________________
६५०
न्यायागमानुसारिणीवृत्यलङ्कतं [अष्टम उभयनियमारे एतेन सामान्यान्तरमेदार्थाः स्वसामान्यविरोधिनः [प्र० समु० ५।२८ ] इत्यादि सर्व प्रत्युतार्थमित्यलमतिप्रसङ्गेन।
यत्तूक्तं कथं पुनः शब्दस्यार्थान्तरापोहेन स्वार्थाभिधाने पूर्वदोषाप्रसङ्गः कथं वार्थान्तरापोहेन स्वार्थाभिधानम् ? 5 एतेन 'सामान्यान्तरभेदार्थाः स्वसामान्यविरोधिनः' इत्यादि सर्वमभिहितेन न्यायेन सामान्य विशेषभवनविध्येकीभूतार्थत्वादिना प्रत्युक्तार्थम् ; प्रत्युक्तः प्रतिषिद्धोऽस्यार्थस्त्वदीयस्य एवमादिनो वचनस्य । इत्यलमतिप्रसङ्गेन, अन्यापोहशब्दार्थनिराकरणप्रसङ्गपरम्परागतस्तिष्ठतु विचारः, प्रकृतमस्त्वित्यर्थः ।
यत्तूक्तमित्यादि । कथं पुनः शब्दस्यार्थान्तरेत्यादि चोद्यं पराभिप्रायं गृहीत्वा स्वमतनिर्दोषता10 प्रदर्शनार्थं स्वमतं प्रत्युच्चारयतोत्थापितं यावत् पूर्वदोषाप्रसङ्ग इति, भेद-जाति-तत्सम्बन्ध-तद्वत्पक्षगता
१ दृश्यतां पृ० ६३८ पं० २४॥ २ अत्रेदमवधेयम्-दिडागस्य कतमस्माद् ग्रन्थादिदं सर्वमपोहवादिमतं केनचिद्विरचितया तट्टीकया सहात्र मल्लवादिक्षमाश्रमणैरुद्धृतमिति निर्णतुं न पायते, दृश्यतां पृ० ६०६ टि. ७ । यथा तु प्रमाणसमुच्चयेऽपोहपरिच्छेदे दिङागेनाभिहितं तथा भोटभाषानुवादात् संस्कृते परिवात्रोपदर्यत इति सर्वत्र पूर्वोत्तरपक्षयोर्यथायोगमनुसन्धेयोऽयं प्रमाणसमुच्चयग्रन्थः"कथं पुनः शब्दस्यार्थान्तरापोहेन खार्थाभिधाने पूर्वदोषाप्रसङ्गः ? यस्मात्
अदृष्टेरन्यशब्दार्थे स्वार्थस्यांशेऽपि दर्शनात् ।
श्रुतेः सम्बन्धसौकर्य न चास्ति व्यभिचारिता ॥ ३४ ॥ अन्वयव्यतिरेकौ हि शब्दस्यार्थाभिधाने द्वारम् । तौ च तुल्यातुल्ययोवृत्त्यवृत्ती। तत्र तुल्ये नावश्यं सर्वत्र वृत्तिराख्येया, क्वचिदानन्त्येऽर्थस्याख्यानासम्भवात् । अतुल्ये तु सत्यप्यानन्ये शक्यमदर्शनमात्रेणावृत्तेराख्यानम् । अत एव स्वसम्बन्धिभ्योऽन्यत्रादर्शनात् तद्व्यवच्छेदानुमानं स्वार्थाभिधानमित्युच्यते। अन्वयद्वारेण त्वनुमाने वृक्षशब्दादेकस्मिन् वस्तुनि शिंशपादिप्रतिभासी संशयो न स्यात् । तत्संशयवत् पार्थिवत्वद्रव्यत्वादिप्रतिभास्यपि संशयः स्यात् । यस्माद् वृक्षशब्दोऽपार्थिवादिषु न दृष्टस्तस्माद् व्यतिरेकेणैवानुमानम् । आह च
वृक्षत्वपार्थिवद्रव्यसज्ज्ञेयाः प्रातिलोम्यतः।
चतुस्त्रिद्वयेकसन्देहे निमित्तं निश्चयेऽन्यथा ॥ ३५॥ इत्यन्तरश्लोकः । न च सम्बन्धद्वारं मुक्त्वा शब्दस्य लिङ्गस्य वा स्वार्थख्यापनशक्तिरस्ति, तस्यानेकधर्मत्वेऽपि सर्वथा गत्यसम्भवात् । न चास्ति खार्थे व्यभिचारो मेदानभिधानात् । एवं तावत् पूर्वदोषाभावः।"-Pavc. ed. पृ० ७४, N. ed. पृ. ८३ A I PSV N. ed. पृ० १६६ B-१६७ A, P. ed. पृ० १६५।
अस्य सवृत्तिकस्य प्रमाणसमुच्चयस्य जिनेन्द्रबुद्धिरचिता विशालामलवती व्याख्यापि भोटभाषानुवादात् संस्कृते परिवर्येहोपन्यस्यते-"कथं पुनरित्यादि । 'शब्दोऽर्थान्तरव्यवच्छेदेन स्वार्थमभिधत्ते' इत्यस्मिन् पक्षे......चतुर्ष पक्षेषु ये दोषाः पूर्वमुक्तास्ते कथं न स्युरिति पृच्छति । अदृष्टेरन्यशब्दार्थ इति [अन्य शब्दार्थवचनं विपक्षोपलक्षणम् । ___ 1 तत्त्वसं० पं० पृ. ३०७ । सन्मतिवृ० पृ० १९६ ॥ 2 तुलना-"विधिमुखेन शब्दे प्रवर्तमाने सर्वात्मकार्थग्रहणं प्राप्नोति । ततश्च यथानुलोम्येन वृक्ष-पार्थिव-द्रव्य-सत्-ज्ञेयशब्देभ्यश्चतुस्त्रियेकनिश्चयो भवति तथा प्रातिलोम्येनापि निश्चयेन भवितव्यम् । न च तथा दृश्यते । ज्ञेयशब्दाच्चतुषु सत्तादिषु सन्देहात् सच्छब्दात् त्रिषु द्रव्यादिषु द्रव्यशब्दाद् द्वयोः पार्थिववृक्षत्वयोः पार्थिवशब्दादेकत्र वृक्षत्वे । तस्मान्न विधिमुखेन प्रवृत्ताः शब्दाः । तदुक्तम्-वृक्षत्वपार्थिवद्रव्यसज्ज्ञेयाः प्रातिलोम्यतः। चतुस्त्रिद्वयेकसन्देहे निमित्तं निश्चयेऽन्यथा ॥ इति”—मी० श्लो० वा० शर्करिका पृ० ७२ । न्या०र० पृ० ६०९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org