृथुकुक्षित्वादिसामान्योपसर्जनस्य सद्भावात् । 15
एवं तावद् घटे विशेषशब्दार्थे पार्थिव-द्रव्य-सत्त्वादिसामान्यात्यागो युक्तः, विधिप्रधानशब्दार्थत्वात् । एवं तर्हि 'वृक्षः शिंशपा' इति शिंशपाविशेषो विधिना कथमुच्यते वृक्षविधावनुपसर्जन इत्यत्रोच्यतेभेदास्तूच्यन्त एव, 'वृक्षः शिंशपा' इत्यादिवद् घटस्य ये ये रूपादयो युगपदयुगपद्भाविनस्त एव मुख्यशब्दार्थत्वादुच्यन्ते, घटसामान्यस्य तदङ्गत्वाद् घटाद्युपसर्जनरूपादिविशेषपरमार्थत्वात् तद्भवनभवनात्मकत्वात् , सँ विशेषो भवनं भावः प्रत्येकं निर्विकल्परूपादिभवनमात्मलाभः, तद्भवन[भवन]मात्मास्य 20 घटस्येति तद्भवनभवनात्मको घटः 'शिबिकावाहकाने ईश्वरस्येव यानवत्' इत्युक्तं प्राक् । तन्निरूपयति-४२१-१ रूपादिरूपादिस्वरूपशब्दार्थत्ववदिति, यद्यपि युगपद्भाविनो रूपादिस्वभावा एव सन्तो रूप-रस-गन्धस्पर्श-शब्दा एव निर्विकल्पा वस्तुत्वाच्छब्दार्थः प्रतिक्षणवर्ययुगपद्भाविनो वा विशेषास्तथापि सामान्योपसर्जनद्वारेण 'इति सामान्यशब्दाः प्रयुज्यन्ते, न तु कल्पितेन परमार्थसता वा विना तेन सामान्येन शब्दार्था भवितुमर्हन्तीति । तस्मात् सामान्यशब्दप्रयोगो विशेषप्रतिपादनार्थः, विशेषास्तु विवक्षिता एव परमार्थ-25 त्वादस्य नयस्य ।
विशेषणविध्यर्थी य० ॥ २ तत्वार्थः यः॥ ३ तत्वो मक्ते य० ॥ ४ तच्छब्दार्थतःपाति प्र० ॥ ५साध्यनानुभा० । साध्यतानु य० ॥ ६ घटस्या येये भा० । घटस्यापोष य० ॥ ७ युगपद्भाविनो भा० ॥ ८ स हि शेषो प्र. । (स हि विशेषो? )॥ ९ मात्रलाभः प्र०॥ १०°यानेश्वरस्येव याचनवत् प्र०॥ ११ प्रति प्र० ॥
नय०८१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |