________________
६७२
न्यायागमानुसारिणीवृत्त्यलङ्कतं [अष्टम उभयनियमारे अथ च भवति ज्ञानं ततः प्राप्ते प्रत्यक्षे शाब्दलैङ्गिकेऽपि ज्ञाने, अन्वयव्यतिरेकवियुततथ्यज्ञानत्वात् अविकल्पकत्वात्, सन्निकृष्टार्थवत् । अत इदं पूर्वापरासमीक्षयैवोक्तं न प्रमाणान्तरं शाब्दमनुमानादिति ।
नाप्रमाणान्तरं शाब्दमनुमानात् तथाहि तत् । 5. कृतकत्वाद्यपि स्वार्थमात्मापोहेन नाशयेत् ॥
यदि न प्रमाणान्तरं [शाब्दमनुमानात्, तथाहि-तत् स्वार्थमन्यापोहेन भाषते] कृतकत्वादिवत् ततोऽन्यापोहार्थकृता दोषा न शब्द एवैकस्मिन् , किं तर्हि ? तद्विधदोषजालोपनिपातसम्बन्ध्येव तेऽनुमानमपि । नन्वेवं कृतकत्वाद्यप्यनुमानं खार्थमात्मापोहेन नाशयेदेव, अन्यापोहेन ........", अन्यापोहशब्दार्थवत् । 10 धूम इत्यधूमो न भवतीति निरन्वया प्रतिपत्तिरप्रतिपत्तिरेव, ग्राह्यदर्शनरहितत्वात् स्थाण्वस्थाण्वप्रतिपत्तिवत् ।
अथ च भवति ज्ञानमिति । विनाप्यन्वयव्यतिरेकाभ्यां भवति ज्ञानम् 'धूमोऽयम् , अग्निरयम् , वृक्षोऽयम्' इति । ततः किम् ? ततः प्राप्ते प्रत्यक्षे। कतमे ते प्राप्ते ? शाब्द-लैङ्गिकेऽपि ज्ञाने प्रत्यक्षे ४३९-१ एव प्राप्नुतः । कस्मात् ? अन्वयव्यतिरेकवियुततथ्यज्ञानत्वात् अविकल्पकत्वात् सन्निकृष्टार्थ15वदिति व्याख्यातो(ता)र्थसङ्ग्रहः । साधनं स्वार्थपरार्थानुमानयोः शाब्दलैङ्गिकयोः प्रत्यक्षत्वासञ्जनं गतार्थम्।
किञ्चान्यत् , अत इदमित्यादि । 'स्वप्रतिपाद्यवस्तुधर्मत्वे सति अन्वयव्यतिरेकाभ्यां तस्य गमकत्वात् अनुमान शाब्दम् , नानुमानादन्यत् प्रमाणम्' इत्येतदपि अत एव पूर्वापरासमीक्षयैवोक्तम् , अन्वयव्यतिरेकरहितत्वस्योक्तत्वात् प्रत्यक्षत्वस्योपंपादितत्वात् ।
एष तु पाठो घटमान उपलक्ष्यते-नौप्रमाणान्तरमित्यादि श्लोकः । यदि न प्रमाणान्तरमि20 त्यादि तदेव प्रत्युच्चारयति यावत् कृतकत्वादिवदिति । ततोऽन्यापोहार्थत्यादि दोषोपन्यासः । न शब्द एवैकस्मिन्निति यथा मयोक्ताः शाब्दप्रत्यक्षप्रसङ्गादिदोषाः अन्यापोहार्थकृताः केवले, किं तर्हि ? तद्विधदोषजालोपनिपातसम्बन्ध्येव तेऽनुमानमपि । तत् कथमिति चेत् , तर्हि तदेवं प्रकाश्यते-नन्वेवं कृतकत्वाद्यप्यनुमानं स्वार्थ परार्थं वा त्रिलक्षणं लिङ्गं शब्दवदुक्तविधिना स्वार्थमात्मापोहेन नाशयेदेव, न न नाशयति, इयं प्रतिज्ञा । हेतुः-अन्यापोहेनेत्यादि गतार्थः, दृष्टान्तश्च यावदन्यापोहशब्दार्थ25 वदिति साधनम् ।
तस्य भावना साधनम्-धूम इति अधूमो न भवति इति निरन्वया प्रतिपत्तिरप्रतिपत्तिरेवेति प्रतिज्ञा । ग्राह्यदर्शनरहितत्वादिति हेतुः । स्थाण्वस्थाण्वप्रतिपत्तिवदिति दृष्टान्तः, यथा
१ पृ.६७४ ॥ २ 'ग्राह्यधूमदर्शन' इत्यपि पाठोऽत्र भवेत् । ( ग्राह्याग्राह्यदर्शन ?॥) ३°संग्रहः स्वार्थपरार्थ य० ॥ ४ पयादित्वात् भा० । पयाचितत्वात् य० ॥ ५ नाप्रमाणमित्यादि य० ॥ ६ ( शाब्द ?)॥ ७ शब्दिप्रत्यक्ष भा० । ( शाब्दे प्रत्यक्ष° ?)॥ ८ चेत् एतर्हि भा० ॥ ९ इति धूमो भा० ॥ १० प्रतिपत्तिरेवेति य० ॥ ११ ग्राह्यामदर्शन प्र० । 'ग्राह्यधूमदर्शन' इत्यपि पाठोऽत्र भवेत् । (ग्राह्याग्राह्यदर्शन ? ग्राह्यस्य दर्शन ?)॥ १२ स्थाण्वप्रतिपत्ति भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org