________________
६८२
न्यायागमानुसारिणीवृत्त्यलङ्कतं [अष्टम उभयनियमारे एवं च सपक्षे साध्यसाधनधर्मयोः सहभावदर्शनार्थमन्वयवृत्त्या साधर्म्यदृष्टान्त उच्यते तथाप्रत्यक्षसम्बन्धित्वविवक्षायाः।।
प्रसिद्धस्य धर्मस्य साधनत्वादप्रसिद्धस्य साध्यत्वात् कुतो लिङ्गलिभिव्यतिकरदोषाशङ्का ? धर्मिण एवैकस्य लिङ्गत्वाल्लिङ्गित्वाच, अलिङ्गत्वाद् धूमस्यापि 5 अलिङ्गित्वाच्चाग्नेः।
यत् पुनरिद सम्बन्धवादिनः प्रति लिङ्गलिङ्गयैकरूप्यापादनमेषोऽन्यायः। कोऽयं नियमः सम्बन्धिना द्वितीयसम्बन्धिरूपेण भवितव्यमिति। न हि चैत्रा
साध्य-साधनव्यपदेशं लभते प्रदेशेन्धनादिर्भावः । तस्मात् साध्य-साधनधर्मयोलिङ्गिन्याधारे परस्परप्रत्ययाधाराधेयप्रधानोपसर्जनभावेनाविनाभावात् संयोगिवद्वृत्तिः, न तु कुण्डबदरयोराधाराधेययोरिव वृत्तिः, 10 अनुमाने तुल्यकक्षत्वादुभयोरिति ।
एवं च सपक्षेत्यादि । एतमेव चास्मदुक्तं न्यायमुपोद्वलयति साधर्म्यदृष्टान्तप्रयोगो लोकप्रसिद्धो न्यायशास्त्रे च । तद्यथा- 'यत्र धूमस्तत्राग्निः, यत् कृतकं तदनित्यम्' इति सपक्षे साध्य-साधनधर्मयोः अग्निधूमयोः कृतकानित्यतयोश्च तद्वति देशान्तरे वस्त्वन्तरे वा घटादा सहभावदर्शनार्थमन्वयवृत्त्या साधर्म्यदृष्टान्त उच्यते । कस्मात् ? तथाप्रत्यक्षसम्बन्धित्वविवक्षाया हेतोः, प्रसिद्धस्य साधनधर्मत्वेन 15 अप्रसिद्धस्य च साध्यधर्मत्वेन विवक्षितत्वादित्यर्थः । ४४५-१ यत् पुनरत्राशयते त्वया-लिङ्गस्य लिङ्गित्वं लिङ्गिनो वा लिङ्गत्वं प्रसक्तम् [
] इति, एतस्या आशङ्काया अनुपपत्तिरेव, प्रसिद्धस्य धर्मस्य साधनत्वादप्रसिद्धस्य साध्यत्वात् कुतो लिङ्गलिङ्गिव्यतिकरदोषाशङ्का लिङ्गैकदोषाशङ्कानुपपत्तिरेवेत्यर्थः । धर्मिण एवैकस्य प्रदेश-शब्दादेर्लिङ्गत्वाद् लिङ्गित्वाचालिङ्गैकदेशत्वाद्वा लिङ्गिनः, धर्येव लिङ्ग लिङ्गी चेति कृत्वा नाग्निर्लिङ्गी न धूमो लिङ्गं 20 तथा कृतकानित्यत्वे । तस्मादलिङ्गत्वाद् धूमस्यापि नालिङ्गित्वादेव, अलिङ्गित्वाच्चाग्नेः नालिङ्गत्वादेव ।
तस्मात् प्रत्यक्षतरसम्बन्धित्वविवक्षितत्वाद् न सङ्कीर्येयातां लिङ्गलिङ्गिनौ । अतः प्रसिद्धधर्मलिङ्गद्वारेण अप्रसिद्धधर्मलिङ्गिद्वारेण चैकस्यैव साधनत्वात् साध्यत्वाच्च व्यवस्थितमेव लिङ्गलिङ्गित्वमिति । .. यत् पुनरिद सम्बन्धवादिनः प्रतीत्यादि । यदेतद् लिङ्गलिङ्गयैक रूप्यापादनमेषोऽन्यायः, कोऽयं नियमः-सम्बन्धिना द्वितीयसम्बन्धिरूपेण भवितव्यम् इति ? नैष नियमोऽस्ति प्रत्यक्षा25 प्रत्यक्षत्वविशेषदर्शनाद् धूमाझ्यादिषु । तदर्शयति-न हि चैत्राश्वेत्यादि, स्व-स्वाम्यादिसप्तविधसम्बन्धेषु
चैत्राश्वादिसम्बन्धिनां प्रत्यक्षाप्रत्यक्षाणां न हि नियमोऽस्ति - एकः प्रत्यक्ष इति द्वितीयेनापि प्रत्यक्षेण
१प्रवृत्तिः प्र० ॥ २ एवमेव भा० ॥ ३ नासमन्वय य० । नामन्वय भा० ॥ ४ विवक्षया प्र.। 'हेतोः' इति पञ्चम्यन्तनिर्देशाद् "विवक्षायाः' इति पाठो युक्तः प्रतीयते, तुलना पृ० ६९२ पं० २२॥ ५साधर्म्यत्वेन प्र०॥ ६ तुलना पृ० ६९० पं० २७ पृ० ६७८ पं० १७ ॥ ७लिंगित्वं प्र०॥ ८ शंकायांति लिंगैक भा० ।
शंकायां लिंगैक य०। (शका आयाति । लिङ्गैक?) (शङ्का । लिङ्गिलिडैक्य ?)॥ ९ शब्दादेलिंगत्वाद य०॥ १० च्चाल्लिङ्गै भा० । (°चालिङ्गैकदोषत्वाद्वा ?)। "च लिङ्गैकदेशत्वाद्वा' इत्यपि पाठोऽत्र चिन्त्यः ॥ ११ धय॑स्येव भा० । धर्मस्येव य० ॥ १२ अन्यालिंगित्वा प्र०॥ १३ प्रत्यक्षतर प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org