________________
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् ।
શરૂ अत एव सामान्यशब्देनापि स एव विशेषार्थः साक्षादव्यवहितवृत्तिना विधिना प्रतीयते । सर्वथा अव्यवहितवृत्तिना विधिना स्वभेदाः समाक्षिप्तास्तद्रूपपरमार्थत्वेनाङ्गाङ्गिभावगत्या।
प्रतिषेधव्यापारनिराकाहं विध्यर्थस्य प्रतिपत्ती उपसर्जनत्वेनापोहबुद्धेरुत्पत्तेविधिः प्रधानोऽप्रधानोऽपोहः, यथा शिंशपायुपहारिवृक्षशब्दार्थेऽघटघटा-5 नवतारः।
४२२-१
प्रतीतेः स एवार्थः स्खेनैव रसेन समापतितः प्रतिपादयितुमिष्टश्च किमिति प्रतिक्षिप्यते ? न हि स्वार्थप्रतिक्षेपो युक्तः । किं कारणम् ? दूरमपि गत्वा तेन विना तदगतेः 'घटः' इत्युक्ते 'अघटो न भवति' इति प्रतिषेधद्वयेनार्थान्तरं व्यावापि घट एवावश्यं प्रतिपत्तव्यः, स च कुट एवेति कुटत्वेन विना घटत्वाभावात् कुटत्वस्याप्यविनाभाविनः स्खेनैव रसेन प्रतीयमानत्वादक्लेशेनागतो विधिरेव शब्दार्थः पर्याय इति । 10
'किश्चान्यत् , अत एव अविनाभावात् सामान्यशब्देनापि घटस्य पार्थिवादिना सामान्यसामान्यशब्देन वा द्रव्य-सत्त्वादिना विधीयमानः स एव विशेषार्थो घटाख्यः साक्षादव्यवहितवृत्तिना विधिना प्रतीयते । तानि हि भेदरूपाणि अनेकात्मकस्य वस्तुनः सामान्याद्याकारेणापि गृह्यमाणानि कथं न विधीयन्ते ? सर्वथेत्यादि, तस्मादव्यवहितविधिवृत्तिना शब्देन घटस्यैव स्वभेदाः समाक्षिप्ताः। यथोक्तम्-सद्रव्यपृथिवीमृद्धटादि(भि)सम्बन्धादस्ति द्रव्यं पार्थिवो मार्तिको घट इति घटे सम्प्रत्ययः 15 [ ] इति । तत् कथमिति चेत् , उच्यते-तद्रूपपरमार्थत्वेन, तानि भेदरूपाणि एव सामान्यवदाभासमानानि अविद्यमानान्येव वा सामान्यादिरूपाणि भेदप्रतिपादनपरतया तस्यैव विशेषस्य परमार्थरूपत्वेनाङ्गाङ्गिभावं गतानि, असत्योपाधिसत्यशब्दार्थत्वात् । तथा चाङ्गाङ्गिभावगत्या तद्रूपपरमार्थरूपया अव्यवहितवृत्तिना विधिना स्वभेदाः समाक्षिप्ता इति वर्तते ।
प्रतिषेधव्यापारनिराकासमित्यादि यावद् घटानवतार इति । योऽपि त्वयान्यापोह इष्टः सोऽपि 20 विधिमन्तरेण न भवति, यस्मात् 'अघटो न भवति' इत्येतेमविवक्षितं द्विःप्रतिषेधमनाहत्यानपेक्ष्य विधिरूपेण विवक्षितविध्यर्थस्य घटस्य प्रतिपत्तौ सत्यामुत्तरकालं भवति, नाप्रतिपत्तौ । तस्यैवं चरितविध्यर्थस्य घटस्य उपसर्जनत्वेनापोहबुद्धेरघटाभावबुद्धेरुत्पत्तेरवश्यात्मा विधिः प्रधानोऽप्रधानोऽपोह इति । ४२२-२ किमिव ? शिंशपायुपहारिवृक्षशब्दार्थे[s]घटघटानवतारवत् , यथा 'वृक्षः' इत्युक्ते शिंशपादिभेदानामन्यतमेन विनार्थवान्न भवति वृक्षशब्द इति शिंशपादि उपहरन्नर्थवान् , तस्मिन् मूलादिमति शिंशपाद्य- 25 वश्यम्भावि विशेषस्वभावेऽर्थे[]घटानवतारः, 'अघटो न भवति' इत्यस्य तु दूरत एव, नैवासौ शब्दार्थो गुडमाधुर्यगतिवदर्थापत्तिलभ्यत्वात् । घटानवतार इत्येव वा पाठः, घटस्य वृक्षार्थेऽवकाशाभाववदनुपात्तावृक्षापोहस्य कोऽवकाश इति ।
१"शब्दार्थे घटानवतारः' इत्यपि पाठान्तरम् ॥ २ किंचादन्यत एव प्र०॥ ३ तुलना-पृ. ६३९ पं० १७ ॥ ४ उद्धृतमेतत् प्रागपि नयचक्रवृत्तौ पृ० ३३ पं० १० इत्यत्र ॥ ५ तदविव य०॥ ६प्रतिपत्तौ स्यामुत्तरकालं प्र०॥ ७ तस्येवं प्र०। (तस्यैव?)॥ ८रवस्यात्मा य० ॥ ९शब्दार्थ घटाघटानवतारवत' इत्यपि पाठोऽत्र भवेत् ॥ १० भावेर्थघटान प्र० । अत्र "भावेऽर्थे घटानवतारः, 'घटो न भवति' इत्यस्य' इत्यपि पाठः सम्भवेत् ॥ ११ वशाभाव प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org