________________
६९० न्यायागमानुसारिणीवृत्त्यलङ्कृतं
[अष्टम उभयनियमारे भिव्यञ्जकत्वव्यक्तेः । तथेहापि, चैत्राश्वोदाहरणं स्वस्वामिसम्बन्धस्योपलक्षणार्थमग्निधूमानित्यकृतकत्वादिषु । सोऽत्र, तद्वत्सत्त्वात् , पूर्ववत् ।
नन्वेवमविनाभावोपवर्णनमेवेदम् । एवमेवैतत्, आधाराधेयसंयोगिवद्वृत्त्यभेदात् त्वदुक्तस्य व्यावर्तितत्वादस्मदभिहितेस्तु पूर्वत्वात् । त्वया न ज्ञातमनुमान5 स्वरूपं सत् मया ज्ञातम् । यथा त्वमाह तथा सम्बन्धानुमानकदेशस्य भाष्यमात्रमेवेदम्, तदनतिरिक्तार्थत्वात्, वृद्धिरादैजर्थव्याख्यानवत् । एवं च द्रव्याथासत्यो
तत्साधर्म्य योजयति । चैत्राश्वेत्यादि, यञ्चैत्राश्वोदाहरणमत्रानुमानलक्षणभाष्ये तत् स्वस्वामिसम्बन्धस्योपलक्षणार्थमग्निधूमानित्यकृतकत्वादिषु तुल्यन्यायत्वात् । सोऽत्र स इत्यप्रत्यक्षोऽग्निचैत्रानित्यत्वादिधर्मः 'अत्र' इति प्रदेशे प्रत्यक्षाद् धूमाश्वकृतकत्वादेः पक्षधर्मात् साध्यार्थः पक्षोऽवगम्यताम् । तद्वत्सत्त्वादिति 10 हेतुः, सोऽस्मिन् सम्बन्धी वह्निचैत्रशब्दादिरस्तीति तद्वान् धूमाश्वकृतकत्वादिः, स एव धर्मः सन् तस्य भावात् तद्वत्सत्त्वात् । यत्र यत्र तद्वत्सत्त्वं तत्र तत्र सोऽस्ति, पूर्ववत्, यथा पूर्वोत्तरधूमादिरम्यादिना सम्बन्धात् तत्स्वामिक एव तेथेहापीत्येवमादीनामुपलक्षणार्थं चैत्राश्वोदाहरणमिति ।
अत्राह-नन्वेवमविनाभावोपवर्णनमेवेदम् । नन्वित्थमविनाभावसम्बन्धो मदिष्ट एव, अव्यभिचाराकाङ्क्षानुमानत्वादिति । अत्रोच्यते-वयमपि ब्रूमः-एवमेवैतत् अविनाभावसम्बन्धात् स्वस्खाम्यादि15 विकल्पादनुमानम् । कस्मात् ? आधाराधेयसंयोगिवद्वत्त्यभेदात् , आधाराधेयवद्वृत्तेः संयोगिवद्वत्तेश्चा
भेदात् यत्त्वयोक्तम्-आधाराधेयवदृत्तिस्तस्य संयोगिवन्न तु [प्र० समु० ] इति, तस्य व्यावर्तितत्वात् । किञ्चान्यत् , अस्मदभिहितेस्तु पूर्वत्वात् , दिन्न-वसुबन्ध्वादिभ्यो बुद्धाच्च पूर्वकालत्वात् कापिलस्य तन्त्रस्य आर्हतैकदेशनयमतानुहारित्वाच्च तदनुमानस्य तच्चास्मन्मतोपजीवनमेव । त्वया न ज्ञातमनुमानस्वरूपं सत् मया ज्ञातमिति । 20 तद्व्याख्या यथा त्वमित्यादि । भाष्यमात्रमेवेदमिति पक्षः, सम्बन्धानुमानैकदेशस्यैवैतल्लक्षणस्य ४५०-१ भाष्यमात्रं *त्वत्प्रयासफलम् , तदनतिरिक्तार्थत्वात् , यद् यतोऽनतिरिक्तार्थव्याख्यानं तत् तदेकदेशस्यैव
भाष्यमात्रम् यथा 'वृद्धिरितीयं संज्ञा भवति आदेचां वर्णानाम् , संज्ञाधिकारः संज्ञासम्प्रत्ययार्थः' इत्यादि वृद्धिरादैच् [पा० १।१।१] इत्यस्य, तथेदं त्वदीयमविनाभावसम्बन्धव्युत्पादनमस्मज्ज्ञातस्य सम्बन्धानुमानैकदेशस्य भाष्यमात्रम् , तदपि सर्वं न विदितमित्यभिप्रायः । कापिलमपि चास्मदुपज्ञमेव द्रव्यार्थविकल्पैक25 देशत्वादिति चाभिप्रायः । अत आह-एवं च द्रव्यार्थासत्योपाधिसत्यार्थव्याख्यानुज्ञा कृता त्वया 'सामान्योपसर्जनो विशेषः शब्दार्थः' इति द्रव्यार्थस्याप्यनुज्ञानादभ्युपगतं भवति द्रव्यार्थवादिमतार्जुमानलक्षणानुज्ञानात् । तस्यां चासत्योपाधिसत्यार्थव्याख्यानुज्ञायां 'लिङ्गिनो लिङ्गत्वं प्रसक्तम्' इत्यस्याभावः, न
१ इत्यत्रप्रत्यक्ष प्र. । (इत्यत्राप्रत्यक्षों)॥ २ तद्वानुमाश्च प्र.॥ ३स्वत्तस्य प्र०॥ ४(पूर्वोऽत्र धूमादि)॥ ५ तत्वेहा प्र०॥ ६ भावोपर्णन प्र०॥ ७वन्निति भा० । वन्निति य० । दृश्यतां पृ० ६७८ पं० ६॥ * * एतचिह्नान्तर्गतः पाठो य. प्रतौ नास्ति ॥ ९नुमानं लक्ष य०॥ १० तस्या प्र०॥ ११ दृश्यतां पृ. ६८२ पं० १६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org