________________
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् । श्वादिसम्बन्धिनामेकः प्रत्यक्ष इति द्वितीयेनापि प्रत्यक्षेण भवितव्यम् । तथा संयोगित्वसाध्यसाधकत्व.....यथैकः संयोगी तथा द्वितीयः।।
__अत एव चैवं वक्तुमयुक्तम्-यथाहि सत्यपि द्विगतत्वे सम्बन्धस्य न कदाचिदाधार आधेयधर्मा भवति नाप्याधेय आधारधर्मा तथा न कदाचिल्लिङ्गं लिङ्गि भवति लिङ्गि वा लिङ्गम् । संयोगी तु यथै कस्तथा द्वितीय इति तद्वदिह न भवति [प्रै० समु० वृ० २।१९३] इति ।
तन्न घटते । ननु तद्वदेवेह । संयोगिनोरपि न यथैकस्य संयोगस्तथा द्वितीयस्य, संयोगित्वात् , स्थाण्वादिसंयोगवत् ।
यत्तूक्तम्-इंदं पुनर्वक्तव्यम् - केन प्रकारेण सम्बन्धादेकस्मात् प्रत्यक्षादिति । यदि स्वत्वादिना भवितव्यं चेति । तथा संयोगित्वसाध्यसाधकत्वेत्यादि गतार्थे यथासयं निदर्शने यावद् यथैकः संयोगी तथा द्वितीय इति, 'न हि' इति वर्तते, उक्तादेव न्यायादयुक्तमेवं भवितुम् । ___अत एव चैवं वक्तुमयुक्तं यथा त्वया यत एवं विस्रब्धमुच्यते गुणदोषविचारनिरपेक्षेण निःशङ्केन । कतम[द]युक्तमिति चेत् , इदं तद् दयतेऽस्माभिः-यथा हि सत्यपि द्विगतत्व इत्यादि... यावत् तद्वदिह न भवतीति संयोगिनोरतुल्य आधाराधेयोरिव न भवतीति ।
तन्न घेटत इति । तत्र वयं तन्न घटत इति ब्रूमः । तद्यथा-ननु तद्वदेवेह आधाराधेयवदेव, संयोगिनोरपि लिङ्गलिङ्गिनोधूमान्योर्न यथैकस्य प्रत्यक्षस्य संयोगस्तथा द्वितीयस्याप्रत्यक्षस्येति पक्षः, 15 संयोगित्वादिति हेतुः । स्थाण्वादिसंयोगिवदिति दृष्टान्तः, यथा हि स्थाणुश्येनयोः संयोगिनोः स्थाणोरकर्मणः श्येनस्य सकर्मणश्च संयोगः सकर्माकर्मकत्वाभ्यामतुल्यः तथा मल्ल-द्वयङ्गुलाकाशादिसंयोगसंयोगिनां तथा चैत्राश्वादीनामप्यत्यन्तप्रियवाहनादित्वाद्युपलक्षितत्वे प्रत्यक्षाप्रत्यक्षादित्वैनैव विशेष इति ।
यत्रूणा(यत्तूक्त)मित्यादि सम्बन्धवादिनमेव प्रति आन्यापोहिकेन पर्यनुयुज्य यदुक्तं दोजातम्
10
४४५.२
१ दृश्यतां पृ० ६७९ पं० १-३॥ २"स्वार्थालोचनमात्रत्वादव्युत्पन्नस्य तद्गतेः। [प्र. समु० २।३७], ....... इदं पुनर्वक्तव्यम् -केन प्रकारेण सम्बन्धादेकस्मात् प्रत्यक्षादिति । यदि स्वत्वादिना ततः स्वामिसम्बन्धित्वात् स्वस्य खाम्यायत्तत्वादुत्तरकालं स्मृतिरनर्थिका । अथान्यथा, तन्नोक्तम् । लिङ्गग्रहणे तुल्यमिति चेत्, न, तस्य सम्बन्धित्वेनाग्रहणात् । अनुमेयस्थं लिङ्गं धूमादित्वेन पूर्व गृह्यते पश्चात् तस्याम्न्यादिभिरविनाभावित्वं स्मर्यते । स्वस्खाम्यादिसम्बन्धात् [ एकस्मात् PSVI] शेषसिद्धिरनुमानमिति यदुक्तं तदयुक्तम् । कस्मात् ? अव्युत्पन्नस्य तद्गतेः। दृष्टः स्वखाम्याद्यनभिज्ञानामप्यविनामावित्वमात्रोपलब्धेर्निश्चयः । न चागृहीतः सम्बन्धोऽनुमानस्य कारणम् , ज्ञानकारणत्वेन तस्य ज्ञापकत्वात् । न चावश्यं सर्वत्र खस्वाम्यादीनामव्यभिचारः । तस्मात् सम्बन्धादनुमानं न भवति । उपलब्धसम्बन्धस्य न पुनरव्यभिचारापेक्षानुमितियुक्ता तस्यैवाभिव्यञ्जकत्वापत्तेः । अत्र चाग्नितोऽपि धूमानुमितिप्रसङ्गः, सम्बन्धाविशेषात् , अविशिष्टो ह्यग्निधूमयोनिमित्तनैमित्तिकसम्बन्धः । यस्य त्वविनाभावित्वं सम्बन्धोऽभिमतस्तस्यायमदोषः ।" इति प्रमाणसमुच्चयवृत्तौ द्वितीये स्वार्थानुमानपरिच्छेदे Psv' e. ed. D. ed. पृ. ३६, N. ed. पृ. ३९ B-४० A । Psvi N. ed. पृ० १२१ B, P. ed. पृ० ११९.. B- १२० A । अस्य विशालामलवती व्याख्या-"इदं पुनर्वक्तव्यमित्यादि । स्वादिसम्बन्धिनः खत्वादिरूपेणैव आहोस्विद् रूपान्तरेण ग्रहणं स्यात् ? यदि स्वत्वादिरूपेण 'खम्' इत्येवं गृह्यते तर्हि खामिसम्बन्धित्वात् स्वस्य स्वाम्यभावे स्वत्वस्यानुपपत्तेः स्वामिनिश्चयापेक्षत्वात् लिङ्गदर्शनात् पूर्वमेव खामिप्रतिपत्त्या भवितव्यम् , अन्यथा 'इदमस्य स्वम्' इत्येवं ग्रहणं न सम्भवति । ततश्चोत्तरकालं सम्बन्धस्मृतिरनार्थका स्यात् , स्वामिनः प्रागेव सिद्धत्वात् शेषानुपपत्तेः । शेषेण सिद्धेश्चानुमानत्वस्येष्टत्वात् । . अथान्यथा प्रकारान्तरेण ग्रहणमिष्यते तन्नोक्तमिति लक्षणस्यापरिपूर्णत्वम् । लिङ्गग्रहणे तुल्यमिति यद्यविनाभावित्वेन लिङ्गं गृह्यते अविनाभावित्वमपि प्रतियोग्यन्तरापेक्षमेवेति लिङ्गग्रहणात् पूर्वमेव साध्यप्रतिपत्त्या भवितव्यम् । तथा च साध्ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org