________________
दिमागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् । ___कुतोऽस्य भेदस्य भेदत्वम् ? कथं सोऽपि तीभेदः ? यद्यसावपि भेदो न भवति न तर्हि वृक्षो भवति, अभूतशिंशपादिभेदत्वात् , घटवत् । सोऽप्येवमेव घटो न भवति, अभूतग्रीवादिभेदत्वात्, वृक्षवत् । यावत् परमाणुर्न भवति, अभूतरूपादिभेदत्वात्, विज्ञानवत् । एवं च सर्वमिदं शून्यमापद्यते । कः किं केन कस्माद्वापोहते?
अथ कथञ्चिदू भवत्यपि वृक्षस्ततः स्वार्थाद्युक्तेः स एव विधिर्विषयः संवृत्तोऽर्थः । तदुपसर्जनश्चापोहोऽसत्त्वादसत्यः। असत्योपाधिः सत्यः शब्दार्थः। स च 'विशेषार्थविधिः।
__इतर आह-कुतोऽस्य भेदस्य भेदत्वम्, शिंशपादेव॒क्षभेदाभिमतस्य तद्भेदत्वम् ? वृक्षसामान्यस्यानुवृत्तिलक्षणस्याऽवृक्षाभावत्वे सत्यसिद्धत्वात् कस्य भेदः शिंशपादिः ? तस्माद् भेदस्य शिंशपादेर्भेदत्वं कुतः ? 10 नैवास्तीत्यर्थः । कथं सोऽपि तीभेदः ? न भवति शिंशपादिवृक्षः अभेदोऽन्यस्मादनिवृत्तोऽनपोहः शिंशपावृक्षाभावाव्यावृत्तो वृक्ष एव न भवति, कुतो भेदः शिंशपादिवृक्ष इति ।
अत्रोच्यते-यद्यसावपीत्यादि अनिष्टापादनसाधनम् । यद्यसावपि भेदो न भवति शिंशपादिः न तर्हि वृक्षो भवतीति वृक्षस्यैवावृक्षत्वमवस्तुत्वं प्रतिज्ञायते । हेतुः-अभूतशिंशपादिभेदत्वात् । घटवदिति दृष्टान्तः । सोऽप्येवमेवेत्यादि, यदि तु सोऽपि घटो न भवति भेद इतीष्यते तस्याप्यघटत्व-15 मभूतग्रीवादिभेदत्वात् , वृक्षवत् । एवं ग्रीवादिरभूतकपालादित्वात् इत्यादि यावत् परमाणुन भवति, ९२२० अभूतरूपादिभेदत्वात् , विज्ञानवत् । रूपादिरप्यरूपादि, अभूतरूपादिक्षणभेदत्वात् , विज्ञानवदेव । सर्वत्र वा सामान्येन न भवन्त्येतेऽर्थाः स्वभेदशून्यत्वात् खपुष्पवदिति ।
एवं चेत्यादि प्रेस्तुतदोषापादनोपसंहारः। एवम् अनेन विधिना सर्वमिदं दृश्यादि प्रत्यक्षाभिमतमनुमेयमभिधेयं वा वस्तु शून्यमापद्यते त्वन्मतेनैव । कः किं केन कस्माद्वापोहते ? सर्वस्य 20 शून्यत्वे 'कः किम्' इत्यादि कर्तृकर्मकरणापादानभूतानां शब्दादीनामभावेऽपोहाभाव एवमित्यर्थः ।
अथ कथञ्चिदित्यादि । मा भूदेष सर्वशून्यत्वदोष इति त्यक्त्वा भवनाभावमात्राकान्तापोहकल्पनां केनचित् प्रकारेण भवत्यपि वृक्षोऽवृक्षो न भवति, शिंशपा भवत्यपि इतीष्यते शब्दार्थशून्यत्वदोषभयात् ततो वयं ब्रूमः- स्वार्थाद्युक्तः 'स्वार्थ कुर्वती श्रुतिरभिधत्ते' [ ] इत्यादिवचनात् स एव विधिर्विषयः संवृत्तोऽर्थः । तदिदानी प्रस्तुतनयमतेन शब्दार्थं योजयति-तदुपसर्जनश्चापोहोऽसत्त्वा- 25 दसत्यः, विशेषार्थस्य विधेरुपसर्जनोऽपोहः, स चासत्त्वादसत्यः, उक्तवदेव प्राग् विस्तरेण असत्योपाधिः सत्यः शब्दार्थः, स च विशेषमेव विदधाति नापोहते इत्येष शब्दार्थविधिरिति ।
१ पृ० ६४४ पं० १४ ॥ २ दृश्यतां पृ० ६४६ पं० १९॥ ३°रूपा। क्षण य० ॥ ४ भवन्त्येतोः भा० । भवन्त्यतीर्थाः य० ॥ ५प्रयुक्तस्तुतदोषा भा० । प्रयुक्तस्तुतदोषा य० ॥ ६ शून्यत्वो भा० । (शून्यत्वात् ? )॥ ७ इत्यादि कर्मकरणा य० ॥ ८°कांत्यपोह प्र०॥ ९ वृक्षो वृक्षो भा०॥ १० न भवति शिंशपा न भवति शिशपा प्र०॥ ११ पृ० ६०९ ॥ १२ वचनाश एव भा० । वचनांश एव य० ॥ १३ संवृतों प्र० ॥ १४ शब्दस्यार्थः भा० । अयं भा० पाठोऽपि समीचीन एव ॥ १५ इत्येव शब्दार्थ य० । इत्येशब्दार्थ भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org