________________
दिमागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् ।
६८१ अनोच्यते
तद्भावदर्शनादेव साध्यसाधनधर्मयोः ।
विधेः संयोगिवत्तिराधाराधेयवन्न तु ॥ तद्भावदर्शनं यत् तद् भवति तेनैव भूयते तद्भावस्य दर्शनादेव धूमोऽग्निं गमयति । अतदभावान्वयशब्दार्थतायामधूमस्य पटस्याभावो घटो वन्ध्यापुत्रो वा स्यात् , तथानग्नेः पवनस्याभाव उदकं खपुष्पं वा स्यादसम्बद्धम् । 'तत्र' इत्यभूतान्वयसाधनार्थातथार्थत्वात् । तद्भावदर्शनादेव तु साध्यसाधनधर्मयोस्तथाभूतान्वयदर्शनात् संयोगिनोरिव वृत्तिरिष्टा, न त्वाधाराधेयवदतुल्या, द्वयोरपि लिङ्गिन्याधारे परस्परप्रत्ययाधाराधेयप्रधानोपसर्जनभावेनाविनाभावादेकवस्तुधर्मत्वात् कृतकानित्यत्ववत् ।
10
अत्रास्माभिरुच्यते-तद्भावदर्शनादेवेत्यादि श्लोकस्तद्विपरीतार्थः संयोगिवद् नाधाराधेयवदिति । तद्भावदर्शनं यत् तदित्यादि, स एवाग्निधूमो भवति, तेनैवाग्निना धूमेन भूयते तद्देशेन्धनादिसम्बद्धन, नान्येन अयोग्यादिनाऽबादिना वा धूमेन भूयते, न सोऽग्निधूमो न भवति भवत्येवेति तद्भावस्यास्वनिवृत्तिहेतुभावाभूतस्य दर्शनादेव 'धूमो धूमो भवन्नेवाग्निं गमयति, न यत्र न दृष्टस्तदवच्छेदेन त्वन्मतेन 'अधूमो न भवति यतस्तस्मादनग्निर्न भवति' इति, तद्भावाग्रहणे दोषदर्शनात् । को दोष इति चेत् , 15 उच्यते-अतदभावान्वयशब्दार्थतायां विधिरूपतद्भावान्वयशब्दार्थविपरीतकल्पनायाम् 'अग्निरत्र धूमात्' इत्यस्मिन्ननुमानेऽग्निधूमविपक्षव्यावृत्तिमात्रेष्टावनिष्टम् अधूमस्य पटस्याभावो घटो वन्ध्यापुत्रो वा स्यात् , अनिष्टं चैतत् । एष लिङ्गे दोषः । लिङ्गिन्यपि तथानॅग्नेः पवनस्याभाव उदकं खपुष्पं वा स्यादसम्बद्धम् , अनिष्टं चैतदपि । किं कारणम् ? तत्रेत्यभूतान्वयसाधनार्थातथार्थत्वात् , 'यत्र धूमस्तत्राग्निः' इत्यन्धयसहितः साधनार्थस्तथार्थः सत्यस्तद्भावात् तत्प्रदेशसम्बन्ध्यग्निधूमभावात् , अन्यथा 20 त्वदिष्टातदभावात्मकस्य अभूतान्वयसाधनार्थस्यातथार्थत्वादनन्तरनिर्दिष्टानिष्टप्राप्तिः । अंत एव तर्हि अस्मदिष्टतद्भावदर्शनादेव तु साध्यसाधनधर्मयोः अग्निधूमयोस्तथाभूतान्वयदर्शनहेतोः संयोगिनो-४४४-२ रमुल्योरिव यथैकस्य तथा द्वितीयस्यापि तद्भावाविशिष्टा वृत्तिरिष्टा, न त्वाधाराधेयर्वदतुल्या, यथा आधार [आधार ] एव, आधेय आधेय एव, न विपर्ययेणेति । कस्मात् ? द्वयोरपि लिङ्गिनि आधारे देशेन्धनादौ परस्परप्रत्ययाधाराधेयप्रधानोपसर्जनभावेनाविनाभावात् , प्राग्व्याख्यातनिर्वर्तकगम्य-25 भावेन एकवस्तुधर्मत्वात् , कृतकानित्यत्ववत्, यथा हि प्रागभाव-प्रध्वंसाभावलक्षण एक एव ह्यभूत्वा भवन भूत्वा चाँभवन् कृतकश्चानित्यश्च भावः साध्य-साधनाख्यां लभते तथेह अग्नि-धूमाख्य एक एव
१ नादिसंबंधेन य० । नाता दिसंबंधेन भा० ॥ २ सोग्निधूमो प्र० ॥ ३ तुतावाभूत्यस्य य० । तुताथाभूत्यस्य भा० । "तुभावभूतस्य' इत्यपि पाठोऽत्र भवेत् । (तुतयाभूतस्य ? ) ॥ ४धूमो भवन्नेवाग्निं भा० ॥ ५ नग्नेरपवनस्य प्र०॥ ६°ानिर्दिष्टप्राप्तिः य०॥ ७ अत एतर्हि य० । अयमपि पाठः संगच्छेत ॥ ८ यथैवास्य तथापि द्वितीय प्र० ॥ ९ * * एतदन्तर्गतः वदतुल्या इत्यादिः धाराधेय इत्यन्तः पाठो य. प्रती नास्ति ॥ १० आधेयोधेय एव भा०॥ ११ पृ. ६७७ पं० १०॥ १२ निर्वनक य०॥ १३ राभवन् प्र० ॥
नय.८६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org