Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 337
________________ दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् । श्वादिसम्बन्धिनामेकः प्रत्यक्ष इति द्वितीयेनापि प्रत्यक्षेण भवितव्यम् । तथा संयोगित्वसाध्यसाधकत्व.....यथैकः संयोगी तथा द्वितीयः।। __अत एव चैवं वक्तुमयुक्तम्-यथाहि सत्यपि द्विगतत्वे सम्बन्धस्य न कदाचिदाधार आधेयधर्मा भवति नाप्याधेय आधारधर्मा तथा न कदाचिल्लिङ्गं लिङ्गि भवति लिङ्गि वा लिङ्गम् । संयोगी तु यथै कस्तथा द्वितीय इति तद्वदिह न भवति [प्रै० समु० वृ० २।१९३] इति । तन्न घटते । ननु तद्वदेवेह । संयोगिनोरपि न यथैकस्य संयोगस्तथा द्वितीयस्य, संयोगित्वात् , स्थाण्वादिसंयोगवत् । यत्तूक्तम्-इंदं पुनर्वक्तव्यम् - केन प्रकारेण सम्बन्धादेकस्मात् प्रत्यक्षादिति । यदि स्वत्वादिना भवितव्यं चेति । तथा संयोगित्वसाध्यसाधकत्वेत्यादि गतार्थे यथासयं निदर्शने यावद् यथैकः संयोगी तथा द्वितीय इति, 'न हि' इति वर्तते, उक्तादेव न्यायादयुक्तमेवं भवितुम् । ___अत एव चैवं वक्तुमयुक्तं यथा त्वया यत एवं विस्रब्धमुच्यते गुणदोषविचारनिरपेक्षेण निःशङ्केन । कतम[द]युक्तमिति चेत् , इदं तद् दयतेऽस्माभिः-यथा हि सत्यपि द्विगतत्व इत्यादि... यावत् तद्वदिह न भवतीति संयोगिनोरतुल्य आधाराधेयोरिव न भवतीति । तन्न घेटत इति । तत्र वयं तन्न घटत इति ब्रूमः । तद्यथा-ननु तद्वदेवेह आधाराधेयवदेव, संयोगिनोरपि लिङ्गलिङ्गिनोधूमान्योर्न यथैकस्य प्रत्यक्षस्य संयोगस्तथा द्वितीयस्याप्रत्यक्षस्येति पक्षः, 15 संयोगित्वादिति हेतुः । स्थाण्वादिसंयोगिवदिति दृष्टान्तः, यथा हि स्थाणुश्येनयोः संयोगिनोः स्थाणोरकर्मणः श्येनस्य सकर्मणश्च संयोगः सकर्माकर्मकत्वाभ्यामतुल्यः तथा मल्ल-द्वयङ्गुलाकाशादिसंयोगसंयोगिनां तथा चैत्राश्वादीनामप्यत्यन्तप्रियवाहनादित्वाद्युपलक्षितत्वे प्रत्यक्षाप्रत्यक्षादित्वैनैव विशेष इति । यत्रूणा(यत्तूक्त)मित्यादि सम्बन्धवादिनमेव प्रति आन्यापोहिकेन पर्यनुयुज्य यदुक्तं दोजातम् 10 ४४५.२ १ दृश्यतां पृ० ६७९ पं० १-३॥ २"स्वार्थालोचनमात्रत्वादव्युत्पन्नस्य तद्गतेः। [प्र. समु० २।३७], ....... इदं पुनर्वक्तव्यम् -केन प्रकारेण सम्बन्धादेकस्मात् प्रत्यक्षादिति । यदि स्वत्वादिना ततः स्वामिसम्बन्धित्वात् स्वस्य खाम्यायत्तत्वादुत्तरकालं स्मृतिरनर्थिका । अथान्यथा, तन्नोक्तम् । लिङ्गग्रहणे तुल्यमिति चेत्, न, तस्य सम्बन्धित्वेनाग्रहणात् । अनुमेयस्थं लिङ्गं धूमादित्वेन पूर्व गृह्यते पश्चात् तस्याम्न्यादिभिरविनाभावित्वं स्मर्यते । स्वस्खाम्यादिसम्बन्धात् [ एकस्मात् PSVI] शेषसिद्धिरनुमानमिति यदुक्तं तदयुक्तम् । कस्मात् ? अव्युत्पन्नस्य तद्गतेः। दृष्टः स्वखाम्याद्यनभिज्ञानामप्यविनामावित्वमात्रोपलब्धेर्निश्चयः । न चागृहीतः सम्बन्धोऽनुमानस्य कारणम् , ज्ञानकारणत्वेन तस्य ज्ञापकत्वात् । न चावश्यं सर्वत्र खस्वाम्यादीनामव्यभिचारः । तस्मात् सम्बन्धादनुमानं न भवति । उपलब्धसम्बन्धस्य न पुनरव्यभिचारापेक्षानुमितियुक्ता तस्यैवाभिव्यञ्जकत्वापत्तेः । अत्र चाग्नितोऽपि धूमानुमितिप्रसङ्गः, सम्बन्धाविशेषात् , अविशिष्टो ह्यग्निधूमयोनिमित्तनैमित्तिकसम्बन्धः । यस्य त्वविनाभावित्वं सम्बन्धोऽभिमतस्तस्यायमदोषः ।" इति प्रमाणसमुच्चयवृत्तौ द्वितीये स्वार्थानुमानपरिच्छेदे Psv' e. ed. D. ed. पृ. ३६, N. ed. पृ. ३९ B-४० A । Psvi N. ed. पृ० १२१ B, P. ed. पृ० ११९.. B- १२० A । अस्य विशालामलवती व्याख्या-"इदं पुनर्वक्तव्यमित्यादि । स्वादिसम्बन्धिनः खत्वादिरूपेणैव आहोस्विद् रूपान्तरेण ग्रहणं स्यात् ? यदि स्वत्वादिरूपेण 'खम्' इत्येवं गृह्यते तर्हि खामिसम्बन्धित्वात् स्वस्य स्वाम्यभावे स्वत्वस्यानुपपत्तेः स्वामिनिश्चयापेक्षत्वात् लिङ्गदर्शनात् पूर्वमेव खामिप्रतिपत्त्या भवितव्यम् , अन्यथा 'इदमस्य स्वम्' इत्येवं ग्रहणं न सम्भवति । ततश्चोत्तरकालं सम्बन्धस्मृतिरनार्थका स्यात् , स्वामिनः प्रागेव सिद्धत्वात् शेषानुपपत्तेः । शेषेण सिद्धेश्चानुमानत्वस्येष्टत्वात् । . अथान्यथा प्रकारान्तरेण ग्रहणमिष्यते तन्नोक्तमिति लक्षणस्यापरिपूर्णत्वम् । लिङ्गग्रहणे तुल्यमिति यद्यविनाभावित्वेन लिङ्गं गृह्यते अविनाभावित्वमपि प्रतियोग्यन्तरापेक्षमेवेति लिङ्गग्रहणात् पूर्वमेव साध्यप्रतिपत्त्या भवितव्यम् । तथा च साध्ये Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403