________________
६४४
___ न्यायागमानुसारिणीवृत्त्यलङ्कृतं [अष्टम उभयनियमारे यदि तु सोऽप्यपोहपर एव स्यात् ततोऽवृक्षव्यावृत्तिव्यापृतत्वाद् वृक्षभेदं नाक्षिपेद् नानुमन्येत न व्युदस्येत् , अनर्थित्वात् , अवृक्षाभवनवत् । अवृक्षो घटादि........."व्यापार एव नास्ति ।
यदसौ वृक्षार्थ शिंशपादिभेदात्मकं खार्थमनन्यत्वेनाक्षिपति तस्मात् तेन सह सामानाधिकरण्यं प्रतिपद्यते तद्भवनविध्येकार्थीभावात् ।
तद्भवनभवनविधिविनाभावे तु न युज्यते भेदाक्षेपाभावात् । भवनविधिविनाभूतं भेदानाक्षेपि न समानाधिकरणं वृक्षः शिंशपेति त्वदभिमतं वस्तु स्यात् , अभवत्त्वात्, वन्ध्यापुत्रवत् ।
स्यान्मतम्-अत्रापि 'वृक्षः' इति 'अवृक्षो न भवति' इत्यपोह एवोच्यते, न शिंशपायुपहारः, तस्यैव 10"विसंवादस्थानत्वाद् न स्वार्थ इति । अत्रोच्यते-यदि तु सोऽप्यपोहपर एव स्यादित्यादि । यदि तु
सोऽपि वृक्षशब्दोऽपोहपर एवाभविष्यत् ततः सोऽवृक्षव्यावृत्तिव्यापृतत्वादू वृक्षभेदं शिंशपादीन्नाक्षिपेत् , आक्षि]पतीति चेष्टं शिंशपादिसामाना धिकरण्यदर्शनात् । तथा नानुमन्येत अनाक्षिप्तत्वात् तमर्थम् , अनुमन्यते तु । न व्युदस्येत् 'अपोह एवं' इत्यभावमात्रार्थत्वात् खपुष्पवत् । वक्ष्यति
चोपसंहारे-शून्यमात्रत्वात् किं कः केन कस्माद्वापोहते ? इति । कुतोऽनाक्षेपाननुमत्यव्युदासा इति चेत् , 15 उच्यते-अनर्थित्वात् , अनर्थी हि शिंशपादिना भेदेन वृक्षशब्दः, तस्मान्नाक्षेपादीन कुरुते । किमिव ? अवृक्षाभवनवत् । तद्वयाख्या-अवृक्षो घटादीत्यादिर्गतार्था यावद् व्यापार एव नास्तीति ।
यदसावित्यादि । विधिवादे त्वस्मत्पक्षे यस्मादसौ वृक्षशब्दो वृक्षार्थ घटादिभ्योऽन्यत्वेन शिंशपादि१२३-१ भेदात्मकं स्वार्थमनन्यत्वेनाक्षिपति तस्मात् तेन सह सामानाधिकरण्यं प्रतिपद्यते-वृक्षः शिंशपेति, तद्भव -
विध्येकार्थीभावात् । 20 तद्भवनभवनविधिविनाभावे तु न युज्यते । तत्समानाधिकरणं भवनं भवनमस्य तद्भवनभवनम् , तस्य तद्भवनभवनस्य विधिरात्मलाभः स्थितिराचारः, तेन विनाभावे तद्विरहितत्वे न घटते घटां नोपैति, भवनविधिविनाभूतस्य भेदाक्षेपाभावात् , न ह्यभवतो भेदा आक्षेपकत्वं वास्ति यतः समानाधिकरणता स्यात् । साधनमप्यत्र-भैवनविधिविनाभूतं भेदानाक्षेपि न समानाधिकरणं वृक्षः शिंशपा इति त्वदभिमतं
वस्तु स्यात् , अभवत्त्वात्, वन्ध्यापुत्रवत् । अनुपपन्नसामानाधिकरण्यभेदाक्षेपार्नुमति त्वदिष्टं 'वृक्षः 25 शिंशपा' इति पदद्वयाभिधेयम् , अभवत्त्वात् , वन्ध्यापुत्रवत् ।
१ तुलना-पृ० ६४६ पं० ४॥ २ 'अवृक्षो घटादि, तदभवनस्याप्रस्तुतत्वाद् वृक्षशब्दस्य तत्र व्यापार एव नास्ति तथाऽप्रस्तुतत्वाद् वृक्षभेदाक्षेपे वृक्षशब्दस्य व्यापार एव नास्ति' ईदृशं किमपि मूलं सम्भाव्यते ॥ ३ तस्येव प्र० ॥ ४ (विवादस्थानत्वाद्?)॥ ५ व्यावृत्तत्वाद् प्र०॥ ६ 'वृक्षसेदान्' इत्यपि पाठोऽत्र भवेत् ॥ ७ व्युदस्येवपोह प्र.॥ ८ दृश्यतां पृ. ६४५ पं०४॥ ९ दृश्यतां पृ० ६४६ पं० २३॥ १०°विधिकार्थी प्र०॥ ११ तु प्रयुज्यते तत्समाधिकरणीभवनं प्र०॥ १२ विना अभावे प्र०॥ १३ भवनविधिभूतं प्र० ॥ १४ अभत्वात् य० ॥ १५ दृश्यतां पृ० ६४७ पं० ६॥ १६ पृ. ६४४ पं० २ इत्यत्र निर्दिष्टा अनुमतिरत्राभिप्रेता ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org