________________
६४२
न्यायागमानुसारिणीवृत्यलङ्कतं अष्टम उभयनियमारे रूपादिरूपादिस्वरूपशब्दार्थत्ववत् । पर्यायशब्दा अपि तद्विधानाः घटनविशेषस्य कुटनकुम्भाद्यर्थात्मकत्वात् । [न] हि कुटन[-कुम्भताभ्यां विना घटनम्, नापि घटनं विना कुटन-कुम्भते] । इत्येतदवगम्यताम्-सामान्यविशेषपर्यायशब्दार्थानामन्यत्वेऽपि विधिप्राधान्यादेव तान्नापोहते। 5 विध्यतिक्रमे स्वप्रस्तुतासत्त्वशब्दार्थापत्तरन्यापोहायुक्तिश्च । विधिपक्षे तु साक्षादेव स्वार्थ ब्रूते । पर्यायशब्दस्य तावद् विधेय एवार्थः, दर्शनात् , द्विमातृवत् । विशेषणवरूपापन्नविशेष्यप्रतीतित्वाद् युगपदप्रयोगेऽपि स एव भेदः प्रतीयते । न हि खार्थानुपातित्वाद् विधिः खरससमापतितः प्रतिक्षेप्तुं युक्तः।
पर्यायशब्दा अपीत्यादि । ये पुनः पर्यायशब्दास्ते तद्विधाना एवमेव विशेषं विदधति, घटन10 विशेषस्य कुटन-कुम्भाद्यर्थात्मकत्वात् , तस्य कुटिलता कुटनम् , घटनं चेष्टा, कुम्भता वृत्तत्वम् । ताभ्यां
घटन-कुटनाभ्यां विना नास्ति कुम्भता नाम काचित् , तया वा विना न घटन-कुटने स्त इति [न ?] हि कुटनेत्यादिनान्योन्याविनाभावं दर्शयति ।
प्रकृतमुपसंहरति-इत्येतदवगम्यतामित्यादिना । इत्थं प्रतिपद्यस्व यथा 'घटः' इत्युक्ते पटस्तत्प्रतिपक्षशब्दार्थोऽन्यस्तथैवाप्रतिपक्षसामान्य-विशेष-पर्यायशब्दार्था अन्ये, ततस्तेषामन्यत्वे तुल्ये विधि15 प्राधान्यांदेव तान् नापोहते, नान्यत् कारणं विधेः । अतोऽस्माकमपवादलक्षणान्तरारम्भक्लेशाहते व्यापि
युक्तं चासत्योपाधिसत्यविध्यर्थलक्षणशब्दार्थकथनं श्रेयोगुणप्रकर्षयुक्तं च । ४२१-२ भवतस्तु विध्यतिक्रमे त्वप्रस्तुतासत्त्वशब्दार्थापत्तेरन्यापोहायुक्तिश्च । यदि विधिर्नेष्यते ततो
न केवलौवव्याप्त्यतिप्रसङ्गदोषावेव, किं तर्हि ? एषोऽप्यनिष्टोपचयः-उदकाद्याहरणार्थिने 'घटः' इत्युक्ते तंत्राप्रस्तुतस्य अविवक्षितस्य पटादेरघटस्याऽसत्त्वं व्यावृत्तिरविवक्षितोऽशब्दार्थ एव शब्दार्थ इत्येतदापन्नम् । 20 अनिष्टं चैतदिति ।
__ किञ्च; विधिपक्षेऽस्मदिष्टे साक्षादेव अव्यवहितमेव स्वार्थ ब्रूत इत्येष च विशेषः । तद्यथापर्यायशब्दस्य तावदित्यादि यावत् प्रतिक्षेप्तुं युक्त इति । पर्यायशब्दस्य घट-कुटादेविधेय एवार्थः, कस्मात् ? दर्शनात्, विधेयत्वदर्शनात् , तदेव हि विधेयं घटनं कुटनमुभयं वा । किमिव ? द्विमातृवत् , यथा विशेष[ग]द्वारेण विशेष्यप्रधाने निर्देशे 'राधकमाता, पूर्णकमाता, राधकपूर्णकमाता' इति द्वाभ्याम25 न्यतरेण वा विशेष्यते सैव तथा विशेषणस्वरूपापन्नविशेष्यप्रतीतित्वात् सम्बन्धिविशिष्टरूपप्रतिपत्तेरित्यर्थः, युगपदप्रयोगेऽपीति निमित्तभेदेऽप्यर्थै कत्वाद् युगपदप्रयोगेऽपि स एव निमित्तोपलक्षितो भेदः प्रतीयते । स्यान्मतम्-निमित्तभेदे निमित्तिभेदात् किमर्थं निमित्तान्तरापोहो न भवतीति, एतच्च न हि स्वार्थानुपातित्वाद् विधिः खरससमापतितः प्रतिक्षेप्तुं युक्तः । निमित्तान्तरेणापि तस्यैव विशेषार्थस्य
१ प्रतिपाद्यश्व प्र० ॥ २°न्यादेवदत्तान् प्र० ॥ ३°क्रमेण प्रस्तुत य० ॥ ४ (पत्ति? ) ॥ ५ लावव्याप्यति भा० । लावध्यायति य० ॥ ६ तवाप्र भा०। ७ टस्यात्वं प्र०॥ ८ अवविहतमेव य० । अविहितमेव भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org