Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 328
________________ 5 न्यायागमानुसारिणीवृत्त्यलङ्कृतं [ अष्टम उभयनियमारे यथा कृतकत्वादेर्न पक्षस्तेनैव न्यायेन न पक्षोऽन्यापोहवादिनः । एवं नास्य सपक्षो नासपक्षः । एवमनुमानमप्रमाणमेव, अतत्तत्प्रत्ययात्मकत्वात्, अलातचक्रधीवत् । शाब्दमपि नाप्रमाणान्तरम्, अप्रमाणमेवानुमानवत् । इदमपि चात एव पूर्ववदलक्षणं यत् त्वयोक्तम् ६७४ शब्दः, एतस्य ग्रन्थस्योपरि उपसंहारग्रन्थः प्रागुक्तन्यायप्राण एव यथा कृतकत्वादेर्न पक्ष: 'अनित्यः अग्निरे' इति वा स्वार्थपरार्थयोस्तेनैव न्यायेन न पक्षोऽग्निविशिष्टो देशोऽनित्यत्वविशिष्टः शब्दो 10 वान्यापोहवादिनः ' न भवति न भवति' इत्यभवनपरमार्थत्वादुभयतोऽप्यभावमात्रत्वात् । तस्मिंश्चासत प्रदेश- शब्दादिधर्मिणि पक्षे कुतस्तस्य पक्षधर्म: ? इति पक्ष-धर्मो न स्तः । एवं नास्य सपक्षो नासपक्ष इति तथा भावितार्थमेव बहुधा । तथाङ्गं येन रूपेण लिङ्गिनं नातिवर्तते । तेनैवानेकधर्मापि गेमकं नेतरेण तु ॥ 1 एवमनुमानमप्रमाणमेव, अतत्तत्प्रत्ययात्मकत्वात्, अलातचक्रधीवदिति । पक्ष-सपक्षाSeपक्षव्यवस्थानाद्धि त्रैलक्षण्यव्यवस्थातश्चानुमानप्रामाण्यमिष्यते । तदेवं पक्षाद्यतथार्थत्वात् 'अतस्मिंस्तदिति 15 प्रत्ययोऽनुमानम्' इति सुभावितार्थम् । तस्मादतत्तत्प्रत्ययात्मकत्वादनुमानमप्रमाणम्, अलातचक्रे भ्रमदृष्टेः पुंसोऽचक्रे 'चक्रम्' इति प्रत्ययवदिति । तस्मात् साधूक्तम् ४४०-२ अप्रमाणादनुमानात् परपरिकल्पितं शाब्दमपि नाप्रमाणान्तरं नार्थान्तरम्, अप्रमाणमेवानु20 मानवदिति प्रकृतोपसंहारार्थः । नाप्रमाणान्तरं शाब्दमनुमानात् तथाहि तत् । कृतकत्वाद्यपि स्वार्थमात्मापोहेन नाशयेत् ॥ इति । इदमपि चात एव पूर्ववदलक्षणम् । न प्रमाणान्तरं शाब्दम् [ प्र० समु० ५ १ ] इति लोक थान []क्षणं तथेदमपि लिङ्ग- लिङ्गिनोर्गमक-गम्यनियमार्थकम् । कतमत् तदिति चेत्, उच्यतेयत् त्वयोक्तम् तथाङ्गमित्यादि । लिङ्गमङ्गं धूम - कृतकत्वादि लिङ्गिनम् अग्न्यनित्यत्वादिविशिष्टं देश-शब्दादिमर्थ नातिक्रम्य वर्तते येन रूपेण, केन च नातिवर्तते ? 'धूम इत्यधूमो न भवति, कृतक इत्यकृतको 25 न भवति' इत्यधूमाकृत कनिवृत्यात्मना नातिक्रामति, तेनैव च रूपेणान्यतो व्यावृत्त्यात्मकेन गमयति, सत्त्व द्रव्याद्यनेकधर्मापि संस्तैस्तु व्यभिचारान्न गमयति सत्त्वादिसामान्यधर्मैरिति । एष तावद् गमकनियमः । गम्यनियमोऽपि गम्यन्त इत्यादि । लिङ्गिनः अनुबन्धिनः सामान्यधर्माः सत्त्व- द्रव्यत्वादयो गम्यन्ते / Jain Education International प्र० ॥ १ ( गमतीतरैर्न तु ? ) ॥ २ रत्रेति रत्रेति वा प्र० ॥ ३ वान्यापोह प्र० ॥ ४ णमेव तत्तत्प्र ५ द्वि० ॥ ६ मिष्येते य० । दृश्यतां पृ० ६६६ टि० २ ॥ ८ यथा नक्षणं प्र० । ( यथाऽलक्षणं ? ) ॥ संस्तैस्त्वाद्यभि भा० । ( संस्तैस्तद्व्यभि° ) ॥ ७ दृश्यतां पृ० ६७२ पं० ४ ॥ १० संस्तैस्त्वाव्यभि य० । ९ तुलना - पृ० ६५३ पं० ५ ॥ ११ अनुबन्धनः सान्यधर्माः प्र० ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403