________________
दिमागप्रणीतापोहवादनिरासः] द्वादशार नयचक्रम् ।
६८७ अविनाभावगम्यातिरिक्तार्थविषयत्वेन तु सहचरिभावादृतेऽपि स्वस्खाम्यादिसम्बन्धव्युत्पन्नबुद्धेरेवानुमानं दृश्यते । तद्यथा-काकभवन-तत्स्वीकृततत्प्रसवकाल-तत्कृतनीडप्रसवा-ऽण्डभेद-विवृद्धि-पोषण-काकशावकसहचरण-काकीपृष्ठगमनानि न कारणानि कोकिलत्वज्ञानस्य व्यापित्वाविनाभाविरूपोपेततायामपि वस्वामिभावप्रत्यवगमनादारात् । पश्चात् तत्प्रतिपत्तिः वखामिसम्बन्धेन भवति । 'कोकिलशावकोऽयम् , तत्वभाषासमन्वितत्वात् , इतरकोकिलवत् ।'
एवं स्वस्खाम्यादिसम्बन्धा अनुमापकाः, अनुमेयव्यक्तिकाले तथोपलभ्यमानत्वात्, तत्प्रसिद्धलिङ्गवत् । मन्यतमत्वात् तस्यापि । स च सहचरिभावोऽविनाभावो गृह्यमाण एवानुमानकारणं ज्ञातज्ञानोत्पत्तिहेतुत्वाज्ज्ञापकस्य । तस्मादविनाभावसम्बन्धज्ञानं स्वस्वाभ्याद्यन्तःपाति व्युत्पन्नानामेव नाव्युत्पन्नानामिति । 10
__ अथवा विनाप्यविनाभावित्वेन स्वस्वाम्यादिव्युत्पत्तेरनुमेत्यत आह-अविनाभावगम्यातिरिक्ता... र्थविषयत्वेन त्वित्यादि यावदितरकोकिलवदिति साधनेनोपसंहारोऽस्यार्थस्य ।
व्यापको यः स एवांशो ग्राह्यो व्याप्यस्तु सूचकः । अनेकधर्मणो न्यो ग्राह्य ग्राहकधर्मणोः ॥[
] इत्येतल्लक्षणवैपरीत्येन सहचरिभावादृतेऽपि स्वस्वाम्यादिसम्बन्धव्युत्पन्नबुद्धेरेवानुमानं दृश्यते, तद्यथा- 15 काकभवनेत्यादि समासदण्डको व्यापक-व्याप्यत्वाभ्यां सहचरिभावप्रदर्शने यावद् व्यापित्वाविनाभाविरूपोपेततायामपीति, काकाजन्म व्यापीति तत्स्वीकृतस्तत्प्रसवकालः, तत्कृतनीडप्रेसवः, अण्डभेदः, विवृद्धिः, काकेन काक्या च पोषणं वात्सल्येन, तस्य द्वितीयेन काकशावकेन सहचरणम् , काक्याः पृष्ठतो गमनमित्येतानि पूर्वपूर्वकाणि व्यापकानि साध्यानि उत्तरोत्तराणि व्याप्यानि साधकाभिमतानि अविनाभावसम्बन्धीनि धर्मान्तराणि सन्त्यपि न कारणानि तानि कोकिलत्वज्ञानस्य । यावदा कुतः ? स्वस्वामिभाव-20 प्रत्यवगमनादारात्, यावत् स्वस्वामिसम्बन्धं नावैति तावत् कोकिलत्वाप्रतिपत्तेः पश्चात् तत्प्रतिपत्तिः स्वस्वामिसम्बन्धेन भवति, तत उत्तरकालं 'कोकिलशावकोऽयं न काकशावकः' इति परित्यज्याविनाभाव्यभिमतांस्तांस्तान् धर्मान् व्यापकान् व्याप्यांश्च तथा लोके प्रतिपत्तारो वक्तारश्च भवन्ति, 'कोकिलशावकोऽयम्' इत्यनुमिमते च तत्स्वभाषासमन्वितत्वात् विशिष्टमाधुर्योपेतस्वरत्वात् , इतरकोकिलवदिति । आदिग्रहणात् स्वस्वामिसम्बन्धवत् प्रकृतिविकारादिशेषसम्बन्धा अपि व्युत्पन्नानामेवानुमानकारणम् । 25
अतोऽत्र साधनं संहतार्थमुच्यते-एवं स्वस्वाम्यादिसम्बन्धा अनुमापका इत्थमुक्तन्यायेन ।" कस्मात् ? अनुमेयव्यक्तिकाले तथोपलभ्यमानत्वात् , अनुमेयस्य अग्नि-कोकिला-ऽनित्यत्वादेरर्थस्य व्यक्तिकाले तेनैव स्वस्वाम्यादिप्रकारेणोपलभ्यमानत्वात् । किमिव ? तत्प्रसिद्धलिङ्गवत्, तेन तेन प्रकारेण प्रसिद्धं धूमादिलिङ्गं तस्य सम्बन्धिनोऽनुमापकमयादेः स्वस्वाम्यादिप्रकारेणैव सम्बन्धात्, यथा कोकिलशावकस्तज्जातीयानुकारिस्वरेणैवेति ।
१°नुमाकारण य० ॥ २ ज्ञातं ज्ञानोत्प य० । ३ स्वामित्वादि य० ॥ ४ काकाजन्मध्यापीति प्र. । ( काकजन्मव्यापीनि ?)॥ ५प्रसवोर्णभेदः प्र० ॥ ६ भावा प्रत्य प्र०॥ ७ पृ० ६८७ पं० १॥
४४८-१
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org