________________
६८०
न्यायागमानुसारिणीवृत्त्यलङ्कतं
[अष्टम उभयनियमारे कारणम् ?
प्रतिषेध्याप्रचारेण यस्माद्व्याप्तिरपेक्ष्यते ।
लिङ्गस्य लिङ्गिनि व्याप्तिस्तस्मात् सत्यप्यकारणम् ॥ कृतकत्वस्य हि अनित्यार्थव्यापित्वेऽपि नित्यत्वप्रतिषेधेन गमकत्वम् । एवमनित्यत्वस्य कृतकार्थ5 व्यापित्वेऽपि अकृतकत्वप्रतिषेधेन गमकत्वम् । तस्माद् यदनित्यार्थेऽपि कृतकत्वव्यापित्वं तेनाकृतकत्वानवकाशाद नित्यत्वेन कृतकत्वस्याकृतकत्वप्रतिषेधेन गम्यतैव स्याद् न गमकत्वम् । *तुल्यमिति चेत्, न, विषाणित्वे व्यभिचारात्* । आह च
नाशिनः कृतकत्वेन व्याप्तेरकृतकं न तत् । "नित्याभावस्तु व्याप्तत्वात् कृतकार्थे न दर्श्यते ॥ विषाणित्वेन गौाप्तोऽविषाणित्वं निवर्तयेत् ।
विषाणित्वेन गौाप्तोऽगवार्थ न निवर्तयेत् ॥ इति निर्दिष्टं स्वार्थानुमानम् [प्र० समु० वृ० २११९३-२४३] ।
किं कारणम् ? प्रतिषेध्याप्रचारेणेत्यादि श्लोकः । कृतकत्वस्य हि अनित्यार्थव्यापित्वेऽपि नित्यत्वप्रतिषेधेन गमकत्वम् , तथा अनित्यत्वस्य कृतकार्थव्यापित्वेऽपि अकृतकत्वप्रतिषेधेन गमकत्वम् । तस्माद् यदनित्यार्थेऽपि कृतकत्वव्यापित्वं तेनाकृतकत्वानवकाशादनित्यत्वेन कृतकत्वस्याकृतकत्वप्रतिषेधेन गम्यतैव 15 स्यान्न गेमकत्वम् । तुल्यमिति चेत् , न, विषाणित्वे व्यभिचारादिति ।
आह चेत्यादि एतस्यार्थस्य निदर्शने भावनार्थे कारिके-नाशिनः कृतकत्वेनेत्यादि विषाणित्वेनेत्यादि च । पूर्वया कारिकया कृतकत्वेनानित्यत्वं व्याप्तं न साधनमविवक्षितत्वात् । यस्माद् नित्याभावोsनित्यत्वं कृतकेऽर्थे न प्रदर्यते-यदनित्यं तत् कृतकमिति, किं तर्हि ? नित्याभावेनाकृतकाभावस्य कृतकस्य
व्याप्तेर्विवक्षितत्वात् कृतकत्वेऽर्थेऽनित्यत्वं प्रदर्यते यत् कृतकं तदनित्यमपि(मिति)। द्वितीयया तस्यार्थस्य 20 स्फुटीकरणार्थ विवक्षिताविवक्षितयोाप्योर्व्यभिचाराव्यभिचारनिदर्शनं क्रियते । 'विषाणित्वादू गौः' इति व्यभिचरति, 'गोत्वाद् विषाणी' इति न व्यभिचरति, अतो न गमयति [ गमयति ] चेति प्रतिषेध्याप्रचाररूपा व्याप्तिर्गमयति न विधेयप्रचाररूपेति निर्दिष्टं स्वार्थमनुमानं गम्यगमकनियमव्यवस्थोक्तेर्मयैव न वादविधिकारादिभिरित्याहोपुरुषिकयोपसंहरत्यान्यापोहिकः ।
१ दृश्यतां पृ० ६७७ पं० २२ । पृ०४५८-२॥ २ एतदन्तर्गतः पाठः प्रमाणसमुच्चयवृत्तौ न दृश्यते ॥ ३ उक्तमर्थ कारिकाद्वयेन सङ्गह्नाति–नाशिनः कृतकत्वेनेत्यादि । अनित्यत्वस्य कृतकत्वेन व्याप्तेः 'अनित्यत्वात् तदकृतकं न' इत्ययमप्रस्तुत एवार्थः प्रतीयते इति क्रियालोपेन निर्दिशति । यः प्रस्तुतो नित्यत्वाभावोऽनित्यत्वं स तेन व्याप्तत्वात् कृतकत्वार्थे न दयते । इममेवा) स्फुटीकर्तुं द्वितीयया कारिकया दृष्टान्तमाह । अविषाणित्वं निवर्तयेदिति विषाणित्वं गमयेदित्यर्थः । अगवार्थ न निवर्तयेदिति गवार्थस्य न साधनमित्यर्थः।"-विशाला D. ed. पृ० १०४ B-१.५A | P. ed. पृ० ११८ A ॥ ४(नित्याभावो न व्यापित्वात् कृत कार्थे प्रदर्यते ?)। (व्यापित्वात् कृतकार्थे तु नित्याभावो न दर्यते ?)। (अनित्यत्वं त्वभिव्याप्या कृतकेऽर्थे न दर्श्यते ?)॥ ५ (गौाप्तोऽविषाणित्वनिवर्तकः ?)॥ ६ (गौाप्तो नागवार्थनिवर्तकः ?)॥ ७ इत्यन्तरश्लोकी [ इति सङ्ग्रहश्लोकी Psvi] | निर्दिष्टं स्वार्थानुमानम्।' इति प्रमाणसमुच्चयवृत्ती पाठः ॥ ८ Psvc. ed. पृ० ३१ B-३२ A | Psy' P. ed. पृ० ११३ B-११४ । दृश्यतां पृ. ४५५-२॥ ९ गमकत्वे भा० । गमत्वे य० ॥ १० विषाणत्वे य० ॥ ११ कृतकत्वेत्यादि प्र.। दृश्यतां पृ० ४५९-१॥ १२ दृश्यतां पृ०४५९-२॥ १३ पूविकया य० ॥ १४ कृतकोथे भा० । कृतकोर्थः य०॥ १५ कत्वेऽर्थ य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org