________________
5
न्यायागमानुसारिणीवृत्त्यलङ्कृतं
[ अष्टम उभयनियमारे
यथा कृतकत्वादेर्न पक्षस्तेनैव न्यायेन न पक्षोऽन्यापोहवादिनः । एवं नास्य सपक्षो नासपक्षः ।
एवमनुमानमप्रमाणमेव, अतत्तत्प्रत्ययात्मकत्वात्, अलातचक्रधीवत् । शाब्दमपि नाप्रमाणान्तरम्, अप्रमाणमेवानुमानवत् ।
इदमपि चात एव पूर्ववदलक्षणं यत् त्वयोक्तम्
६७४
शब्दः,
एतस्य ग्रन्थस्योपरि उपसंहारग्रन्थः प्रागुक्तन्यायप्राण एव यथा कृतकत्वादेर्न पक्ष: 'अनित्यः अग्निरे' इति वा स्वार्थपरार्थयोस्तेनैव न्यायेन न पक्षोऽग्निविशिष्टो देशोऽनित्यत्वविशिष्टः शब्दो 10 वान्यापोहवादिनः ' न भवति न भवति' इत्यभवनपरमार्थत्वादुभयतोऽप्यभावमात्रत्वात् । तस्मिंश्चासत प्रदेश- शब्दादिधर्मिणि पक्षे कुतस्तस्य पक्षधर्म: ? इति पक्ष-धर्मो न स्तः । एवं नास्य सपक्षो नासपक्ष इति तथा भावितार्थमेव बहुधा ।
तथाङ्गं येन रूपेण लिङ्गिनं नातिवर्तते । तेनैवानेकधर्मापि गेमकं नेतरेण तु ॥
1
एवमनुमानमप्रमाणमेव, अतत्तत्प्रत्ययात्मकत्वात्, अलातचक्रधीवदिति । पक्ष-सपक्षाSeपक्षव्यवस्थानाद्धि त्रैलक्षण्यव्यवस्थातश्चानुमानप्रामाण्यमिष्यते । तदेवं पक्षाद्यतथार्थत्वात् 'अतस्मिंस्तदिति 15 प्रत्ययोऽनुमानम्' इति सुभावितार्थम् । तस्मादतत्तत्प्रत्ययात्मकत्वादनुमानमप्रमाणम्, अलातचक्रे भ्रमदृष्टेः पुंसोऽचक्रे 'चक्रम्' इति प्रत्ययवदिति । तस्मात् साधूक्तम्
४४०-२
अप्रमाणादनुमानात् परपरिकल्पितं शाब्दमपि नाप्रमाणान्तरं नार्थान्तरम्, अप्रमाणमेवानु20 मानवदिति प्रकृतोपसंहारार्थः ।
नाप्रमाणान्तरं शाब्दमनुमानात् तथाहि तत् ।
कृतकत्वाद्यपि स्वार्थमात्मापोहेन नाशयेत् ॥ इति ।
इदमपि चात एव पूर्ववदलक्षणम् । न प्रमाणान्तरं शाब्दम् [ प्र० समु० ५ १ ] इति लोक थान []क्षणं तथेदमपि लिङ्ग- लिङ्गिनोर्गमक-गम्यनियमार्थकम् । कतमत् तदिति चेत्, उच्यतेयत् त्वयोक्तम् तथाङ्गमित्यादि । लिङ्गमङ्गं धूम - कृतकत्वादि लिङ्गिनम् अग्न्यनित्यत्वादिविशिष्टं देश-शब्दादिमर्थ नातिक्रम्य वर्तते येन रूपेण, केन च नातिवर्तते ? 'धूम इत्यधूमो न भवति, कृतक इत्यकृतको 25 न भवति' इत्यधूमाकृत कनिवृत्यात्मना नातिक्रामति, तेनैव च रूपेणान्यतो व्यावृत्त्यात्मकेन गमयति, सत्त्व द्रव्याद्यनेकधर्मापि संस्तैस्तु व्यभिचारान्न गमयति सत्त्वादिसामान्यधर्मैरिति । एष तावद् गमकनियमः । गम्यनियमोऽपि गम्यन्त इत्यादि । लिङ्गिनः अनुबन्धिनः सामान्यधर्माः सत्त्व- द्रव्यत्वादयो गम्यन्ते
/
Jain Education International
प्र० ॥
१ ( गमतीतरैर्न तु ? ) ॥ २ रत्रेति रत्रेति वा प्र० ॥ ३ वान्यापोह प्र० ॥ ४ णमेव तत्तत्प्र ५ द्वि० ॥ ६ मिष्येते य० । दृश्यतां पृ० ६६६ टि० २ ॥ ८ यथा नक्षणं प्र० । ( यथाऽलक्षणं ? ) ॥ संस्तैस्त्वाद्यभि भा० । ( संस्तैस्तद्व्यभि° ) ॥
७ दृश्यतां पृ० ६७२ पं० ४ ॥ १० संस्तैस्त्वाव्यभि य० ।
९ तुलना - पृ० ६५३ पं० ५ ॥ ११ अनुबन्धनः सान्यधर्माः प्र०
॥
For Private & Personal Use Only
www.jainelibrary.org