________________
न्यायागमानुसारिणीवृत्त्यलङ्कतं [अष्टम उभयनियमारे अयं च..............................।
नाक्षिपत्येव सद्भेदान् किं मुधा भ्रम्यते त्वया ॥ अनेन प्रत्युक्तं प्रतिषेधसामानाधिकरण्यं वेदितव्यम् । आह च
तन्मात्राकाङ्क्षणाद् भेदः स्वसामान्येन नोज्झितः।
उपात्तस्तत्समाबन्धात् तत्त्वादेकार्थता तयोः॥ अनेकं च सामान्यमुपात्तमव्यभिचारिणा भेदेन । अतस्तयोश्चित्रा विशेषण
अयं चेत्यादि श्लोकः । यदुक्तं त्वया 'घटादिभेदानाक्षेपित्वात् सच्छब्दस्य जातिस्वरूपोपसर्जनद्रव्यमात्राभिधानात् पारतत्र्याद् घटादिभेदाभेदत्वात् तैः सह सामानाधिकरण्याभावः' इति, यथा परेषां
दोषस्तथा तवापि असन्निषेधमात्राभिधानपारतत्र्याद् नाक्षिपत्येव सद्भेदान् घटादीनिति तुल्ये दोष10 सम्भवे किं मुधा भ्रम्यते त्वया ? इति ।
अनेनेत्यादि तद्भावना । पारतत्र्यातू सच्छब्दानाक्षेपवचनेन 'सन् घटः' इति सामानाधिकरण्यं न प्राप्नोतीति प्रत्युक्तं प्रतिषेधसामानाधिकरण्यं वेदितव्यम् ।
__ आह चेत्युक्तार्थसङ्ग्रहकारिका । तन्मात्राकाङ्क्षणादित्यादि, आत्मार्पणामात्रमाकाङ्कति सामान्य स्वभेदे, अतस्तन्मात्राकाङ्क्षणाद् भेदः शिंशपा वृक्षण सामान्येन नोज्झितोऽन्यत्वेपि, किं तर्हि ? 15 उपात्त एव कस्मात् ? तत्समाबन्धात् तत्त्वात् , तेन सह विशेषेण सामान्यस्यानुबद्धत्वे सति तत्त्वात् एकत्वात्तेर्विशेषप्रवणत्वादन्यत्वे सत्यपि एककार्यत्वादेकार्थता सामान्यविशेषयोरन्योन्यापरित्यागे सति
आत्मलाभादन्यतरत्यागे स्वरूपाप्रतिलम्भात् सामानाधिकरण्यम् । न हि वृक्षेण विना शिंशपा शिंशपां विना ४२५-२ वा वृक्षोऽस्तीति । अत्र यदुक्तम्-नोपात्तः संशयोत्पत्तेः साम्ये चैकार्थता तयोः ["प्र० समु० ५।२६] इति
तत् कुतः संशयः ? कुतो वा साम्यैकार्थते ? संशयस्तावदन्यापोहमात्रोक्तेरनुपात्तत्वाद् विशेषाणां सामान्य20 शब्देन नास्ति, यापात्ताः स्युर्विशेषाः स्यात् "संशयः । साम्यमपि च नास्ति अनुपात्तत्वात् , कुतः
समानाधिकरण्यम् ? उपात्तत्वान्न संशयः स्याद् वृक्षवदिति चेत् , न, उक्तत्वात् सामान्यादुपसर्जनाद् विधिविशेषार्थान्नियमे निश्चयदर्शनादिति ।। .. किश्चान्यत् , अनेकं चेत्यादि । इह विधिप्रधाने शब्दार्थे 'वृक्षः शिंशपा' इति चोक्ते भेदशब्देन
अनेकं च सामान्यं पृथिवी-द्रव्य-सदादि नाम-स्थापना-द्रव्य-भावाख्यं च सर्वमप्युपात्तमव्यभिचारिणा 25 भेदेन शिंशपादिविध्येकार्थीभूतत्वात् । अतस्तयोश्चित्रा सामान्यविशेषशब्दयोर्विशेषणविशेष्यता,
१ दृश्यतां पृ० ६३८ पं० १३ । दिकागवचनमेव किञ्चित् परिवर्त्य प्रतिक्षिपति ग्रन्थकारः॥ २ 'अनेकमपि सामान्य भेदेनाव्यभिचारिणा । उपात्तं न तयोस्तुल्या विशेषणविशेष्यता ॥' इति यदुक्तं [पृ० ६३८ पं० १५] दिनागेन तदत्र प्रतिक्षिपति ग्रन्थकारः ॥ ३चित्यादि य० ॥ ४ दृश्यतां पृ. ६०७ पं० २६॥ ५°नाक्षेपितत्वात् प्र० ॥ ६ नास्तितोन्यच्चेति प्र० । 'नोज्झितोऽन्यत्वेऽपि' इति 'नोज्झितोऽत्यक्तः' इति वा पाठोऽत्र सम्भाव्यते ॥ ७ तत्समबंधातत्त्वात् य.॥ ८ पत्तर्विशेषणप्रव प्र.॥ ९शिंशपा विना वा न वृक्षोऽस्तीति प्र.॥ १० दृश्यतां पृ० ६३८ पं० १४ ॥ ११ कार्थः ते भा० । कार्थस्ते य० ॥ १२ संशयः स्यत्यमपि भा० । संशयस्य त्वमपि य०॥ १३ दृश्यतां पृ. ६१६ पं० ४ ॥ १४°षार्थन्नियमे निश्चिय भा० ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org