________________
न
''"""
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् ।
६९१ पाधिसत्यार्थव्याख्यानुज्ञा कृता त्वया । तस्यां च नहि लिङ्गिनो लिङ्गत्वं प्रसञ्जयितुं शक्यम् ।
तथापि स्यात् विवक्षाभेदात् तथा तथा स्वखाम्यादिगम्यगमकत्वात् । तद्यथा देवदत्त यज्ञदत्तयोः संयुक्तयोरन्योन्यं लिङ्गत्वं लिङ्गित्वं च भवति तथा स्वस्वाम्यादिषु । तथाहि राज्ञो लाजपेयातरणं तत्करणाज्ञया... . . . . . . . . ।
न, संयोगित्व एकरूपत्वाद् अग्नितोऽपि धूमानुमितिप्रसङ्गः । तत्काल एव च धूमोऽस्ति । न, असम्भवात् । प्रत्यक्षत्वाद्भूमोऽसाध्यः, साध्यस्त्वग्निरप्रत्यक्षत्वात् संयोग्येकरूपत्वाचानिष्टापादनमनपेक्षितार्थम् । संयोगित्व...... ।
यत् पुनरिदमुक्तम्-यस्य त्वविनाभावित्वं सम्बन्धोऽभिमतस्तस्यायमदोषः [प्र० समु० वृ० २।३७] इति । अत्र गुणदोषाभिमान:
110 हि लिङ्गिनोऽप्रत्यक्षस्य लिङ्गत्वं प्रत्यक्षत्वं प्रसञ्जयितुं शक्यमृद्धिमद्भिर्बुद्ध-बोधिसत्त्वादिभिरपि यथोक्तोऽस्माभिरव्यतिकर इति ।
तथापि स्यादित्यादि । न हि लिङ्गस्य लिङ्गित्वे लिङ्गिनो वा लिङ्गत्वे कश्चिद् दोषोऽस्ति विवक्षाभेदात् तथा तथा स्व-स्वाम्यादिगम्यगमकत्वात् , स्वं वा गम्यत्वेन गमकत्वेन वा विवक्ष्येत स्वामी वा यदा तदा विवक्षितस्यान्यतरस्य गम्यत्वं गमकत्वं वा यथाविवक्षं दृश्यते, तद्यथा-देवदत्तेत्यादि 15 दृष्टान्तः, यथा कस्मिंश्चित् कालेऽन्यतरकर्मणा देवदत्तो यज्ञदत्तेन युक्तो भवति यज्ञदत्तो वा देवदत्तन तयोश्चान्योन्यं लिङ्गत्वं [लिङ्गित्वं ] च पर्यायेण विवक्षावशाद् भवति युगपद्वोभयकर्मजसंयोगित्वात् तथा ४५०-२ स्वस्वाम्यादिष्विति । तथाहीत्यादि राज्ञो विशेषितस्य लाजपेयातरणं तत्करणाज्ञयेत्यादि गतार्थमग्निना धूमानुमानमिति ।
____ अत्राह–न, संयोगित्वं एकरूपत्वादित्यादि । नाग्नेः पूर्व पश्चाद्वा धूमः संयोगी न धूमो 20 वाग्नेरिति मत्वाऽनिष्टमापाद्यते-अग्नितोऽपि धूमानुमितिप्रसङ्ग इति; किं तर्हि ? तत्काल एव चाम्युपलब्धिकाल एव 'धूमोऽस्ति' इति भवत्येवानिष्टापादनमिदं व्यतिकरप्रसङ्ग इति ।
अत्रोच्यते-न, असम्भवात्, न सम्बन्धाविशेषादग्निलिङ्गत्वं [धूमलिङ्गित्वं] च प्राप्तम् , किं तर्हि ? प्रत्यक्षत्वाद्धमोऽसाध्यः साधनं तु, साध्यस्त्वग्निरप्रत्यक्षत्वादनुमेयत्वादसाधनम् । धूमोऽपि साध्यश्चेत् प्रत्यक्षमप्रमाणं स्यात् तदप्रामाण्ये चानुमा निर्बीजा स्यात् । 'अनुमितिः' इत्यपशब्देन परानुकरणं 25 दोषश्चैष स्यादिति । किश्चान्यत् , संयोग्येकरूपत्वानुमानाच्चानिष्टापादनम् 'अग्नितोऽपि धूमानुमानप्रसङ्गः' इति यदेतद् भवत्साधनमेतदैनपेक्षितार्थम् । तत्प्रदर्शनार्थ साधनम्-संयोगित्वेत्यादि गतार्थमनिष्टापादनम् ।
यत् पुनरिदमित्यादि स्वपक्षे दोषाभावप्रदर्शनार्थं यदुक्तं त्वया यस्य त्वविनाभावित्वमित्यादि
१ दृश्यतां पृ० ६८३ टि० २ ॥ २ दृश्यतां पृ० ६८३ टि० २ ॥ ३ मद्भिर्बुधबोधि प्र० ॥ ४ °व्यतिकरमिति य० । व्यति भा० ॥ ५ म्यादीगम्य प्र०॥ ६°श्चान्यलिंगत्वं य० ॥ ७ वाजपेयाप्र० ॥ ८ तत्कारणाप्र० । दृश्यतां पृ० ६९५ पं० १५॥९°त्वरूपत्वा य० ॥ १० नमितिदं य० ॥ ११ वात् सत्यं बंधाविशे प्र० ॥ १२ °दनुपेक्षि य० ॥ १३ पुनरित्यादि य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org