________________
६७३
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम्
गुणसमुदायो हि धूमाख्योऽर्थः [बहलपाण्डुत्वाद्यानन्त्ये च धूमत्वाभावः, तस्मात् तद्वारेणानुमानासम्भव इति तदेकलक्षणतापि नैव] कुत एवान्यापोहः, अगृहीतब्राह्मणाब्राह्मणार्थाप्रतिपत्तिवत् । एवं तावद्भूमार्थ एव न निश्चीयते, किं पुनर्यत्रासौ वर्तते?
__ यच धूमोऽग्निमत्प्रदेशधर्म इति तदपि नन्वल्पबहुताप........ गुणसमुदायोऽसौ, नाग्निदेशौ नाम कौचिदपि स्तः । तज्ज्ञानाभ्यां तु तदर्थाध्यारोपणेन..................... "इत्यादि यावदन्योपादानमात्मनश्च त्यागः। सपक्षासपक्षयोरप्येवमेव यावदात्मनश्च ।
स्थाण्वस्थाणुविषयविज्ञानरहितस्य ग्राह्यस्य [ दर्शनाभावादप्रतिपत्तिनिरन्वयत्वात् तथा धूम इत्यधूमो न भवतीति ।
10 तद्व्याख्या -[णसमुदायो हीत्यादि पूर्ववदेव भावनीयं पाण्डुत्वाद्यक्षरविशेषं यावत् कुत ३९-२ एवान्यापोहः, अगृहीतब्राह्मणाब्राह्मणार्थ(र्था)प्रतिपत्तिवदिति साधनेनैव भावितमप्रतिपत्तित्वम् । एवं तावद्भूमार्थ एव न निश्चीयते, किं पुनर्यत्रासौ धूमो गुणसमुदाये परमार्थेऽग्नौ वर्तते ? सोऽपि न निश्चीयतेऽग्निरित्यर्थः । ताभ्यां चाग्निधूमाभ्यां ततोऽन्ययोरनम्न्यधूमयोरपोहौ स्याताम्, तदभावात् कुतस्तावपि ? इति ।
15 __ यच्च धूम इत्यादि *धर्मेऽग्नौ सिद्धे तद्वति प्रदेशे च धर्मिण्यग्निमति सिद्धेऽग्निमत्प्रदेशधर्मो धूमः सिध्येत् , तत् सर्वमसिद्धमिति तदर्शयति तदपि नन्वल्पबहुतापेत्यादि* समासदण्डको यावद् गुणसमुदायोऽसौ, नाग्निदेशौ नाम कौचिदपि स्त इति तमेव तदुक्तं न्यायं दर्शयति ।
तज्ज्ञानाभ्यां त्विति अग्निदेशज्ञानाभ्यां तदर्थाध्यारोपणेनेत्यादिना तमेवाशेषमतीतं ग्रन्थमतिदिशति यावदन्योपादानमात्मनश्च त्याग इति पँन्थावधिं च दर्शयति समानप्रचर्चत्वादिति । एवं तावत् 20 पक्षधर्मस्य चानुपपत्तिाख्याता 'किं भवदेव भवति उताभवत्, अन्यदनन्यत् , अपोहश्च गुणसमुदायपरमार्थश्च स्वार्थः' इत्यादिविकल्पैरात्मापोहात् । सपक्षासपक्षयोरप्येवमेवेत्यतिदिशति, तैरेव विकल्पैर्विचार्यमाणयोः सपक्षासपक्षयोरप्यभावात् । सपक्षासपक्षावपि भवन्तावेव भवत उताभवन्तौ अन्यानन्यावपोह्यो(हौ) गुणसमुदायस्वार्थों 'चेत्यादिविकल्पैरात्मापोह इति समानत्वात् । आ कुत आरभ्य ग्रन्थ इति चेत्, उच्यते-किमन्यत्वे न सामान्य-भेद-पर्यायवाच्यनुत् ? विधिः । ननु इत्येतस्माद् ग्रन्थावधेरा-25 रभ्यातीतो ग्रन्थो योज्यः । कियदैवधिरिति चेत् , उच्यते-इंदमस्मिन्नन्तरे यावदात्मनश्चेति । ४४०-१
१तुलना-पृ. ६६८ पं० ७, पृ. ६७१ पं० ४ ॥ २ पृ. ६५७ इत्यत्र कदाचिद् भवेदतिदिष्टः पाठः ॥ ३ ग्राह्यस्पर्शनाभावा प्र.॥ ४ तुलना-पृ० ६६८ पं० ५ पृ. ६७१ पं. ३॥ ५पाण्डुरत्वाद्य भा० ॥ ६ * * एतचिह्नान्तर्गतः पाठो य० प्रतौ नास्ति ॥ ७ग्रन्थाविधिं य० । ग्रन्थाविविधि भा०॥ ८वनन्यापोह्यो भा० । वन्यापोह्यो य० ॥ ९ वेत्यादि इति सम्यग् भाति ॥ १० पृ० ६३७ पं० ५-पृ० ६३८ पं० १॥ ११ बाध्यतुत् प्र०॥ १२ न तु प्र० ॥ १३ दवधेरिति प्र० ॥ १४ इयम य० ॥
नय०८५ Jain Education International For Private & Personal Use Only
www.jainelibrary.org