________________
दिङ्गागप्रणीतापोहवादनिरासः ]
द्वादशारं नयचक्रम्
६४९
विशेष्यता । नामाद्यनेकं सामान्यं भेदेनाव्यभिचारिणोपात्तम् । ततः संशयव्यावृत्त्यर्थं भवत्येव विशेषणत्वं वृक्षस्य शिंशपायाश्च विशेष्यत्वम् । 'सत् । इत्थम्
स्वार्थावबद्ध शक्तिश्च भेदो भेदमपोहते । सामान्यार्थविशेषार्थविधिमन्नियमश्रुतेः ॥
विवक्षावशात् कदाचिद् वृक्षेण शिंशपा विशेष्यते कदाचिच्छिशपया वृक्षः 'शिंशपा वृक्षः, वृक्षः शिंशपा' 5 इत्यनियमदर्शनात् । तस्यानियमस्य हेतुं दर्शयति-नामाद्यनेकमित्यादि, नामशिंशपा स्थापनाशिंशपा द्रव्यशिंशपा भावशिंशपा । कन्यायाः 'शिंशपा' इति नान्नि कृते कन्या नामशिंशपा । तच्च सामान्यं पूर्वोक्तविधिना सर्वस्य नामत्वात्, शिंशपैव वा नामाद्यपेक्षया सामान्यम् । तच्चेदं भेदेन वृक्षेणाऽव्यभिचारिणा विकार्थीभूतत्वादुपात्तम् । ततः संशयः 'स्यादवृक्षशिंशपा कन्या नामशिंशपा' । तद्वयावृत्त्यर्थं वृक्षशिंशपामौदकिभावात्मिकां भावशिंशपा [मा]नयेति भवत्येव विशेषणत्वं वृक्षस्य शिंशपायाश्च विशेष्यत्वम्, 10 अनियमः, न तु यथेोच्यते त्वया - न तयोस्तुल्या विशेषणविशेष्यता [ मै० समु० ५/२७ ], दृष्टत्वान्नियमेन तुल्यत्वस्य । एवं तावन्नेयं यावत् सदिति ।
४२६-१
यदप्युच्यते त्वया—
भेदो भेदान्तरार्थं तु विरोधित्वादपोहते ।
सामान्यान्तरभेदार्थाः स्वसामान्यविरोधिनः ॥ [ ० समु० ५२८ ]
इति, तत्रापि न तु विरोधित्वादपोहते, विरोधाभावादङ्गाङ्गिभावेन सामान्यविशेषभावापत्तेरुक्तन्यायेन सर्वस्य नामाद्यपेक्षस्य । कस्मात् तर्ह्यपोहते ? उच्यते - यस्मादित्थम्
स्वार्थाबद्धशक्तिश्च भेदो भेदमपोहते । सामान्यार्थविशेषार्थविधिमन्नियमश्रुतेः ॥ इति ।
Jain Education International
स्वार्थे बद्धा शक्तिरस्य शिंशपाशब्दस्य वृक्षसामान्यसहायस्य शिंशपायामेवावबद्धा, तस्या एव विवक्षि - 20 तत्वात्तु शब्दान्तरार्थप्रतिपादन सहायभावाप्रतिपत्तेः । अतः स्वार्थावबद्धशक्तित्वाच्छिशपाशब्दः खदिरादिमपोहते । किं कारणम् ? सामान्यार्थविशेषार्थविधिमन्नियमश्रुतेः, येयमभिहितानां सामान्यशब्देन उपसर्जनसामान्यार्थेन विशेषाणां नियमार्था विशेषश्रुतिरिष्टायाः शिंशपाया: प्रतिपादनस्य तङ्कारत्वाद् यथास्माभिः प्राग् विस्तरेण व्याख्याता सा सामान्यार्थविशेषार्थगुणप्रधानयुक्तविधेयार्थवती । तस्माद्धेतोस्तस्याः सामान्यार्थविशेषार्थविधिमन्नियमश्रुतेर्भेदान्तरस्याविवक्षितत्वात् प्रयोजनाभावात् स्वार्थावबद्धशक्तित्वाद् 25 भेदः शिंशपादिर्भेदं खदिरादिमपोहते, न तु विरोधित्वात्, सामान्यविशेषयोरन्योन्याविनाभावित्वे ४२६-२ सामान्याविनाभाविना विशेषान्तरेण स्वरूपेणैव कथं विरुध्यते विशेष: 'शिंशपादिः खदिरादिना ? इति ।
१ वृक्षशिंशपा य० ॥ २ध्यतो भा० । 'ध्यते य० ॥ ३ दृश्यतां पृ० ६३८ पं० १६ ॥ ४ पृ० ६३८ पं० १८ ॥ ५ तत्वातु भा० । 'तत्वात्रु य० । 'विवक्षितत्वात् शब्दान्तरा" इति रम्यं भाति ॥ ६रार्थाप्रति प्र० ॥ ७ पार्थविवित्वान्नियम भा० । पार्थविविधान्नियम य० । (पार्थविधित्वान्नियम ? ) ॥ ८ उपसर्जनीसामा भा० ॥ ९ शिंशपादि प्र० ॥
नय० ८२
15
For Private & Personal Use Only
www.jainelibrary.org