________________
न्यायागमानुसारिणीवृत्यलङ्कतं [अष्टम उभयनियमारे __ यत्तुच्यते-ने, तस्य सम्बन्धित्वेनाग्रहणात् । लिङ्गमनुमेयस्थं पूर्व धूमादित्वेन गृह्यते पश्चात्तस्याझ्यादिभिरविनाभावित्वं स्मर्यते [प्र० समु० वृ० २।३७] इति । तदिहापि तुल्यम् , अनुमेयस्थं [वं पूर्व गृह्यते पश्चात् तत्रस्थश्चैत्रोऽविनाभावीति स्मयते] न तद्देशसम्बन्धीति, देशादिस्थानग्निधूमवत् । 5 यत्तक्तम्- 'स्वस्वाम्यादिसम्बन्धाच्छेषसिद्धिरनुमानम्' इत्ययुक्तमिदम् , कस्मात् ? अव्युत्पनस्य तद्गतः । दृष्टः स्वस्वाम्यादिसम्बन्धानभिज्ञानामपि अविनाभावित्वमात्रोपलब्धेनिश्चयः, न चागृहीतः सम्बन्धोऽनुमानस्य कारणम् , ज्ञान कारणत्वेन तस्य ज्ञापकत्वात् [प्र० समु० वृ० २॥३७] इति।
एतदयुक्तम्, अविनाभावित्वस्य सहचरिभावसम्बन्धत्वात् तस्मादपि यो निश्चयः सोऽपि स्वाम्याद्यर्थव्युत्पन्नानामेव भवति तदादित्वात् सहचरिभावस्य ।
10 सम्बधित्वाल्लिङ्गस्येत्यादि तत्तुल्यत्वप्रदर्शनं गतार्थं यावद् लिङ्गी गृहीत इति । अथान्यथा तन्नोक्त. मिति, यथान्यांस्त्वमुद्धट्टयसि स्वाम्यादित्वेनाग्रहणेऽन्यथा ग्रहणं चेत् तन्नोक्तमिति तथा वयमपि त्वामुद्धदृयामः-अन्यथा लिङ्गे ग्रहणं स्वस्वाम्यादिषु अन्यथेति चेन्मन्यसे तन्नोक्तमिति ।
अत्र यत्तूच्यते त्वया-मा मंस्था लिङ्गग्रहणे तुल्यमिति, लिङ्गे त्वस्ति विशेषः-न, तस्य सम्बन्धि[त्वेनाग्रहणात् । न हि लिङ्गं सम्बन्धित्वमात्रेण गृह्यते, किं तर्हि ? अनुमेयदेशस्थं धूमादित्वेन 15 पूर्व गृह्यते, पश्चात् तस्याग्न्यादिभिरविनाभावित्वं स्मर्यते, आदिग्रहणाच्छब्दस्य कृतकादित्वेन प्राग्
ग्रहणं पश्चादनित्यत्वाविनामावित्वेन स्मर्यत इति सर्वत्र व्यापीति । अत्रोच्यते-तदिहापि तुल्यमित्यादि । ४४. तत्तुल्यत्वभानम् – अनुमेयस्थमित्यादि यावन्न तदेशसम्बन्धीति गतार्थम् । देशादिस्थाननिधूमवदिति
दृष्टान्तः, यथाऽग्निरभवन धूमो देशादिस्थः प्राग् गृह्यते प्रत्यक्षोऽप्रत्यक्षाग्नेरन्यत्वात् ततः पश्चात् 'अग्निरिह' इत्यनुस्मयते तथाश्वः स्वं चैत्रादन्यो गृह्यते प्रामादिस्थः ततः पश्चात् तत्रस्थश्चैत्रोऽविनाभावीति स्मर्यते 20 'इहाग्निः' इति धूमसम्बन्ध्यग्निस्मरणवदिति तुल्यमिति ।
यत्तूक्तमित्यादि । 'स्वस्वाम्यादिसम्बन्धेन सम्बन्धाच्छेषसिद्धिरनुमानम्' इत्यस्य लक्षणस्य दोषस्तेनोक्तः, अत्र ब्रूमः-अयुक्तमिदम् । कस्मात् ? अव्युत्पन्नस्य तद्गतेरित्यादि तन्मतप्रत्युच्चारणं यावज्ज्ञापकत्वादिति, स्वस्वाम्यादिसम्बन्धानभिज्ञा अपि धूमादग्निमविनाभावसम्बन्धाद् निश्चिन्वन्तो
दृश्यन्ते, स च मा भूदगृहीतसम्बन्धत्वान्निश्चयः, ज्ञानकारणत्वं हि ज्ञापकस्य हेतोर्लिङ्गादेहीतस्वरूपस्य 25 नोत्पादकबीजादिवदिति ।
- एतदयुक्तम् । कस्मात् ? अविनाभावित्वस्य सहचरिभावसम्बन्धत्वात् , न विना भवति सह भवति सह चरतीत्येकोऽर्थः । तस्मादपि सहचैरिभावसम्बन्धाद् यो निश्चयः सोऽपि स्वाम्याद्यर्थव्युत्पन्नानामेव भवति, नाव्युत्पन्नानाम्। कस्मात् ? तदादित्वात् स्वस्वाम्यादित्वात् सहचरिभावस्य, सप्तानां सम्बन्धाना
१ दृश्यतां पृ० ६८३ टि० २॥ २ तुलना-पृ० ६८४ पं० १॥ ३ ग्रहणतुल्य प्र०॥ ४ भावम् य० ॥ ५ प्रत्यक्षे प्रत्यक्षाग्ने प्र०॥ ६ संबंधात्वान्नि भा०॥ ७°जादिति भा०॥ ८सहचारि प्र० । दृश्यता पृ० ६९६ पं० १६॥ ९चरतीत्यर्थः य० ॥ १० चरितभावसंबंधत्वाद् य० ॥ ११ स्वाम्यादित्वात् सहचरितभावस्य य०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org