________________
६७६
न्यायागमानुसारिणीवृत्त्यलङ्कतं [अष्टम उभयनियमारे अयोगुडाङ्गाराद्यग्नौ धूमासम्भवादिति चेत्, न, अग्निसत्त्वस्य सिद्धत्वात् तद्विषयलिङ्गालिङ्गत्वात् तदलिङ्गित्वात् प्रत्यक्षाविषयवत् । तदसिद्धौ पक्षधर्मादिनिर्मूलत्वात्।
'अत्र' इत्यभिधेयस्य लिङ्गित्वादग्निधूमवत्तयोश्च विभागविवक्षायां साध्य
5 साध्यत्वात् , इतरथा 'अत्र' इत्यनर्थको निर्देशः स्यात् , तस्मात् सर्वलोकप्रसिद्धेऽग्निमति प्रदेशे साध्ये सर्वत्र
धूमवत्त्वं लिङ्गमस्येव । न च सर्वाग्निमत्प्रदेशसाध्यत्वम् , तत्र दृष्टान्ताभावादसाधारणतादिदोषप्रसङ्गात् । ४४१-२ तस्मादस्ति सर्वत्र लिङ्गिनि लिङ्गमिति ।
अयोगुडाङ्गाराद्यग्नौ धूमासम्भवादिति चेत् । स्यान्मतम् – सर्वत्र लिङ्गिनि लिङ्गं नास्ति, अयोग्नौ गुडाग्नावङ्गारामौ च कन(ज्वल)त्स्वपि धूमस्य प्रत्यक्षत एवादर्शनादिति । एतच्च न, अग्निसत्त्वस्य 10 सिद्धत्वात् । न हि 'अग्निरत्र' इति प्रतिज्ञायां प्रतीतमग्निसामान्यं साध्यते, अग्निसत्तायाः प्रतीतत्वाल्लोके प्रत्यक्षोपलब्धधूमबलेन 'अत्र' इति देशविशिष्टस्याप्रत्यक्षस्य सिसाधयिषितत्वात् अयोगुडाङ्गारभस्मच्छन्नाद्यग्निष्वपि धूममात्रायाः कस्याश्चिद् दर्शनात् तदविनाभावात् । तद्विषयलिङ्गालिङ्गत्वादिति, अयोगुडाङ्गारादिविषयस्य लिङ्गस्य धूमस्यालिङ्गत्वात् असत्त्वादविवक्षितत्वादप्रत्यक्षत्वाद्वेत्यर्थः । तदलिङ्गित्वात्
प्रत्यक्षविषयवदिति, ते ह्ययोगुंडाङ्गाराद्यग्नयो न लिङ्गिनो लिङ्गाभावात् तेषां तस्यामवस्थायाम् , देशे च 15 तस्मिन्नतिज्ञातत्वात् । लिङ्यते च लिङ्गदर्शनबलेन लिङ्गि वस्तु । न हि ते लिङ्यन्ते "लिङ्गादर्शनाद् लिङ्गनिरपेक्षप्रसिद्धेश्च, यथा प्रत्यक्षोपलब्धिकाले । तस्मात् तेषामलिङ्गित्वात् प्रत्यक्षदलिङ्गं धूमस्तेषाम् । यत्र चासो लिङ्गं तत्र 'लिङ्गिनि देशे सिद्धत्वादेव लिङ्गम् , तंत्राऽसिद्धेरग्नित्वेन "देशे लिङ्गयेवेति ।।
स्यान्मतम्-अयोम्यादीनामप्यसिद्धत्वात् पक्षान्तर्गतत्वे सति उच्यते न सर्वत्र लिङ्गिनि अग्निमति दृश्यते धूम इति । एतदयुक्तम् , तदसिद्धौ पक्षधर्मादिनिर्मूलत्वात् , तेषामप्ययोग्न्यादीनां साध्यत्वे ___ 20धूमः सर्वत्र धर्मिण्यभावादव्यापी पक्षधर्मोऽसिद्धौ वनस्पतिचैतन्ये स्वापवत् स्यात् । देशविशेषानपेक्षाग्नि
*सामान्यसाध्यत्वे सपक्षाभावादसाधारणत्वम् 'अत्र' इत्यभिधानवैयर्थं च स्यात् । तन्मा भूदिति 'अत्र' शब्दवाच्यस्याग्निविशिष्टस्य धूमविशिष्टत्वेन स्वयमात्मनैव आत्मनः साध्यत्वात् साधनत्वाच्च लिङ्गित्वं लिङ्गत्वं चेत्यत आह-'अत्र' इत्यभिधेयस्य लिङ्गित्वादग्निमद्धमवत्तयोश्च विभागविवक्षायां साध्यसाधनधर्मभावादिति । स एव हि प्रदेशोऽग्निमत्त्वेन साध्योऽप्रत्यक्षाग्निकत्वात्,
१°गुंडागारा भा० । 'गुंडागारा' य० ॥ २ च सत्स्वपि धूमस्य' इत्यपि पाठोऽत्र स्यात् ॥ ३ऽप्रतीत प्र०॥ ४ अयोगुंडागारा° भा० । अयोगुडागारा य०॥ ५ वयोगुंडांगारा भा० । अयोगुंडागारा य० ॥ ६ अविवक्षि भा० ॥ ७ तदलिंगत्वात् प्र०॥ ८°गुंडांगारभा० । गुडागारा य० ॥ ९ तस्मिन् विज्ञातत्वात्' इत्यपि पाठो भवेत् । यदि त्वत्र लिंगेन सम्बन्धो विवक्षितस्तर्हि 'तस्मिन्न विज्ञातत्वात्' इत्यपि पाठो भवेत् ।। १०लिंगदर्शनाद प्र०॥ ११°वदिलिंगं भा० । °वतिलिंगं य० ॥ १२ लिंगिनिर्देशे भा०॥ १३ तत्रासिद्धे भा० । तत्रत्सिद्धे य०॥ १४ (देशो?)॥ १५ पक्षधर्मोऽसिद्धो' इत्यपि पाठः स्यात् । तथा चायं प्रतिज्ञाथैकदेशासिद्धो हेतु यः। दृश्यतां पृ० ६६५ टि. १॥ १६ * * एतचिहान्तर्गतः सामान्य' इत्यत आरभ्य ऽप्रत्यक्षाग्नि इत्यन्तः पाठो य० प्रतौ द्विर्भूतः॥ १७ दृश्यतां पृ० ६६६ दि० २॥ १८ श्वाविभाग भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org