________________
5
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् ।
६८५ तारणात् । द्वयोस्तु सम्बन्धिनोरुपलब्धे सम्बन्धेऽन्यतरप्रत्यक्षत्वोत्तरकालमुपलब्धचरसम्बन्धानुसारिणी स्मृतिः किमित्यनार्थका स्यात्, अग्यपेक्षधूमवत् ?
___ एवं च कृत्वोक्तम् --कश्चिदर्थः कस्यचिदिन्द्रियस्य प्रत्यक्षो भवति । तस्मादिदानीमिन्द्रियप्रत्यक्षादर्थात् पूर्व समुदाये कृतसम्बन्धमतिरविशिष्टस्यार्थस्यास्तित्वं प्रतिपद्यते, यथा पूर्व धूमाग्योः सम्बन्धं दृष्ट्वा धूमदर्शनादग्नेरस्तित्वं प्रतिपद्यते [ ] इति । ___यत्तु तेन प्रत्युच्यते-लिङ्गग्रहणे तुल्यमिति चेत् [प्रै० समु० वृ० २।३७ ], तत् तथैव । अहमप्येवं ब्रुवे-लिङ्गिसम्बन्धित्वाल्लिङ्गस्य [लिङ्यपेक्षमेव लिङ्गत्वमिति यदि लिङ्गं गृहीतं तेन सहैव ] लिङ्गी गृहीतः । अथान्यथा, तन्नोक्तम् । यस्मादुक्तभेदात् सम्बन्धादनुमानम् , तच्च तत्सम्बन्धिप्रत्यक्षात् एकस्मात् प्रत्यक्षात् [ ] इति वचनात् तेनैव प्रकारेणानुमानावतारणात् । तत्र्याचष्टे-द्वयोस्तु सम्बन्धिनोरित्यादि यावदग्न्यपेक्ष-10 धूमवत् । यथा धूमः प्रत्यक्ष एको बहुल-वर्तुलोर्द्ध-पाण्डुत्वादिविशेषेणाम्यविनाभाविरूपेण विशिष्टः प्रत्यासन्ने देशेऽग्निं गमयति विशेषाणामविनाभाविनां गमकत्वादश्वस्याभरण-मर्दनप्रियत्वादिविशेषाश्चैत्राविनाभाविनश्चैत्रं सम्बन्धादेव गमयन्ति तथा चैत्रस्य वा विशेषा आरोहक-पोषक-तद्गुणरक्तत्वादयोऽश्वाविनाभाविनोऽश्वं गमयन्त्येवेत्युपलब्धे सम्बन्धेऽन्यतरप्रत्यक्षत्वोत्तरकालं 'यत्रायं प्रत्यक्षोऽश्वश्चैत्रो वा तत्रेतरोऽपि' इति या उपलब्धचरसम्बन्धानुसारिणी स्मृतिः सा किमित्यनर्थिका स्यात् ? नैवानर्थिकेत्यर्थः । 15 किमिव ? अग्न्यपेक्षधूमवत् । यथाग्निजन्यात्मलाभो धूमः प्रोक्तविशेषयुक्तोऽग्नेः सम्बन्धस्मरणात् प्रत्यक्षोऽप्रत्यक्षस्य सम्बन्धिनोऽनुमानायालम् , अग्निर्वा प्रत्यक्षोऽप्रत्यक्षस्य तत्परिणामत्वाद् भावि-भूतदेशकालसम्बन्धी सम्बन्धिन एवैकस्य प्रत्यक्षत्वात् सम्बन्धा(द्धा)देकस्मात् प्रत्यक्षाच्छेषसिद्धिरनुमानम् [ ] इति वा पाठात् सम्बन्धिन एव प्रत्यक्षस्य समानाधिकरणोक्तेः । __एवं च कृत्वोक्तमित्यस्यैव लक्षणस्य भाष्यं ज्ञापकमाह कश्चिदर्थः कस्यचिदिन्द्रियस्य प्रत्यक्ष 20 इत्यादि सामान्यवाचिना किंवृत्ते न] यावदग्नेरस्तित्वं प्रतिपद्यत इति । अवशिष्टस्याविशिष्टस्येति वा ४४६-२ पाठः, अवशिष्टस्य अप्रत्यक्षस्य, अविशिष्टस्य दर्शनकालतुल्यस्य तद्देशवर्तिनो वेति । शेषो गतार्थो ग्रन्थः ।
____ यत्तु तेनेत्यादि । 'स्वामिसम्बन्धित्वात् स्वस्य स्वाम्यपेक्षमेव स्वत्वमित्युत्तरकालं स्मृतेरानर्थक्यं प्राप्तम्' इत्यत्र तेन आन्यापोहिकेन प्रत्युच्यते परमतमाशङ्कय - लिङ्गहणे तुल्यमिति चेत् । स्यान्मतम्'स्मृतेरानर्थक्यं स्व-स्वाम्यादिसम्बन्धिप्रत्यक्षत्वात्' इत्येतल्लिङ्ग-लिङ्गिनोः सम्बन्धाविशेषात् समानं दोषजातमिति । तत् तथैव, यद्येष दोषः स्यात् स्वस्वाम्यादित्वे लिङ्गेऽपि स्यादेवायं लिङ्गलिङ्गिनोरन्योन्या-25 पेक्षत्वात् । अथ तत्र नेष्यते, स्वस्वाम्यादिष्वपि मा भूदिति सुष्ठच्यते-अहमप्येवं वे, कस्मात् ? लिङ्गि
१ वार्षगणतन्त्रभाष्येऽभिहितमेतदिति प्रतीयते । दृश्यतां पृ० २४० पं० १२ टिपृ० ७८ पं० १९ । तुलना “कश्चिदर्थः कस्यचिदिन्द्रियस्य प्रत्यक्षो भवति' इति भाष्यवचनात् ।"-विशाला० D. ed. पृ० ११९ B॥ २ दृश्यता पृ० ६८३ टि०२॥ ३ दृश्यतां पृ. २४० पं० ११॥ ४ वर्तलोद्वपाण्डु भा० । वर्तलोचपाण्डु य० ॥ ५ संबंधिन्यतर प्र० । 'सम्बन्धिनीतर इत्यपि पाठोऽत्र स्यात् ॥ ६ मानावालामग्निर्वा प्र० ॥ ७°णामद् य० ॥ ८ संबंधादेक प्र० ॥ ९ दृश्यतां पृ. २४० पं० ११॥ १० समाधिक भा० ॥ ११ अविशिष्टस्याविशिष्टस्येति भा० । अविशिष्टस्या विशिष्टश्चेति य० ॥ १२ अविशिष्टस्य प्र० ॥ १३ तुल्यस्यातद्देश य० ॥ १४ तुलना पृ० ६८४ पं० १॥ १५ ग्रहे तुल्य य० ॥ १६ °त्वादत्र तत्र प्र० ॥ १७ ब्रूते प्र० ॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org