________________
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम्
६५१ दोषास्तवापि आनन्य-व्यभिचारादयः कथं न स्युरिति । ननु शब्दस्यार्थान्तरापोहेनेति परपक्षदोषाभिधानमात्रेण स्वपक्षासिद्धितः पृच्छति कथं वार्थान्तरापोहेन स्वार्थाभिधानं 'पक्षसिद्धिः' इति वाक्यशेषः । पूर्वदोषाप्रसङ्गश्च कथमर्थान्तरापोहेन स्वार्थाभिधाने ?
विपक्षेऽदर्शनादित्यर्थः । स्वार्थस्यांशेऽपि] दर्शनादित्यत्र स्खः [अर्थः ] खार्थः । कः पुनरयमिति चेत्, विवक्षावत्पुरुषसमुदायः । तस्यांशोऽवयवो विवक्षावान् पुरुषः। अंशेऽपीति विवक्षावतोऽयं पर्यायः । एवमुक्तं भवति-यद्यपि यथोक्तवार्थांशा अनन्तास्तथाप्येकत्रापि दर्शनादिति । अपिशब्दोऽनेकत्रापीति द्योतयति । सपक्षव्याप्तः प्रतिपादनानङ्गत्वादशवचनम् । अव्यापकमपि गमकम् । श्रुतेः सम्बन्धसौकर्यम् , यथोक्ताद्धेतोः । न चास्ति व्यभिचारिता स्वार्थाभावेऽभावात् । अन्वयव्यतिरेको हीत्यादिनेममेवा) प्रकाशयति । द्वारमुपायः, शब्दस्य लिङ्गत्वात् तस्य चान्वयव्यतिरेकलक्षणसम्बन्धबलेन गमकत्वात् । तौ चेत्यन्वयव्यतिरेकरूपोपाख्यानम् । लिङ्गस्य तत्तुल्य एव वृत्तिस्तदतुल्ये चावृत्तिरेवेत्येतद्धि अन्वयव्यतिरेकयोः स्वरूपम् । तत्र तत्तुल्ये नावश्यमिति नियमेनास्य सजातीये सर्वत्र वृत्तिर्नाख्येया। कुत इति चेत्, उच्यते-क्वचिदित्यादि। नहि वृक्षादिशब्दस्य वृक्षादौ सर्वत्र दर्शनसम्भवः, तेषामानन्त्यात् । यदृच्छाशब्देषु तु सर्वत्र दर्शनसम्भवः, तद्विषयस्यैकत्वादिति । तस्मात् क्वचिदित्युक्तम् । एवं तावदन्वयाभिधानसौकर्यम् । स्यादेतत्-तदतुल्यानामानन्त्याद् व्यतिरेकाख्यानस्यापि सर्वत्रासम्भव इति । अत आह-अतुल्ये तु सत्यप्यानन्त्य इति यत्र शब्दार्थाभावस्तेषामानन्त्ये सत्यपि स्वार्थाभावे शब्दाभावलक्षणो व्यतिरेको दर्शयितुं शक्यते, अदर्शनस्य अभावमात्रत्वात् । शब्दार्थयोः कार्यकारणभावसिद्धौ कारणार्थाभावे तत्कार्यशब्दाभावो भविष्यतीत्येतन्मात्रेणादर्शनं प्रतीयते। तत्राश्रयदर्शनं निष्प्रयोजनम् , तदभावेऽपि व्यतिरेकनिश्चयात् । न हि कारणाभावे कार्यसम्भवः । तस्माद् व्यतिरेकोऽपि वक्तुं सुकरः । अत एवेति यस्माद् दर्शनस्य तत्तुल्ये सर्वत्रासम्भवः, तदतुल्ये त्वदर्शनस्य सम्भवस्तस्मात् स्वसम्बन्धिभ्यः सजातीयेभ्योऽन्यत्र विपक्षेऽदर्शनात् तद्वयवच्छेदानुमानमिति यत्र खार्थाभावेऽदर्शनं तद्वयवच्छेदानामनुमानम् अनुमितिः स्वार्थाभिधानमित्युच्यते । एतेन यद्यपि अन्वयव्यतिरेकयोयोरप्यनुमानाङ्गत्वं तथापि व्यतिरेकस्य प्राधान्यात् तद्वारेणैव गमकत्वमिति दर्शयति । अन्वयद्वारेण त्वित्यादि । तुशब्दोऽवधारणार्थः । यद्यन्वयद्वारेणैवाभिधानमिष्यते तथा सति वृक्षशब्दस्यार्थादिसहितस्य शिंशपादिष्वनुगमोऽस्तीति वृक्षशब्दात् केवलादेकस्मिन् वस्तुनि शिंशपादिप्रतिभासी संशयो न स्यात् , अपि तु निश्चय एव स्यात् । अथ बहुषु दृष्टत्वात् संशय एवं तर्हि तत्र संशयवत् पार्थिवत्व-द्रव्यत्वादिप्रतिभास्यपि संशयः स्यात् , पार्थिवत्वादिषु बहुषु दृष्टत्वात् । निश्चयस्तु दृष्टः । यस्माद् बहुष्वपि वर्तमानो यदभावे न भवति तत् प्रतिपादयति, नेतरत् । तस्माद् व्यतिरेकद्वारेणैवानुमानम् । एतदेव दर्शयन्नाह-यस्मादित्यादि । व्यतिरेकद्वारेणैव गमक इत्येतद् ग्राहयितुमन्तरश्लोकमाह । श्रेयशब्दः सद्रव्यपार्थिववृक्षत्वेषु चर्तुषु संशयस्य हेतुः, यस्मात् स तेषामभावेऽपि दृष्टः । एवमुत्तरेष्वपि वक्तव्यम् । सच्छब्दो द्रव्य-पार्थिव-वृक्षत्वेषु त्रिषु, द्रव्यशब्दः पार्थिववृक्षत्वयोर्द्वयोः, पार्थिवशब्द एकस्मिन् वृक्षत्वे । निश्चयेऽन्यथेति निमित्तमिति वर्तते । अन्यथेत्यानुलोम्येन वृक्षशब्दः पार्थिवद्रव्यसज्ज्ञेयेषु चतुर्षु निश्चयस्य हेतुः । तथाहि-स तेष्वपि दृष्टः तेषामभावे चादृष्टः । एवमुत्तरेष्वपि वक्तव्यम् । पार्थिवशब्दादयोऽप्येवमेकैकहान्या द्रव्यत्वादिषु निश्चयहेतवो ज्ञेयाः । यदि च दृष्टवद् विधिना गमयेत् यथाक्रमं चतुस्त्रिद्वयेकार्थनिश्चयस्तर्हि प्रातिलोम्येन स्यात् , ज्ञेयशब्दादीनां सत्त्वादिषु दृष्टत्वात् । यस्मात् तदभावेऽपि दृष्टत्वात् सन्देहस्तस्माद् व्यतिरेकद्वारेणैव गमकत्वमिति । सम्बन्धद्वारं मुक्त्वेत्यादि । सम्बन्धोऽविनाभावः । स एव द्वारम् । अनुमानस्य निमित्तम् , तत् परित्यज्य शब्दस्य लिङ्गस्येव स्वार्थख्यापनशक्तिर्नास्ति । इवशब्द औपम्ये । यथा अर्थात्मकं लिङ्गमविनाभावसम्बन्धद्वारेण गमयत् खार्थ व्यतिरेकद्वारेणैव गमयति एवं शब्दोऽपीति ख्यापयितुं 'लिङ्गस्येव' इति वचनम् । तस्यानेकधर्मत्वे इति शिंशपादिभेदेन पुष्पितफलितत्वादिभेदेन वा वृक्षाद्यर्थस्यानेकधर्मत्वेऽपि सर्वथा गत्यसम्भवादिति । यदि सर्वथा पुष्पितफलितत्वादिना गम्यते तदा यथोक्तसम्बन्धं विना विधिनैव गम्येत । तच्च न संभवति, पुष्पितत्वादिविशेषेषु व्यभिचारात् । दृष्टवद् गतिर्हि विधिः । तस्माद् विधिना न गतिः, अपि तु अर्थान्तरव्यतिरेकद्वारेण । मेदानभिधानादिति, तेषामन्योन्याभावेऽपि सत्त्वाद् व्यभिचारो भवति, न तु सामान्यस्याभिधेयत्वे, तस्याभिन्नत्वात् तदभावे च शब्दाभावात् ।"विशाला D. ed. पृ. २७५ A-२७७ A, P. ed. पृ० ३१० B-३१२ B॥ ३ प्रतिषिद्धोस्वार्थ प्र. ॥ ४ अन्योऽपोह यः॥
१ तत्तु शब्दस्या भा० । (तत्र शब्दस्या?)॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org