________________
दिङ्गागप्रणीतापोहवाद निरासः ]
.......
.... अभवत्त्वादवृक्षत्वाद्
द्वादशारं नयचक्रम् |
· विशेषार्थविधिः T: 1
यत्तु 'अंविरोधादन्यत्वेऽपि सामान्यादिशब्दार्थानपोहः' इत्युक्तं सोऽप्येवमेवाविरोधी घटते भवन विध्येकार्थीभूतत्वात् ।
समूहश्च तथार्थान्तरवाचकः । एवं च सामान्यविशेषशब्दयोः खार्थ सामान्ये वर्तमानयोस्तद्विशिष्टार्थवाचकत्वम्, ट्र्यादिसमूहस्य वाक्यार्थवाचकत्वम् ।
૭
Jain Education International
तदविनाभाविविशेषार्थगमनिकया नेयः 'अभवत्त्वात् अवृक्षत्वात्' इत्यादिहेतुकः, अभावमात्राभ्युपगमाञ्च हेतुसिद्धिः, तद्विपर्ययेऽस्मत्पक्षापत्तिः । शेषग्रन्थभावना पूर्वग्रन्थभावनातुल्या । एवं तावत् सामान्य-भेद - पर्यायशब्दार्थानपोहवत् सामान्यसामान्यशब्दार्थान पोहोऽन्तैर्निविष्टविशेषाभिधायिसामान्यशब्दार्थविधिश्वोक्तो विधेरेव शब्दार्थत्वात् । यत्त्वविरोधादित्यादि । यदपि त्वया कारणमुक्तमन्यत्वेऽपि सामान्यादिशब्दार्थानपोहे 'तेषामविरोधात्' इति सोऽपि एवमेवाविरोधी घटते, भवनविध्येकार्थीभूतत्वात् । सामान्याख्यं 10 विशेषाख्यं च यत् किञ्चिद्वस्तु तत् सर्वं भवनमेव अन्योन्यात्मापत्त्या एकीभूतम् स एव शब्दार्थो विवक्षितार्थोपँकाराविनाभावित्वेन एकीभूतो विधीयमानत्वादेव 'अविरुद्ध:' इति युज्यते, नान्यापोहे, अन्यत्वाविशेषादभावतुल्यत्वाच्च कौ विरोधाविरोधौ ? इति ।
"
सेमूहश्च तथार्थान्तरवाचकः । तद्व्याख्या एवं चेत्यादि, एवं च कृत्वा विधिप्रधानशब्दार्थत्वात् सामान्यविशेषशब्दयोरित्यादि यावद् वाक्यार्थवाचकत्वमिति । प्रकृतिप्रत्यययोर्भवनसामान्यापरित्या - 15 गिनोस्तद्विशेषकर्तृपदार्थवाचित्वं समूहेन 'भवति' इति । 'नीलोत्पलम्' इति " वृत्तिपदार्थभवन सामान्यवाचिनोः, विशेषणविशेष्यत्व सम्बन्धलक्षणसामान्यविशेषभाविवृत्त्यर्थवाचित्वम्, तथा राजपुरुषादीनां राजाभिसम्बन्धविशेषणादीनां ज्ञेयम् । द्वयादिसमूहस्येति 'देवदत्तस्तिष्ठति, देवदत्तो गेहे तिष्ठति, देवदत्त ! गामभ्याज शुक्लाम्' इत्यादिद्वि-[त्रि- ] चतुः पञ्चादिपदसमूहानां वाक्यार्थवाचकत्वम्, उपात्तार्थाविरोधि सामान्योपकृतैविध्यर्थत्वात् सर्वशब्दानामिति ।
१ 'अशिंशपा घटादि, तदभवनप्रतिपादन एवापक्षीणशक्तित्वात् शिंशपात्मकवृक्षार्थविधाने तस्य व्यापार एव नास्ति । यदसौ वृक्षार्थ शिंशपादिभेदात्मकमाक्षिपति तस्मात् तेन सह सामानाधिकरण्यं प्रतिपद्यते तद्भवनविध्येकार्थीभूतत्वात् । तद्भवनभवनविधिविनाभावे तु न युज्यते सामान्यविधानाभावात् । भवनविधिविनाभूतं सामान्याविधायि न समानाधिकरणं त्वदभिमतं वस्तु स्यात् अभवत्त्वादवृक्षत्वात् वन्ध्यापुत्रवत् । कुतोऽस्य सामान्यस्य सामान्यत्वम् ! कथं सोऽपि तर्ह्यसामान्यः ? यद्यसावसामान्यः न तर्हि शिंशपा भवति, अभूतवृक्षादित्वात्, घटवत्। सोऽप्येवमेव यावत् परमाणुर्न भवति, अभूतसामान्यत्वात्, खपुष्पवत् । एवं च सर्वस्य शून्यत्वे कः किं केन कस्माद्वाऽपोहते ? अथ कथञ्चिद् भवत्यपि शिंशपा ततः स्वार्थाद्युक्तेः स एव विधिर्विषयः संवृत्तोऽर्थः । तदुपसर्जनश्चापोहोऽसत्त्वादसत्यः । असत्योपाधिः सत्यः शब्दार्थः । स च विशेषार्थविधिः ।' ईदृशं किमपि मूलमंत्र सम्भाव्यते ॥ २ दृश्यतां पृ० ६३८ पं० ६ ॥ ३ तुलना - पृ० ६४४ पं० ८ ॥ ४ तुलना - पृ० ६४३ पं० ११॥ ५ न्तर्विशिष्ट य० ॥ ६ दृश्यतां पृ० ६४० पं० ४ ॥ ७ तुलना- पृ० ६४७ पं० २० ॥ ८ तुलना - "सामान्यद्यानपोहश्च नाविरोधेन कल्पते । न हि शब्द स्वरूपाणां स्याद्विरुद्धाविरुद्धता ॥ ३४९ ॥” इति मी० लो० वा० अपोहवादे || ९ अन्यापोहवादेऽभिहितमिदं दिङ्गागवचनं विधिप्रधानशब्दार्थत्व एवं घटत इति दर्शयति । दृश्यतां पृ० ६३८ पं० ११ ॥ १० वर्तिपदार्थ प्र० । वृत्तिः समास इत्यर्थः । ११ पृ० ६४७ पं० १२ | पृ० ६३९ पं० २२ ॥
5
For Private & Personal Use Only
४२५-१
20
www.jainelibrary.org