________________
दिङ्गागप्रणीतापोहवाद निरासः ]
द्वादशारं नयचक्रम्
६७९
यथा हि सत्यपि द्विगतत्वे सम्बन्धस्य न कदाचिदाधार आधेयधर्मा भवति नाप्याधेय आधारधर्मा तथा न कदाचिलिङ्ग लिङ्गि भवति लिङ्गि वा लिङ्गम् । संयोगी तु यथैकस्तथा द्वितीय इति ने तद्वदिह । तथाहि
लिङ्गे लिङ्गि भवत्येव लिङ्गिन्येवेतरत् पुनः । नियमस्य विपर्यासे सम्बन्धो लिङ्गलिङ्गिनोः ॥
मालिङ्गे लिङ्गि भवत्येव तस्माद्युक्तं यदग्निवद् धूमो द्रव्यत्वादीनामपि प्रकाशको न तैक्ष्ण्यादी नाम् । यस्माच्च लिङ्गिन्येव लिङ्गं भवसि नान्यत्र तस्माद् युक्तं यद् धूमो धूमत्वेनेव पाण्डुत्वादिभिरपि प्रकाशयति न द्रव्यत्वादिभिरिति । एवं हि अवधारणवैपरीत्येन सम्बन्धो लिङ्गलिङ्गिनोः ।
ननु च लिङ्गमपि लिङ्गिनि भवत्येव यथा कृतकत्वमनित्यत्वे
कामं लिङ्गमपि व्यापि लिङ्गिन्यङ्गि तु तत्ततः । व्यापित्वान्न तु तत्तस्य गमकं गोविषाणवत् ॥
यद्यपि किञ्चिलिङ्गं लिङ्गिनि भवत्येव न तु तत्तेन व्यापित्वेन लिङ्गिनं गमयति । तद्यथा - विषाणि ear गोव्यापित्वेऽपि न गोप्रकाशकत्वम्, व्यापित्वात्तु तदेव गोत्वेन प्रकाश्यं भवति, तद्वदिति । किं
सत्यपि द्वित्वे सम्बन्धस्य न कदाचिदाधार आधेयधर्मा भवति नाप्याधेय आधारधर्मा तथा न कदाचिल्लिङ्गं लिङ्गि भवति लिङ्गि वा लिङ्गम् । संयोगी तु यथैकस्तथा द्वितीय इति न तद्वदिह ।
10
5
Jain Education International
तथाहि - लिङ्गे लिङ्गि भवत्येवेत्यादि लोकः । यस्माच्च लिङ्गे लिङ्गि भवत्येव तस्माद्युक्तं यदग्निवद् धूमो द्रव्यत्वादीनामपि प्रकाशको न तैक्ष्ण्यादीनाम् । यस्माच्च लिङ्गिन्येव लिङ्गं भवति नान्यत्र तस्माद्युक्तं यद् धूम धूमत्वेनेव पाण्डुत्वादिभिरपि प्रकाशयति न द्रव्यत्वादिभिरिति । एवं हि अवधारण - ४४३-२ वैपरीत्येन सम्बन्धो लिङ्ग लिङ्गिनोः ।
15
ननु च लिङ्गमपि लिङ्गिनि भवत्येव यथा कृतकत्वमनित्यत्वे, कामं लिङ्गमपि व्यापीत्यादि | 20 यद्यपि किञ्चिद् लिङ्गं लिङ्गिनि भवत्येव, न तु तत्वे (ते) न व्यापित्वेन लिङ्गिनं गमयति । तद्यथा"विषाणित्वेन गोव्यापित्वेऽपि न गोप्रकाशकत्वम्, व्यापित्वात्तु तदेव गोत्वेन प्रकाश्यं भवति तद्वदिति ।
For Private & Personal Use Only
१ दृश्यतां पृ० ४४५-२ ॥ २ ' तद्वदिह न भवति' इत्यपि पाठो भवेत् ॥ ३ कारिकेयं हेतुबिन्दुटीका [ पृ० १८]-प्रमाणमीमांसा[पृ० ३८ पं० १९ ]दिष्वप्युद्धृता । इदं पुनरत्रावधेयम् - पृ० ४५५-२, ४५७-१, ४५७-२, इत्यादावत्र 'लिङ्गी' इति पाठो वक्ष्यते । प्रमाणमीमांसादिष्वपि 'लिङ्गी' इति पाठः । अत्र तु 'लिङ्गि' इति पाठदर्शनादस्माभिः स एव पाठोऽत्रादृतः ॥ ४ अत्र 'सम्बन्ध' इति पाठ एवं नयचक्रवृत्तौ सम्मतः । प्रमाणसमुच्चयटीकायां विशालामलवल्यामपि स एव पाठः । हेतुबिन्दुटीकाया आलोकेऽप्येवमस्य व्याख्या - "लिङ्गे साधने सति लिङ्गी साध्यं भवत्येव । अनेन व्यापकधर्मगता व्याप्तिर्देर्शिता । इतरलिङ्गं पुनर्लिङ्गिन्येव साध्य एव भवतीति । अनेन व्याप्यधर्मगता व्याप्तिरुक्ता । उक्तेन प्रकारेण नियमस्य अवधारणस्य विपर्यासे वैपरीले, विपर्यासश्चैकत्रायोगव्यवच्छेदेन विशेषण[म]परत्रान्ययोगव्यवच्छेदेन । तस्मिन् विपर्यासे सति लिङ्गलिङ्गिनोरस ( ( स ) म्बन्धो व्यातिरित्यर्थः । " - पृ० २६३ । किन्तु मुद्रितायां प्रमाणमीमांसायां हेतुबिन्दुटीकायां च 'ऽसम्बन्धो' इति पाठान्तरं दृश्यत इति ध्येयम् ॥ ५ दृश्यतां पृ० ४५५-२ ॥ ६ दृश्यतां पृ० ४५८-१ ॥ ७ 'तद्वदिति' प्रमाणसमुच्चयवृत्तौ न दृश्यते ॥ ८ ' कस्मात्' इति 'कुतः' इति वा पाठः प्रमाणसमुच्चयवत्तर्भोटभाषानुवादानुसारेणात्र भाति । तथापि 'किं कारणम्' इति पाठोऽत्र स्यादिति संभाव्यते दृश्यतां पृ० ४५८-२ ॥ ९ नामस्ति प्रका प्र० ॥ १० विषाणत्वेन प्र० ॥
1
www.jainelibrary.org