________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतं
[ अष्टम उभयनियमारे
यत्तु तदन्यत्रायो गुडाङ्गारान्यादावदर्शनं तयैते धूमस्य तत्र दर्शनाभावे लिङ्गत्वात्र्याख्यानाददोष एव । लिङ्गिन्यदर्शने तु स्याद् दोषः ।
एवं चानेनैव न्यायेन यस्तद्विपरीतः प्रकाश्यप्रकाशकत्वभेदपाठः सोऽप्यसम्यक्
६७८
5
15
४४३ - १ 'स्थाणुः' इति प्रतिपत्त्याधानाधारभावात्मकप्रत्ययाव्यवस्थानकारणत्वात् द्विविषयसन्देहकृदेकदोभयत्राभावात् ‘किं स्थाणुः स्यात् किं पुरुषः स्यात् तथा वयोनिलयनादिः पुंसि अभवन् स्थाणौ भवन्नुभयविषयं संशयं करोति । यत्र दृष्टस्तत्र निश्चयहेतुरेव स्थाणौ वयोनिलयनं पुरुषे च वस्त्रसंयमनम्, तत्र भवनात् । 10 तथायमपि ‘अग्निरत्र धूमात्' इति सन्देहहेतुः स्यात् साध्ये भवनानियमात् ।
संम्बन्धो यद्यपि द्विष्ठः सहभाव्यङ्गलिङ्गिनोः । आंधाराधेयवद्वृत्तिस्तस्य संयोगिवन्न ॥ तु
यत्तु तदित्यादि । यत् त्वयेदं साध्यादन्यत्र योगुडाङ्गाराग्न्यादावदर्शनं प्रत्यक्षतस्तर्यते धूमस्य तत्र सपक्षे लिङ्गस्य सर्वत्र दर्शनाभावे लिङ्गत्वाव्याख्यानाददोष एव । लिङ्गिन्यदर्शने तु स्याद् दोष:, लिङ्गी चात्र प्रदेशः प्रत्यक्षधूमसम्बन्धी, तत्र सर्वत्र दृश्यत एव । तस्माद् भ्रान्तवचनमेतत् सर्वत्र लिङ्गिन्यदर्शनान्न दृष्टवत् प्रतिपत्तिः [ ] इति ।
किञ्चान्यत्, एवं चेत्यादि । अनेनैव न्यायेन ' दर्शबलादेव गमयति' इत्युक्तेन यस्तद्विपरीतः प्रकाश्यप्रकाशकत्वभेदपाठः सोऽप्यसम्यक् । कतमोऽसाविति चेत्, उच्यते - सम्बन्धो यद्यपि द्विष्ट 1 इत्यादिकारिकाः सँभाष्याः । तद्यथा - 'ननु द्विगतत्वात् सम्बन्धस्य संयोगिवद् लिङ्गिधर्मणा लिङ्गेन भवितव्यम्' इति चोदिते ‘नैतदस्ति, सम्बन्धो यद्यपि द्विष्ट:' [ प्र० समु० वृ० २।१९] इत्यादि । यथा हि
१ " ननु द्विगतत्वात् सम्बन्धस्य संयोगिवल्लिङ्गिधर्मणा लिङ्गेन भवितव्यमिति चेत्, नैतदस्ति, सम्बन्धो यद्यपि द्विष्ठः सहभाव्यङ्गलिङ्गिनोः । . ॥" - प्र० समु० ० २।१९ ॥ २ दृश्यतां पृ० ४४९-२ ॥ ३ "नह यादृशी व्यापकधर्मे व्याप्तिः तादृश्येव व्याप्यधर्म इति । तथा चाह— सम्बन्धो यद्यपि द्विष्टः सहभाव्यङ्गलिङ्गिनोः | आधाराधेयवद्वृत्तिस्तस्य संयोगिवन्न तु ॥ " - हेतु बिन्दुटीका पृ० १९ । “ द्विष्ठत्वात् सम्बन्धस्य कथमुभयत्रैकाकारता व्याप्तेन स्यादित्याशङ्कय 'यद्यपि ' इत्यनेन द्विष्ठं सम्बन्धं वास्तवमभ्युपगम्यापि प्रतिविधत्ते । कयोर सावित्याह – अङ्ग इति । अंगेज़ (र्ज्ञान ) - परस्य ग्रहणादंग्य ते लिङ्गयते प्रतीयतेऽनेन परोक्षार्थं इति अङ्ग लिङ्गम्, तेन लिङ्गलिङ्गिनोरित्यर्थः । किंभूतः स इत्याह-सहेति । तयोरेव युगपद्भाविप्रकृतत्वात् द्विष्टत्वाभ्युपगमादेव च सहभावित्वाभ्युपगमोऽप्यायातः । ' यद्यपि शब्दसान्निध्यात् ' तथापि ' इत्यर्थतो द्रष्टव्यम् । तस्य सम्बन्धस्य वृत्तिर्वर्तनम्, तयोर्लिङ्गलिङ्गिनोरित्यर्थात् । कयोरिव सेत्यत आह- आधाराधेययोरिवेति सप्तम्यन्तत्वाद् वतिः । यथा आधाराधेयभावलक्षणः सम्बन्धो द्विष्टोऽपि नैकरूपया वृत्त्या द्वयोर्वर्तते । यत एवैकसम्बन्धयोगेऽपि नाधारस्याधेयत्वमाधेयस्य वाधारत्वं तथा लिङ्गलिङ्गिनोर्व्याप्तिरपि धूमत्वादावन्यथा अन्यथा च वह्नित्वादौ । अत एव धूमत्वादिरेव व्याप्यतया गमको न प्रमेयत्वादिः । वह्नित्वादिरेव व्याप्यतया गम्यो न तु तार्णत्वादिर्नापि धूमो गम्यो वह्निर्गमक इति ।" - हेतुबिन्दुटीकालोक, पृ० २६४ ॥ ४ त्रायो गुंडागारा य० । 'त्रायोगुडांगारा' भा० ॥ ५ नात्वदिष्टवत् य० ॥ ६ प्रकाशाप्रकाशकत्वभेदपाठः य० । प्रकाशकत्वभेदः भा० ॥ ७ समाप्याः य० । 'भाष्य'शब्देनात्र दिागरचिता वृत्तिविवक्षिता भाति ॥ ८ ° धर्मिणा भा० ॥ ९ इत आरभ्य गम्यतैव स्यान्न गमकत्वम् [ पृ० ६८० पं० १६ ] इत्यन्तः प्रायः सर्वेऽपि पाठः प्रमाणसमुच्चयवृत्तौ दृश्यते ॥
Jain Education International
www
For Private & Personal Use Only
www.jainelibrary.org