________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतं
[ अष्टम उभयनियमारे
एतेन सामान्यशब्दार्थविशेषताप्युक्तैव । सामान्यस्य स्वार्थं विशेषशब्दोऽभिधत्ते तत्त्वेनात्मानं विदधदभेदत्वासत्त्वापत्तित्यागेन शिंशपादिसम्परिग्रहेण अत्यजन्नेवानुवृत्तिव्यावृत्ती तदुपसर्जनाशिंशपाऽभवनबीजतां यान् ।
यदि तु सोऽप्यपोहपर एव स्यात् ततः शिंशपाशब्दो न विदध्याद् वृक्षार्थं व्यावृत्तत्वात् अर्थापत्त्या नानुमन्येत वोपात्तार्थाविरोध इति अशिंशपाऽभवनवत् ।
६४६
एतेन सामान्यशब्दार्थविशेषताप्युक्तैव । यथान्यत्वे विशेषप्राधान्यात् सामान्य-भेद -पर्याय४२४-१ शब्दार्थास्तदङ्गत्वात् तदात्मकत्वाद्वा नापोह्यन्ते तथा विवक्षितशब्दार्थादन्यस्य विशेषशब्दार्थस्य विशेषशब्दार्थस्य वा सामान्यस्य स्वार्थं विशेषशब्दो[s]भिधत्ते । कथम् ? तत्त्वेनात्मानं सामान्येन सहैकीभावं विदधत् आत्मन उपसर्जनभावे साहायकीकारयन् । किं करोति ? स्वार्थं विधत्ते इति वर्तते । 10 अभेदत्वासत्त्वापत्तित्यागेन, न च वृक्ष - पार्थिव - मृद्-द्रव्य - सत्त्वसामान्यानि त्यक्त्वा 'विशेषमेव तैरेकान्तेन विविक्तं प्रतिपादयति तथारूपार्थासम्भवात् सामान्योपसर्जनत्वोपायप्रतिपाद्यविशेषात्मलाभत्वात्, नापि 'अवृक्षाशिंशपादि न भवति' इत्यसत्त्वापत्तिमेव स्वार्थप्रतिपत्तिरहितां ब्रूतेऽभिधेयाभावे शब्दार्थव्यवहारोच्छित्तिप्रसङ्गात् । कोऽसौ विशेषशब्दस्तदर्थो वेति चेत्, उच्यते - शिंशपादिः, तत्सम्परिग्रहेण वृक्षादेः सदन्तस्यानुवृत्तेः सामान्यस्य सम्परिग्रहेण तदभावावृक्षाद्यर्सदन्तव्यावृत्त्यपोहपरिग्रहेण चात्यजन्ने15 वानुवृत्तिव्यावृत्ती, किं कारणं न ते त्यजति ? इति चेत्, उच्यते - यस्मात् तदुपसर्जनाशिंशपाऽभवनarti या स्वार्थमभिधत्ते गच्छन् व्रजन्नित्यर्थः, स्वार्थानुवृत्तिसामान्योपसर्जनत्वस्य अशिंशपाया घटादेस्तनाभवनलक्षणस्य च व्यावृत्तिसामान्यस्य स्वार्थः शिंशपाशब्दस्य शिंशपार्थः, स बीजं तयोरनुवृत्तिव्यावृत्त्योः, इतरथा किमसावपोहेताप्रतिपादयन् किञ्चित् ?
४२४-२
यदि तु सोऽपीत्यादि पूर्ववद् ग्रन्थ ईषद्विशिष्टः प्रसङ्गो यावद् विशेषार्थविधिरित्युपनयः । तत्र 20 विशेष उच्यते—'वृक्षः शिंशपा' इत्यत्र शिंशपाशब्दो न विदध्याद् वृक्षार्थ शिंशपाविशेषात्मापन्नं व्यावृत्तत्वादिति पूर्ववद् गमः, अर्थापत्त्या नानुमन्येत वा 'अवृक्षो न भवति' इत्युक्तेऽर्थादापन्नं 'वृक्षो भवति' इति, अयमर्थो मा भूत्, इष्यते चासौ, कुतः ? उपात्तार्थाविरोधात्, 'उपात्तार्थाविरोध इति' अत्र इतिशब्दस्य हेत्वर्थत्वात् । अशिंशपाऽभवनवदित्यादि: 'अवृक्षाभवनवत्' इत्यादितुल्यः सामान्यगमविपर्ययेण
१ दृश्यतां पृ० ६४४ पं० १ ॥ २ प्रमाणसमुच्चयवृत्तौ 'सामान्यशब्दो विशेषशब्देन सहाविरुद्ध:' इत्येतद्दर्शनावसरे भेदभेदशब्दोऽपि गृहीतः । दृश्यतां पृ० ६३८ पं० १० । अतोऽत्र 'विशेष विशेषशब्दार्थस्य' इत्यपि पाठो भवेत् । तुलना - पृ० ६४३ पं० १॥ ३ 'स्वार्थमभिधत्ते' इति अनन्तरमेवोक्तं वक्ष्यते च पुनरपि पृ० ६४४ पं० १६ इत्यत्र । अतः 'स्वार्थमभिधत्ते' इति पाठोऽत्र सम्भाव्यते ॥ ४ वात्सत्वपत्ति प्र० ॥ ५ विशेषव तैरेका प्र० ॥ ६ विवक्तं य० । विक्तं भा० ॥ ७ सदत्तस्या' भा० । सदसत्तस्या य० । अत्र 'सदंशस्या" इति सम्यग् भाति । एवमग्रेऽपि ॥ ८ सदंत' य० । संदेत भा० ॥ ९ व्यावृत्तिव्यापृतत्वादिति' इति पाठोऽत्र सम्यग् भाति, दृश्यतां पृ० ६४४ पं० १ ॥ १० पृ० ६४४ पं० २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org