________________
दिङ्गागप्रणीतापोहवाद निरासः] द्वादशारं नयचक्रम् आनुलोम्येन त्रिद्वये कार्थनिश्चयहेतवः । एवमर्थान्तरव्युदासेनार्थान्तराभिधानमुपपन्नम् । न च सम्बन्धद्वारं मुक्त्वा शब्दस्य लिङ्गस्य वा स्वार्थख्यापनशक्तिरस्ति । आह च
बहुधाप्यभिधेयस्य न शब्दात् सर्वथा गतिः। स्वसम्बन्धानुरूप्यात्तु व्यवच्छेदार्थकार्यसौ ॥ अनेकधर्मा शब्दोऽपि येनार्थ नातिवर्तते ।
प्रत्याययति तेनैव न तु शब्दगुणादिभिः ॥ पूर्वदोषाभावश्च, यस्मात् 'श्रुतेः सम्बन्धसौकर्यं न चास्ति व्यभिचारिता' भेदानभिधानात् [ ] इति। एतदयुक्तम् । यतस्तावन्वयव्यतिरेकावपीह न घटेते, अन्यापोहार्थनैर्मूल्यात् स्वार्थस्यांशेऽप्यदर्शनात् ।
10 आस्तां ते शब्दसम्बन्ध आस्तां तेऽव्यभिचारिता ॥ दृष्टः शब्दात् । वृक्षशब्दोऽवृक्षनिवृत्त्यैकार्थकोऽपार्थिवव्यावृत्त्यापि स्वार्थे वर्तते, तथाहि-वृक्ष-पार्थिवद्रव्य-सच्छब्दा आनुलोम्येन त्रिद्वयेकार्थनिश्चयहेतवः। एवमर्थान्तरव्युदासेनार्थान्तराभिधानमुपपन्नम्। 'नं च सम्बन्धद्वारं मुक्त्वा शब्दस्य' इति यथा भेदाधनभिधानं पूर्वमुक्तं तद्दर्शयति ।
आँह चेत्येतमेवार्थ श्लोकद्वयेनापि दर्शयति । बहुधाप्यभिधेयस्येति, शिंशपादिभेदा अत्राभिप्रेता 15 न द्रव्यादयः, तथाहि-वृक्षवद्भेदेषु संशयो दृष्टोऽर्थतस्तु द्रव्यादिषु निश्चयः । स्वसम्बन्धानुरूप्यात्त्विति, यस्मादसौ तज्जातीये दृश्यमानोऽर्थान्तरनिवृत्तिद्वारेणैव दृष्टोऽभिधायकः प्रागेवान्यत्रादृश्यमानस्तस्मात् सम्बन्धानुरूप्यात् तद्विशिष्टमेवार्थमाह । अनेकधर्मा शब्दोऽपि सामान्यधर्मैः खगुणत्वादिभिर्वृक्षार्थ तस्मिन् वस्तुनि नाभिधत्ते, तथाहि-ते विनापि वृक्षार्थेन रसादिषु दृष्टाः, न तु वृक्षशब्दोऽन्यत्र दृष्टः, तस्माद् वृक्षशब्देनैव प्रत्यायन मुपपन्नमित्युक्ता स्वपक्षसिद्धावुपपत्तिः । पूर्वदोषाभावश्च, यस्माच्छ्रुतेः 20 सम्बन्धसौकर्यम् बहुत्वेऽपि तुल्यातुल्ययोवृत्त्यवृत्ती, सम्बन्धसौकर्याद् ने चापि व्यभिचारिता भेदानभिधानात् । एवं तावद् भेदाभिधाने ये दोषा उक्तास्ते परिहृता इति अन्यापोहवादिपक्षः । ___आचार्योऽस्यापि दूषणं वक्तुकामः प्राक् तावत् तत्र यदिदं श्रुतिसम्बन्धसौकर्यमुच्यत इति परिहारबीजमेव दूषयितुमाह-एतदयुक्तम् , यत इत्यादि यावद् न "घटेते इति । यस्मात् तावन्वयव्यतिरेकावपीह न घटेते, दूरत एव यावर्थाभिधानहेतू तुल्यातुल्यवृत्त्यवृत्तिभ्यां भवत इत्यभिमतौ । तस्मादयुक्तं 25 सम्बन्धसौकर्यमिति प्रतिज्ञानम् । तदुपपादनार्थमाह-अन्यापोहार्थनर्मूल्यादित्यादि श्लोकः । अपोहाभावात् सम्बन्धाभावः, स्वार्थगन्धस्याप्यदर्शनात् संशयबीजमपि नास्ति, कुतो व्यभिचाराशङ्केत्युपन्यासः ।
१ दृश्यतां पृ० ६३० पं० ११-१४ ॥ २ दृश्यतां पृ० ४३२-१॥ ३°वृत्त्यैवार्थको प्र० । तुलना पृ० ४६८२॥ ४ तथापि वृक्ष प्र० । 'तथा वृक्ष' इति पाठोऽप्यत्र समीचीनो भाति । तुलना-पृ० ४६८-२, ४६९-१॥ ५°च्छब्दानुलोम्येन प्र० ॥६पृ० ६६३ पं० ९ ॥ ७ दृश्यतां पृ० ६३० पं० १०-१५॥ ८ तुलना-पृ० ४४०२ ॥ ९ सामान्यधर्मैकगुणत्वादिभि प्र० । खम् आकाशम् , खगुणत्वादिभिराकाशगुणत्वादिभिरित्यर्थः ॥ १० क्षार्थी भा० । °क्षार्थी य०॥ ११ नमनुपपन्न य०॥ १२ दृश्यतां पृ० ४३१-२॥ १३ धाने पि दोषा प्र.॥ १४ घटते प्र०॥ १५ तावदन्वय य०॥ १६ घटते प्र.॥ १७°धानहेतु प्र. ॥ १८ स्वार्थग्रंथस्या प्र० । दृश्यतां पृ. ६५५ पं० ११॥ १९ व्यभिचारा२शंके भा० । 'व्यभिचाराव्यभिचाराशंका' इत्यपि भा. प्रतिपाठानुसारेण पाठः स्यात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org