________________
६५२
. न्यायागमानुसारिणीवृत्त्यलङ्कतं
[अष्टम उभयनियमारे अदृष्टेरन्यशब्दार्थे स्वार्थस्यांशेऽपि दर्शनात् । शब्दस्यान्वयव्यतिरेकावर्थाभिधाने द्वारम् । तौ च तुल्यातुल्ययोवृत्त्यवृत्ती । तत्र तुल्ये नावश्य सर्वत्र वृत्तिराख्येया । क्वचिदानन्त्येऽर्थस्याख्यानासम्भवात् । अतुल्ये तु सत्यप्यानन्त्ये शक्यमदर्शनमात्रेणावृत्तेराख्यानम् । अत एव च स्वसम्बन्धिभ्योऽन्यत्रादर्शनात् तन्यवच्छेदानुमानम् । एवं च 5 कृत्वा वृक्षशब्दाद्रव्यत्वाद्यनुमानमुपपन्नं भवति । अन्वयद्वारेण चानुमाने यस्मादनुगमोऽस्ति वृक्षशब्दस्य शिंशपादिषु तस्मात् केवलेनाप्यनुमानं प्राप्नोति । अथ बहुषु दृष्ट इति संशयो भवति एवं सति वृक्षार्थे पार्थिवत्व-द्रव्यत्व-सत्त्वेषु संशयः स्यात् । निश्चयस्तु दृष्टः । तथाहि-वृक्ष-पार्थिव-द्रव्य-सच्छब्दा
अत्रोच्यते त्वया-अदृष्टेरन्यशब्दार्थे स्वार्थस्यांशेऽपि दर्शनात् , 'अन्यापोहेनार्थाभिधानसिद्धिः' इति वाक्यशेषः । अनुमानानुमेयसम्बन्धो ह्यभिधानाभिधेयसम्बन्धः । तत्र यथा धूमस्य एक10 देशे दर्शनादग्नेः अनग्नौ चादर्शनादनग्निव्युदासेनाग्निप्रतीतिस्तथा शब्दस्यान्वयव्यतिरेकावर्था४२७-१ भिधाने द्वारम् । 'तौ च तुल्यातुल्ययोवृत्त्यवृत्ती । तत्र तुल्ये नावश्यं सर्वत्र वृत्तिराख्येया,
क्वचिदानन्त्येऽर्थस्याख्यानासम्भवात् , न हि सम्भवोऽस्ति वृक्षशब्दस्य सर्ववृक्षेषु दर्शने, नापि सर्वत्र लिङ्गिनि सर्वलिङ्गस्य सम्भवोऽग्निधूमादिवत् । यद्यपि च क्वचिदस्ति डित्थादिषु सम्भवः, तथापि न तद्वारेणानुमानम् , सर्वात्मनाऽप्रतीतेः । गुणसमुदायो हि डित्थाख्योऽर्थः, न च सर्वे काण15 कुण्टादयो डित्थशब्दाद् गम्यन्ते । एवमन्वयद्वारेणानुमानाभावः।
स्यादेतत्-व्यतिरेकस्याप्यसम्भवः । तत आह-अतुल्ये तु सत्यप्यानन्त्ये शक्यमदर्शनमात्रेणाऽदर्शनेऽप्रवृत्तेराख्यानम्, अदर्शनमात्रत्वात् , अदर्शनं हि दर्शनाभावमात्रम् । अत एव चेति, यस्माद्दर्शनस्य सर्वत्रासम्भवः सत्यपि च दर्शने सर्वथानुमानाभावः अत एव स्वसम्बन्धिभ्य इति यत्र दृष्टः सोऽत्र सम्बन्धी अभिप्रेतः न तु अविनाभावित्वसम्बन्धेन, अन्यत्रादर्शनादिति अभिधेयाभावेऽ20 दर्शनात् , अन्यथा हि वृक्षशब्दस्य तस्मिन् वस्तुनि पृथिवी-द्रव्याद्यभावेऽपि देर्शनं वक्तव्यं स्यात् ,
तद्वयवच्छेदानुमानमिति यत्रैवादर्शनमुक्तं वृक्षाभावेऽवृक्षे ततो व्यवच्छेदानुमानम् 'अँवृक्षो न भवति' इति । एवं च कृत्वा वृक्षशब्दाद्रव्यत्वाद्यनुमानमुपपन्नं भवति ।
अन्वयद्वारेण चानुमानेऽयं दोषः-यस्माद गमोऽस्ति वृक्षशब्दस्यार्थादिसहितस्य शिंशपादिषु तस्मात् केवलेनाप्यनुमानं प्राप्नोति । अथ बहुषु पलाशादिष्वपि दृष्ट इति संशयो भवति एवं "25 सति वृक्षार्थे पार्थिवत्व-द्रव्यार्थ-सत्तार्थाः सन्ति तेषु वृक्षशब्दस्य समानत्वात् संशयः स्यात्, निश्चयस्तु
१ अत्रेदमवधेयम् । दिङ्गागरचितस्य कस्यचिदपोह विषयकग्रन्थस्यांशोऽत्र केनचिद् विरचितया तट्टीकया सह प्रायो यथाक्षरमेव नयचक्रवृत्तिकृद्भिः सिंहसूरिक्षमाश्रमणैरिहोपन्यस्तः, तत्र कियद् दिनागस्य कियच्च तट्टीकाकृत इति सम्यग् विवेक्तुं न पार्यते, मलवादिक्षमाश्रमणेनापि कियदत्र मूलरूपेणोपात्तमित्यपि न सम्यग् विज्ञायते । यावत्तु दिलागेनाभिहितमित्यस्माकं प्रतिभाति तावदस्माभिः स्थूलाक्षरैरत्र वृत्तौ दर्शितम् , यथा तु प्रमाणसमुच्चये वर्तते तथा पृ० ६५० टि. २ इत्यत्र प्रदर्शितमस्माभिः प्राक् । तच्च सर्वत्र यथायोगमनुसन्धेयमत्र पूर्वोत्तरपक्षयोः ॥ २ पृ०४३२-१, ४७२-१॥ ३ पृ. ४३२-१, ४३३-२ । तुलना पृ०४५९-२॥४पृ०४३२-१, तुलना-पृ० ४६१-२॥ ५पृ० ६६२ पं० ११ । पृ० ४५९-२॥ ६ पृ० ६६२ पं० १४ ॥ ७ पृ. ४३८-२॥ ८ तुलना-पृ. ४३६-२, ४३८-१, ४३९-२॥ ९ पृ० ४३३१॥ १० तुलना-पृ० ४५९-१॥ ११ तुलना-पृ० ४६०-१॥ १२°ऽदर्शनेऽवृत्तेराख्यानम् इति पाठः सम्यग् भाति ॥ १३ तुलना-पृ०४६६-२॥ १४ दृश्यतां पृ० ४६६-२॥ १५ अदर्शनम् इत्यपि पाठोऽत्र सम्भाव्यते ॥ १६ यथैवा प्र०॥ १७ तुलना-पृ०४६६-२॥ १८ पृ० ४६६-२॥ १९ ब्दादद्रव्य प्र० ॥ २०°नुगतोस्ति य० ॥ २१ शब्दार्थादिसहितस्य प्र० । दृश्यतां पृ० ४६८-१; ४६९-१॥ २२ पृ० ४६८-१,२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org