________________
६८४
न्यायागमानुसारिणीवृत्त्यलङ्कतं [अष्टम उभयनियमारे ततः स्वामिसम्बन्धित्वात् स्वस्य स्वाम्यायत्तत्वादुत्तरकालं स्मृतिरनर्थिका । अथान्यथा, तन्नोक्तम् । [प्र० समु० वृ० २।३७] इति ।
अत्र ब्रूमः-न किञ्चिदत्र नोक्तम् । तत्सम्बन्धिप्रत्यक्षात् तथैवानुमानाव
यदि स्वस्वामिभावेन प्रत्यक्षः सम्बन्ध्येकस्ततो द्वितीयस्य स्वस्य स्वामिनो वा तेन सहैव गतत्वादेन्योन्या5 पेक्षत्वाच्च सम्बन्धस्य शेषसिद्ध्यर्थं स्मृत्यानर्थक्यम् । दृश्यते च स्मृतिबलेन शेषसिद्धिः । तस्मात् स्वत्वादिप्रत्यक्षत्वादयुक्तमुक्तम् । अथान्यथा, अथ मा भूदेष दोष इति स्वस्वामित्वादिभ्योऽन्येन केनचित् प्रकारेण प्रत्यक्षः सम्बन्ध्येकः ततस्तत्सम्बन्धस्मरणादनुमानमिति मन्येथाः तन्न भवति तस्य प्रकारस्यानुक्तत्वात्
'स्वस्वाम्यादिभावेन सम्बन्धात्' इति वचनात स्व-स्वामिभावेन वा प्रकृति-विकारभावेन वा कार्य४४६-१ कारणभावेन वा निमित्त-नैमित्तिकभावेन वा मात्रा-मात्रिकभावेन वा [सहचरिभावेन वा] वध्य-घातक10 भावेन वा कश्चिदर्थः कस्यचिदिन्द्रियस्य प्रत्यक्षो भवति इति तेभ्योऽतिरिक्तस्यावचनादेतेषामेव वचनादिति ।
एतस्मिन् परोक्ते दोषजाते परिहारं ब्रूमः-न किञ्चिदैत्र नोक्तम् । वक्तव्यमशेषमुक्तमित्यभिप्रायः । प्रतियोगिनि सिद्धे सम्बन्धस्मृतेरानर्थक्यम् । अथान्यथा, तन्नोक्तमिति तुल्यम् । न, तस्येत्यादि । अनुमेयस्थमिति । धर्मिणि धूमादेः सत्त्वमात्रं गृह्यते, न सम्बन्धित्वमिति । कदा तर्हि तद् गृह्यत इत्याह-पश्चादित्यादि । अव्युत्पन्नस्य तद्गतेरिति वखामिसम्बन्धाद्यनभिज्ञस्यापि शेषप्रतिपत्तरित्यर्थः । कथं पुनस्तद्गतिरित्याह-दृष्ट इत्यादि । कार्यकारणभावसम्बन्धे हि यथा कार्यकारणभावसम्बन्धः शास्त्रे विवेचितः तथैवाप्रतीतत्वमत्र विवक्षितम् , न सर्वथेति वेद्यम् । शास्त्रे ह्येकस्यैव भावस्य स्वरूपात्यागात् परिणामेन कार्यकारणभावो व्यवस्थाप्यते। य एवं कार्यकारणभावसम्बन्धं न प्रतिपादयन्ति तेऽप्यन्यथा तं प्रतिपद्य अविनाभावित्वमात्रोपलब्धेरनुमेयं निश्चिन्वन्ति । शास्त्रदृष्टः कार्यकारणभावोऽनुपपन्न एव । यस्मात् कार्यकारणयोरेकत्वे इदं कार्यमिदं कारणमित्येतदेव न स्यात् । अथ तयोर्येनैवं स्वभावातिशयः कश्चिदस्ति, भेदप्रसङ्गः। सत्त्वादिष्वपि स्वभावभेद एव भिन्न प्रकारान्तरकारणम् । ननु कार्यकारणभावत्वे सत्यपि न भेदः, त्रैगुण्यजात्यभेदादेकत्वमिति चेत् ; न, कार्यकारणाभ्यां भिन्नस्य त्रैगुण्यस्यानुपलक्षणात् । नित्यस्य क्रमेण युगपद्वा परिणामो न सम्भवति । ततस्तत्कारणवत्कार्यकारणव्यवस्था कुत इत्यलं प्रसङ्गेन । स्यादेतत्-सोऽगृहीत एव तदनुमानस्य कारणमित्याह-नेत्यादि सुगमम् । नावश्यमित्यादि । ननु खस्वरूपसिद्धिः स्वाम्यपेक्षव, तद्वयभिचारः कुत इति चेत्, अयमाशयः-अनुमानकाल एव खत्वेन गृहीतं लिङ्गं प्रतियोगिनं प्रतिपादयति, आहोस्वित् सम्बन्धग्रहणकाले तथा परिच्छिन्नमनुमानकाले चान्यथोपलभ्यमानमिति । यद्यनुमानकाले 'इदमस्य स्वम्' इत्येवं निश्चित गमकमिष्यते, अत्रोक्तो दोषः-स्वामिसम्बन्धित्वात् स्वत्वस्य [पृ० ६८३ पं० ३१] इत्यादिना। तस्माद् द्वितीयं दर्शनमभ्युपगन्तव्यम् , ततश्च व्यभिचारः, स्वस्वामिनोः परम्परया व्यतिरेकभावसम्भवात् तथाऽनुमातुं न शक्यते-अत्रात्मना तत् पूर्व स्वत्वेन गृहीतं तस्माद् यत्रेदमस्ति तत्रास्य स्वामी नियमेन भवितुमर्हतीति। भूपतेः सम्पत्त्याद्यभावेऽपि केवलस्य छत्रादेरधिपत्यभावे च दर्शनसम्भवात् । एवमन्यत्रापि यथासम्भवं व्यभिचारः कल्पनीयः । स्यादेतत्-स्वस्वामिभावादिना सर्वः सम्बन्धो न गमकः, किं तर्हि ? यत्राव्यभिचार इत्याह-उपलब्धसम्बन्धस्य नेत्यादि । यदि यथोक्तसम्बन्धग्रहणेऽपि पुनर्लिङ्गस्य व्यभिचारित्वमव्यभिचारित्वं चापेक्षते ततोऽविनाभावित्वमेवानुमानस्य कारणं भवेत् , न स्वस्खाम्यादिसम्बन्धाः । अविनाभावस्यानुमानकारणत्वे स्यादेतत् , स यथोक्तसम्बन्धे सति भवति, ततो निर्देश इति चेत्, तदयुक्तम् , तस्मिन् सत्यपि तदभावात् सम्बन्धस्याविशिष्टत्वादिति निमित्तनैमित्तिकसम्बन्धो द्विष्ठ इति स यथैकत्र तथा द्वितीयेऽपीति उभयत्र गमकभावः स्यात् ।"-VT. P. ed. पृ० १३६ A-१३८ A ॥ ३'भवितव्यमेवेति' इति 'भवितव्यमिति' इति वा पाठः सम्यक् प्रतीयते ॥ ४ विश्रब्ध य० ॥ ५ घटवदिति य० ॥ ६ स्य प्रत्यक्षस्येविवक्षः प्र० ॥ ७ दिसंयोगिसंयोगिनां भा० । 'दिसंयोगिनां इत्यपि पाठोऽत्र भवेत् ॥ ८ पर्यनुयुज्यता यदुक्तं भा० ॥ ९ दोषयुक्तम् य० ॥
१ प्रत्यक्षतः य० ॥ २ दन्योपेक्ष य० । दृश्यतां पृ० ६८५ पं० २६ ॥ ३ दयुक्तम् । अथा भा० ॥ ४ ततस्तंबंध भा० । तत् संबंध य० । ततः सम्बन्ध इति तत्सम्बन्ध इति वा पाठोऽप्यत्र समीचीन एव ॥ ५ वार्षगणतन्त्रभाष्येऽभिहितमिदम् । दृश्यतां पृ० ६८५ पं. ३, २०, टि. १, पृ० २४० पं० १२॥ ६°दत्त प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org