________________
दिङ्गागप्रणीता पोहवादनिरासः ]
द्वादशारं नयचक्रम्
यन्ते तेsपि लिङ्गेन 'लिङ्गिनो येऽनुबन्धिनः । विशेषा न तु गम्यन्ते तस्यैव व्यभिचारिणः ॥ लिङ्गानुबन्धिनस्त्वर्था गमयन्ति न लिङ्गिनम् ।
यभिचाराद् विशेषास्तु प्रतीताः प्रतिपादकाः ॥ [प्र० १६३ समु० २१८३]
किमङ्गम्
. . . . . . . * ***
यत्तूक्तं नै सर्वत्र लिङ्गिनि लिङ्गं सम्भवति यथा अग्निरत्र धूमात् [ ] तदिदमयप्रेक्ष्यवादिता । यदि लिङ्गयेव तत् सर्वं कथं तस्य लिङ्गं नास्ति ? अथ नास्ति लिङ्गं कथं तद्वान् ।
६७५
अग्निधूमोदाहरणे च 'अग्निरत्र' इति निर्देशादग्निमत्त्वेन देशस्य साध्यत्वादग्निमति प्रदेशे सर्वत्र धूमवत्त्वं लिङ्गमस्त्येव ।
|| 5
तैरविनाभावाल्लिङ्गस्य । विशेषास्तौष - कारीषादयो न गम्यन्ते तस्यैव, व्यभिचारित्वाद् लिङ्गस्य विशेषैः सहादृष्टत्वात् । एवं लिङ्गस्यान्यव्यावृत्तं सामान्यं गमकम्, नाव्यावृत्तमन्यतः सत्त्वादि । लिङ्गिनः सामान्यं गम्यं निवृत्तमनग्न्यादिभ्योऽग्नित्वं सत्त्वादि चाग्नित्वानुबद्धमव्यभिचारादिति ।
लिङ्गे त्वयं पुनर्विशेषः-लिङ्गानुबन्धिनस्त्वर्था इत्यादिश्लोकः । पूर्वोदाहृताः सामान्यधर्माः सत्त्वादयो लिङ्गस्य धूमस्य न गमयन्ति, उक्तकारणत्वात् । विशेषास्तु केचिद् लिङ्ग्यविनाभाविन: 15 प्रतीताः प्रतिपादकाः पाण्डुत्व - बहुलत्वादय इति ।
एतत् पुनः कथं पूर्ववदलक्षणम् ? इत्यत आह- किमङ्गमित्यादि लोकत्रयं क्षेपप्रस्तारेणोपन्यस्तं समस्तस्य त्वदुक्तस्यार्थ जातस्य पूर्वोक्तेन ' न भवति, न भवति' इत्यभवनपरमार्थत्वात् खपुष्पवदर्भावेन गम्यगमक नियमो नास्त्येवेति गतार्थम् ।
10
किञ्चान्यत्, यत्तूक्तमित्यादि पूर्वपक्षप्रत्युच्चारणं यावद्धूमादिति । यत् स्वार्थस्यांशेऽपि दर्शनाद 20 गमकत्वं समर्थयतोक्तं 'न सर्वत्र लिङ्गिनि लिङ्गं सम्भवति' इति, तदिदमप्यप्रेक्ष्यवादितया, ४४१-१ न वादिता कौशलमित्यभिप्रायः । तद् व्याचष्टे - यदि लिङ्गयेवेत्यादि । लिङ्गमस्यास्तीति लिङ्गि, यदि तत् सर्व लिङ्गि भस्माङ्गारायगुडपाकाद्यग्न्याख्यं वस्तु कथं तस्य लिङ्गं नास्ति लिङ्गाभावे लिङ्गित्वस्यैवाभावात् ? मत्वर्थीयेनिर्देश्यस्य लिङ्गित्वाभ्युपगमादेव लिङ्गास्तित्वमित्यभिप्रायः । अथ नास्ति लिङ्गं कथं तद्वान् ? 'लिङ्गमस्यास्ति' इति लिङ्गवान् लिङ्गीत्यर्थः, मत्वर्थीयनिर्देश्यो न भवितुमर्हति सोऽर्थस्तन्नि- 25 मित्तत्वाभावादिति स्ववचनविरोधि ते वचनमिति ।
Jain Education International
अग्निधूमोदाहरणे चेत्यादि । इदं तावत् प्रष्टव्योऽस्ति - 'अग्निरत्र धूमात्' इति इदमः प्रत्यक्षविषयस्य प्रातिपदिकस्य सप्तम्यन्तनिर्देशे 'अत्र' इति प्रत्यक्षोपलभ्यधूमाधारप्रदेशाभिसम्बन्धो धूमवत्त्वाद्धूमादिति यथा 'अग्निरत्र' इति धूमाधार प्रदेशप्रत्यक्षनिर्देशादग्नेः परोक्षस्य जिज्ञासितत्वात् तद्वत्त्वेन देशस्य
For Private & Personal Use Only
१ (ये लिङ्गिन्यनुबन्धिनः ? ) ॥ २ दृश्यतां पृ० ४५७-२ ॥ ३ सांख्यकारिका युक्तिदीपिकायाम् [ पृ० ४५] उद्धृतमेतत् ॥ ४ दृश्यतां पृ० ६५२ पं० १३, पृ० ६६२ पं० १ ॥ ५ चाग्निनानु य० ॥ ६ स्वार्था प्र० ॥ ७ क्षेपप्रश्नारे भा० । प्रेपप्रस्तारे' य० ॥ ८ भावे गम्य भा० ॥ ९ पृ० ६५२ पं० १ ॥ १० नवाधिवाकौशल प्र० । ( न वादिवाकौशल ? ) ॥ ११ यनिर्देशस्य लिंगि मा० । 'यनिर्देश्य लिंगि य० ॥ १२ समाधार प्र० ॥
www.jainelibrary.org