________________
न्यायागमानुसारिणीवृत्त्यलङ्कतं [अष्टम उभयनियमारे यदप्युक्तम्-ने चावश्यं सर्वत्र स्वस्वाम्यादीनामव्यभिचारः । तस्मात् सम्बन्धादनुमानं न भवति । उपलब्धसम्बन्धस्य न पुनरव्यभिचारापेक्षानुमितिर्युक्ता, तस्यैवाभिव्यञ्जकत्वापत्तेः [ प्र० समु० वृ० २।३७ ] इति, एतदपि न, शेषसिद्धिवचनेनाव्यभिचारिविधिवृत्तेरुपात्तत्वात्। इदं हि सर्वाभासव्युदासेन सम्बन्धानुमानविधानम् । प्रत्यक्षतरसम्बन्ध्यनुमेयः प्रत्यक्षाद्यविरुद्धार्थः पक्षो धर्मधर्मिसमुदायाख्यो निर्दोष एवानेन शेषसिद्धिवचनेन गृहीतः । यथायोग सम्बन्धादेकस्मात् प्रत्यक्षात् प्रत्यक्षवद्वा प्रसिद्धात् पक्षधर्मसम्बन्धाच्छेषेण शेषस्य सिद्धिरिति शेषसिद्धिवचनादेव विरुद्धासाधारणधर्मव्युदासः। सिद्धिवचनं साधारणानैकान्तिकवदसिद्धिर्मा भूदिति । असिद्धिय॑भिचारिधर्मता । तद्यथा-खाम्यसम्प्रदानचैत्रान्यथात्वम् ......"अतिप्रियसुतवत् । 10 किञ्चान्यत्-यदप्युक्तमित्यादि सम्बन्धवादिनो दोषवचनम् । न चावश्यमित्यादि प्रत्युच्चारणम् । एतदुक्तं भवति-स्वस्वाम्यादिसम्बन्धादनुमानं न भवति, तव्यभिचारार्थ विशेषाका नित्वात् उपलब्धेऽपि खे स्वामिनि वाश्वे चैत्रे वा स्वतन्त्रजीवदत्यन्तावियोगा आकाङ्कयन्ते । तेषामेवाव्यभिचारात् त एव हि अनुमापकाः स्युः, न स्वस्वाम्यादिसम्बन्धः सत्यपि तस्मिन्ननुमानाभावाद् व्यभिचारीति । एवं प्रत्युच्चार्य आचार्य उत्तरमाह-एतदपि न, शेषसिद्धिवचनेनाव्यभिचारिविधिवृत्तेरुपात्तत्वात् , सम्बन्धादे15 कस्मात् प्रत्यक्षाच्छेषसिद्धिरनुमानम् [ ] इत्यस्मिन् स्वार्थानुमानलक्षणे शेषसिद्धिवचनेन विधिवृत्तिरव्यभिचारिण्येवोपात्ता, तस्मादयमदोषः ।।
___ तत् कथमिति भाव्यत इति चेत् , उच्यते-इदं हि सर्वाभासव्युदासेनेत्यादि । पक्ष-हेतु-दृष्टान्ताभासाः सर्वे तेनैव सम्बन्धानुमानविधानेनापोद्यन्ते । प्रत्यक्षादितरः शेषः सम्बन्धी स्वादिना विशिष्यमाणो ४४८.२ देशादिः सम्बध्यतेऽनुमेयोऽनुमानाभासभेदैः प्रत्यक्षादिविरोधैरविरुद्धार्थः पक्षो धर्मधर्मिसमुदायाख्य उत्तरत्रा20 वय[व] विधाने परार्थानुमाने वीताख्ये 'साध्याभिधानम्' इति वक्ष्यमाणो निर्दोष एवानेन शेषसिद्धिवचनेन गृहीतः । यथायोगं स्व-स्वामि-निमित्त-नैमित्तिकादिषु तेन तेन सम्बन्धेन सम्बन्धात् प्रत्यक्षादिति प्रत्यक्षस्य धर्मादुपलब्धात् प्रसिद्धादिति यावत् । तत्रैको यः प्रत्यक्षः स पक्षधर्मः, शेषोऽनुमेयः । कृतकत्वाद्यप्रत्यक्षत्वादव्यापीति चेत् , अत आह-प्रत्यक्षवद्वा, प्रत्यक्षवत् प्रत्यक्षः प्रसिद्धः, तस्मात् प्रसिद्धत्वात् , सम्बन्धी पक्षधर्मोऽश्वः स्वम् , तस्य पक्षधर्मस्य सम्बन्धात् प्रागुपलब्धादनुस्मर्यमाणाच्छेषेण शेषस्य चैत्रस्य 25 सिद्धिरिति शेषसिद्धिवचनादेव विरुद्धासाधारणधर्मव्युदासः 'यत्र यत्राश्वः स्वं तत्र तत्र देवदत्तः स्वामी' इत्यत्यन्तावियोगादिसम्बन्धान्वययुक्तत्वात् सपक्षावृत्तिः विपक्ष एव वा वृत्तिः कुतः ? 'शेषाय शेषे वा प्रत्यक्षादेकस्मात् सम्बन्धात्' इत्येतावता सिद्धे सिद्धिवचनं 'सिद्धिरेव नासिद्धिः' इत्यवधारणात् 'प्रमेयत्वाद् नित्यः' इति साधारणानैकान्तिकवदसिद्धिर्मा भूदिति । का पुनरसिद्धिः ? व्यभिचारिधर्मता । तद्यथा-स्वाम्यसम्प्रदानेत्यादि यावदंतिप्रियसुतवदिति । चैत्रान्यथात्वं मरणम् । शेषं गतार्थम् ।
१ तुलना-पृ० ६८३ टि० २॥ २ मानं भवति प्र०॥ ३°न्तावियोषा प्र० ॥ ४ चारविधि प्र० ॥ ५ नमेवोनुमा भा० । नुमेवानुमा य० ॥ ६ तत्रैवकायः प्र०॥ ७ 'अथवा केचिदेवमाहुः-एकम्मात् प्रत्यक्षादिति प्रत्यक्षशब्दोऽयं प्रसिद्धत्वस्योपलक्षणम् । प्रत्यक्षात् प्रसिद्धादित्यर्थः ततः प्रत्यक्षात् प्रत्यक्षकार्याच्चान्यस्यापि ज्ञानस्य विषये लिङ्गे प्रत्यक्षव्यपदेशो भवति ।”-विशालामलवती P. ed, पृ० १३५ B-१३६ A ॥ ८ दितिप्रिप्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org