________________
६७१
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् । विरुद्धोऽपि तेऽनुमानं स्यात् उक्तवत् । शब्दोऽपि वा नानुमान विरुद्धवत् । व्यर्थतैव वा, स्वार्थस्याप्यभावोऽनध्यवसायवद् विपर्ययवद्वा । अग्निरत्र धूमादिति खार्थानुमाने गुणसमुदायो हि धूमाख्योऽर्थः । बहलकुटिलत्वाद्यानन्त्ये च धूमत्वाभावः । तस्मात् तद्वारेणानुमानासम्भव इति तदेकलक्षणतापि नैव, कुंत एवान्यापोहः ?
पक्षधर्येव वा धर्मस्याधारः प्राप्नोतीति तस्मिन्नेव वृत्तिः स्यात् पक्षधर्ममात्र- 5 लक्षणा, न तुल्यान्वयात्मिका । अन्यत्र च वृत्तौ सत्यां व्यतिरेकाकाङ्क्षा स्यात् । सा तु सपक्षाभावान्नास्तीत्यन्वयव्यतिरेकाभावः।
शब्दोऽपि वा नानुमान विरुद्धवदिति शब्दस्यानुमानत्वाभावे लिङ्गस्यापि प्राप्तमेवा[न]नुमान[त्वम् ], द्वयोरपीत्यभिप्रायः ।
व्यर्थतैव वेत्यादि शब्दवद् लिङ्गस्य वैयर्थ्य प्राग्व्याख्यातविधिना योज्यम् । स्वार्थस्येति 10 पक्षधर्ममात्रस्याप्यभावोऽनध्यवसायवत् म्लेच्छशब्दज्ञानवत् , 'विपर्यय[व] द्वेति विरुद्धज्ञानवत् । तद् भावयति-अग्निरत्र धूमादित्यस्मिन्नपि स्वार्थानुमाने गुणसमुदायो हि धूमाख्योऽर्थ इति, वृक्षस्य मूलादिकोटराद्यानन्ये वाच्यत्वाभाववत् बहल-कुटिलत्वाद्यानन्त्ये च धूमत्वाभावः ज्ञातसम्बन्धत्वा-४३८-२ भावात् संवृतिमात्रत्वाञ्च समुदायस्य तदर्थागतेः । तस्मात् तद्द्वारेणा[न]नुमानमित्यलक्षणं लिङ्गं स्वार्थमात्रस्यापीति । इति तदेकलक्षणतापि नैव, इत्थमुक्तं स्वार्थमात्रालक्षण त्वम् । स्वार्थमात्रालक्षण]त्वे 15 कुत एव तस्यागृहीतत्वात् ‘स भवति धूमो नाधूमोऽन्यो भवति' इतिविषयत्वादुभयप्रतिपत्तेरभावेऽन्याभावादन्यापोहः ? कुतः ‘अग्निरियन ग्निर्न भवति, धूम इत्यधूमो न भवति' इति च ? दूरत एवैतन्न घटॉमियति ।
पक्षधर्येव वेत्यादि । यथैव 'वृक्ष एव, न कश्चित् सपक्षः' इति प्रसञ्जिता शब्दार्थवृत्तिस्तथा 'अग्निः' इति पंक्षो धर्मी धूमस्य धर्मस्याधारः प्राप्नोति अनुमेयत्वादिति सपक्षस्य तुल्यादेरभावः, तदभ्युपगमे 20 पक्षाभावः प्रागुक्तशब्दानुमानविषयवत् , इति तस्मिन्नेव वृत्तिः स्यात् पक्षमात्रे सपक्षाभावात् । सा कीदृशी ? इति चेत्, उच्यते-पक्षधर्ममात्रलक्षणा । किमुक्तं भवति ? न तुल्यान्वयात्मिका, अन्वयार्थाभावाद् न स्याद् वृत्तिः । अन्यत्र "चेत्यादि, पक्षधर्मस्य चान्यत्र सपक्षे सत्यां वृत्तौ तुल्ये 'तद्वदतुल्येऽपि वृत्तिः स्यात्' इत्याशङ्काया व्यावृत्तये व्यतिरेकाकाङ्क्षा स्यात् , सा तु सपक्षस्यैवाभावान्नास्ति व्यतिरेकाकाङ्क्षा । तस्मादन्वयव्यतिरेको न स्तः ।
25
१ तुलना पृ० ६६८ पं. ६॥ २ तुलना-पृ० ६६८ पं० ७, पृ. ६७३ पं०२॥ ३'पक्षधम्र्येव च धर्मस्याधारः' इत्यपि भवेत् पाठः ॥ ४व्यर्थत्तेत वे प्र०॥ ५भावो.........नध्य य० ॥ ६विपर्ययद्वेति भा० । विपर्ययाद्वेति य०॥ ७ तुलना पृ० ६५२ पं० १४, पृ० ६६८ पं. ५, पृ. ६७३ पं० १॥ ८°भावावत् भा० । भावात् य० ॥ ९ 'तस्मान्न तद्वारेणानुमानम्' इत्यपि पाठो भवेत् ॥ १०°मात्रत्वालक्षण य० ॥ ११ तस्य गृ भा०॥ १२ नाधमोन्यो न भवति य०॥ १३ °मियत्ति प्र०॥ १४ पक्षधयेच वेत्यादि प्र. । ( पक्षधर्येव चेत्यादि ?)॥ १५ पक्षो धर्मा भा० । पक्षधर्मो य०॥ १६ नेत्यादि य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org