________________
दिङ्गागप्रणीत पोहवाद निरासः ]
द्वादशारं नयचक्रम्
साधनधर्मभावाल्लिङ्गिनि लिङ्गस्यासम्भवो न सम्भवति तयोस्तत्रैव प्रधानोपसर्जनभावेन परस्परं नियतभावत्वात् ।
अग्निमत्प्रदेशपरिचिच्छित्सायाम्
· तत्सम्बन्धिमत्प्रतिपत्तिश्च यदि च तस्य देशस्य तल्लिङ्गतां लभते, तयोरेकवस्तुधर्मत्वात् । नासम्भवन् धूमो लिङ्गतां लभते अपक्षधर्मत्वात् । वनस्पतिचैतन्ये खापवद् धूमः सन्देहहेतुः स्यात् पक्षाच्या पिसाधनधर्मत्वात् तत्प्रतिपत्त्याधानाधारधर्म भावात्मकप्रत्ययाव्यवस्थानकारणत्वात् स्थाणुपुरुष भावाभावप्रतिपत्तिवत् ।
६७७
धूमवत्त्वेन साधनं प्रत्यक्षधूमकत्वात् । तस्माद्विशिष्टदेश साध्यसाधनधर्मभावाद् लिङ्गिनि साध्ये लिङ्गस्य साधनस्य असम्भवो न सम्भवति, सम्भव एव सम्भवतीत्यर्थः । कस्मात् ? तयोस्तत्रैव प्रधानोपसर्जनभावेन परस्परं नियतभावत्वात्, अग्निः प्रधानं धूमनिर्वृत्तौ धूमस्याग्निपरिणामत्वात् तन्नि- 10 र्वर्त्यत्यात् । धूम उपसर्जनमग्निनिर्वृत्तौ तत्परिणामत्वाभावादतन्निर्वर्त्यत्वात् । धूमः प्रधानमन्निगतौ, तल्लिङ्गत्वात् तमन्तरेणानिर्वृत्तेरनुपपत्तेरविनाभावात् । उपसर्जनमग्निर्धूमगतौ, अप्रत्यक्षत्वात् तत्कालदेशयोः, अन्यथा भवत्येवेत्युक्तत्वात् तेनान्योन्यप्रधानोपसर्जनभावेन नियमेन भवन्तौ तौ धर्मावनिधूमाख्यौ देशस्यैकस्य भेदविवक्षायां साध्य - साधने भवतः ।
तद्वयाख्या- -अग्निमत्प्रदेशपरिचिच्छित्सायामित्यादि पूर्वं गमकत्वेन लिङ्गस्य धूमस्य प्राधान्यं 15 गम्यस्य लिङ्गिनोर्गुणभावं दर्शयति यावत् तत्सम्बन्धिमत्प्रतिपत्तिश्चेति । ततः परं यदि च तस्य देशस्येत्यादिना निर्वृत्तावग्नेः प्राधान्यं धूमाप्राधान्यं च यावत् तल्लिङ्गतां लभत इति । पक्षधर्मत्व-सपक्षानुगति - ४४२-१ विपक्षव्यावृत्तिरूपतां व्याख्याय धूमस्य पूर्वेणाग्निसाध्यतां गमयति । उत्तरेणाग्निविशिष्ट देशसाध्यत्वं व्याख्याय तद्बलनिर्वृत्तधूमप्रत्यक्षतायां त्रैलक्षण्येन गमकत्वं धूमस्य व्याचष्टे । तयोरेकवस्तुधर्मत्वादिति, एतदुक्तं भवति–सम्भवतोरेव लिङ्गलिङ्गिनोः साध्यसाधनभावोऽन्वयप्राधान्यात् नापोहप्राधान्यात् । न चेदिच्छसि 20 ततोऽनिष्टापादनसाधनम् - नासम्भवन् धूमो लिङ्गतां लभते, अपक्षधर्मत्वात् । त्वन्मतादेव सर्वलिङ्गिन्यसम्भवात् सिद्धमपक्षधर्मत्वम् । यत्र यत्रापक्षधर्मत्वं तत्र तत्र तल्लिङ्गत्वाभावः, यथा तस्मिन् प्रदेशेऽनभिधूमादेरधूमायोग्न्यादिकाले वा । किञ्चान्यत् प्राक्छब्दे व्याख्यातमधुना लिङ्गेऽप्युच्यते वनस्पतिचैतन्ये स्वापवदित्यादि । 'अग्निमानयं देशः धूमवत्त्वात्' इत्यस्मिन् साधने त्वदभिमत्या धूमः सन्देहहेतुः स्यात्, पक्षाव्यापि साधनधर्मत्वात्, तद्व्याख्या - तत्प्रतिपत्त्याधानेत्यादि दण्डकहेतुः । 25 तस्य प्रतिपत्तिस्तत्प्रतिपत्तिः, तस्या आधानं तत्प्रतिपत्त्याधानम्, तस्याधारो धर्मः, तस्य भाव आत्मा यस्य स भवति तत्प्रतिपत्त्याधानाधारधर्मभावात्मकः प्रत्ययो यथास्माभिर्व्याख्यातः । तस्य प्रत्ययस्याव्यवस्थाने कारणीभवति स धूमस्त्वन्मतेन पक्षाव्यापिसाधनधर्मत्वात् सर्वत्र लिङ्गिन्यभावादनियतलिङ्गि सम्भवत्वात् । किमिव ? स्थाणु- पुरुषभावाभावप्रतिपत्तिवत् । यथा स्थाणावभवन् वस्त्रसंयमनादिधर्मः पुरुषे च भवन
१ मत्प्रदेशपरिविच्छित्साया भा० । 'मत्प्रक्षेपरिविच्छित्साया य० ॥ २ यावलिंगतां य० ॥ ३ दृश्यतां पृ० ६८१ ॥ ४ न्यान्यापोह य० ॥ ५ न्यनुवेदमिच्छसि भा० । न्यननु चेदिच्छसि य० ॥ ६ प्रदेशमादेर्धूमायोश्यादि प्र० ॥ ७ पृ० ६६५ पं० १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org