________________
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् ।
६८९ .. इत्थं हि व्यभिचारिविशेषव्यावर्तनेनापि स एव सम्बन्धी गमकः सम्बन्ध्यन्तरस्य । न ते विशेषा गमकाः, तत्समर्थनार्थत्वात् । न हि वात्याप्रसङ्गव्यावर्तनेन धूमस्य व्यञ्जकत्वम् , बह्येव ह्यवात्या घटपटादि; न हि तद्वदग्नेरगमको धूमः। न वाऽवात्येति व्यञ्जकमग्नेर्भवितुमर्हति घटपटाद्यधूमतायामसत्यामेव । धूमतैव हि सती वह्नितायाः व्यञ्जिका। ____तथा कृतकत्वस्य [ अनित्यत्वोपलब्धसम्बन्धस्य ] अनित्यत्वाव्यभिचारप्रदर्शनार्थ व्यतिरेक उच्यते । यद्युपलब्धसम्बन्धस्य पुनरव्यभिचारित्वापेक्षमनुमानं न स्यात् व्यतिरेकवचनं न स्यात् । नापि च तस्यैवाभिव्यञ्जकत्वमापद्यते । तथा च कृतकत्वस्यानित्यत्वोपलब्धसम्बन्धस्य पुनरव्यभिचारापेक्षानुमितियुक्ता, तस्यैवा
इत्थं हि व्यभिचारिविशेषव्यावर्तनेनापि स एव सम्बन्धी धूमादिरश्वादिर्वा गमकः 10 सम्बन्ध्यन्तरस्य प्रत्यक्षोऽनुमेयस्य द्वितीयस्यैकः सम्बन्ध्यन्तरस्य सम्बन्धित्वात् । न ते विशेषा व्यावा विधेया वा गमकाः तत्समर्थनार्थत्वात् , यथा न हि वात्याप्रसङ्गव्यावर्तनेन धूमस्य व्यञ्जकत्वम् , 'अधूमो वात्या, सा न भवत्ययं धूमः' इति वात्यायां निवर्तितीयामग्नेन गमको भवति धूमो यत्रादृष्टस्तद्वय ४४९-१ वच्छेदमात्रेण, यस्माद् बैह्वेवावाल्या घट-पटादि, न हि तद्वदग्नेरगमको धूमः, न वाऽवायेति व्यञ्जकं गमकमग्नेर्भवितुमर्हति घंटपटाद्यधूमतायामसत्यामेव, किं तर्हि ? धूमतैव हि सती वह्निताया: 15 सम्बन्धिनी सम्बन्धिन्या व्यञ्जिकेति । तस्माच्छेषसिद्धिवचनाद् निरस्तव्यभिचाराशङ्क सम्बन्धानुमानमेव प्रत्यक्षैकत्वविशेषणाभ्यां निरस्तसर्वाभासम् ।
किञ्चान्यत् , त्वयापीष्यत एतत् प्रसिद्धसम्बन्ध्येवाप्रसिद्धसम्बन्धिनो गमक(कं य दव्यभिचारस्वरूपावधारणार्थं व्यभिचारिविशेषव्यावृत्तिरुच्यत इत्यतस्तत्प्रदर्शनार्थमाह तथा कृतकत्वस्येत्यादि । 'अनित्यः शब्दः, कृतकत्वात् , यद् यत् कृतकं तत् तदनित्यम्' इति सम्बन्धविधिना प्रदर्य 20 कृतकत्वस्यैवानित्यत्वाव्यभिचारप्रदर्शनार्थं यदनित्यं न भवति तत् कृतकमपि न भवति' इति व्यतिरेक उच्यते, यापलब्धसम्बन्धस्य पुनरव्यभिचारित्यापेक्षमनुमानं न स्यात् व्यतिरेकवचनं पक्षधर्मसाध्यानुगतिसमर्थनार्थं न स्यात् , तत्तु दृष्टम् , नापि च तस्यैव व्यतिरेकवचनस्याभिव्यञ्जकत्वमापद्यते । तथा च एवं च कृत्वास्मन्न्यायेन कृतकत्वस्यानित्यत्वोपलब्धसम्बन्धस्य व्यतिरेके पुनरव्यभिचारापेक्षाऽनुमितियुक्ता, न तु त्वन्मतेन । किं कारणम् ? तस्यैवाभिव्यञ्जकत्वव्यक्तः, योऽसौ पुनरव्य-25 भिचारः स तस्यैव पक्षधर्मस्याभिव्यञ्जकत्वमभिव्यनक्ति, न स्वयमेवानुकंपा(कम्पते )। तथेहापीति ४४९-२
१ धूमस्याव्यञ्जकत्वम् प्र० ॥ २ तायामग्नेर्नामको भा० । “तामग्नेर्नामको य० ॥ ३ वह्वेवावात्या य० । बवाल्या भा० ॥ ४ विधिरूपा धूमतैव गमिका, न त्वधूमताया अभावः। न हि वात्यादिगता या अधूमता तदभाववत्त्वेऽपि घटपटादेरनिगम कलं दृश्यते । तस्माद् धूमतैव गमिके याशयः । यदि त्वयमाशयो न रोचते तदा 'न वाऽवात्येति व्यञ्जकं गमकमग्नेर्भवितुमर्हति घटपटादि धूमतायामसत्यामेव' इति पाठः कल्पनीयः ॥ ५न्यां व्यञ्जकेति भा० । 'न्यां व्यञ्जकतेति य० ॥ ६गमकमुदव्यभि प्र० ॥ ७'नार्थना स्यात् प्र० ॥ ८ ( स्वयमेवाभिव्यञ्जकः ? स्वयमेवाभिव्यनक्ति ?)॥
नय० ८७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org