________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतं [अष्टम उभयनियमारे अग्र्यादिसम्बन्धी ...........लिङ्गी ।
इत्थमुक्त्वा यत् पुनरिदमुच्यते–'अग्नितोऽपि धूमानुमितिप्रसङ्गः' इति न्यायदिग्मूढेन तत्। इह देशसाध्यतामुक्त्वा लिङ्गिलिङ्गतत्त्वव्यवस्थानवृत्तेरेवं वक्तव्यम्
अग्निमतोऽपि धूमवदनुमाप्रसङ्गः................. उभयतोऽपि तन्मतुबर्थस्य तथा 5 तथेष्टवद्वत्तेः । धूमविषय एतदेव स्यात् । अथ(त्र) पुनर्नास्ति दोषगन्धोऽपि । धूमवत्त्वस्य हि लिङ्गत्वं युक्तम् , लिङ्गित्वमपि तद्देशविवक्षाया अग्निमत्त्वविशिष्टस्य देशस्यैव । न ह्यग्निमत्त्वस्य युक्तं लिङ्गत्वं साध्यत्वात् । अत एव मया तत्प्रधानमेवोच्यते-अग्नितोऽपि धूमानुमितिप्रसङ्ग इति ।
10 यावददोष इति । वयं तु ब्रूमोऽत्र गुणदोषाभिमान इत्यादि साध्य-साधनधर्मवद्देशाद्यनुमेयत्वमुक्त्या
पुनस्तस्यैव दोषाभिधानादप्रत्यभिज्ञातम् अग्न्यादिसम्बन्धीत्यादिना त्वयैवाभ्युपगतमिति दर्शयति तस्यैव देशस्य लिङ्गत्वं [लिङ्गित्वं ] च न धर्मयोरग्निधूमयोरिति यावद् लिङ्गीति त्वन्मतमेवेदमिति प्रत्यभिज्ञापयति ।
___ इत्थमुक्त्वा यत् पुनरिदमुच्यते-अग्नितोऽपि धूमानुमितिप्रसङ्ग इति, न्यायदिग्मूढेन 15 तदिति । कथं पुनरमूढा ब्रुवत इति चेत्, बूंमस्त्वां शिक्षा ग्राहयन्तः, तद्यथा-इह देशसाध्यतामुक्त्वा "लिङ्गिलिङ्गतत्त्वव्यवस्थानवृत्तरेवं वक्तव्यमित्यादि, तां न्यायव्यवस्थामनुवर्तमानेन त्वयेत्थं वक्तव्यम् अग्निमतोऽपि धूमवदनुमाप्रसङ्ग इत्याद्युपदेशग्रन्थो यावदुभयतोऽपि तन्मतुबर्थस्य तथा तथेष्टवद्वत्तेरिति तत्कारणोक्तिम् । धूमविषय एतदेव स्याद् धूम एव देशविशेषानपेक्षोऽनुमापकः स्यादग्निरेव वानुमेयस्तदाऽग्नितो धूमानुमानं धूमादग्न्यनुमानवत् स्यात् प्रसङ्गः संयोगिनोरविशेषात् । अंथ पुनर्देशस्य 20 साध्य-साधनत्वान्नास्ति दोषगन्धोऽपीति ।
___ तद् भावयति-धूमवत्त्वस्य हीत्यादि । धूमवत्त्वधर्मविशिष्टस्य देशस्यैव लिङ्गत्वं युक्तम् , धूमवत्त्वेन सिद्धस्य तस्य साधकत्वात् । 'लिङ्गित्वमपि तद्देशविर्वक्षाया हेतोः अग्निमत्त्वविशिष्टस्य देशस्यैव लिङ्गित्वं युक्तम् । अग्निविषये तु देशे लिङ्गत्वं न युक्तम् , किं कारणम् ? न ह्यग्निमत्त्वस्य
युक्तं लिङ्गत्वं साध्यत्वात् , साध्यत्वं लिङ्गित्वात् , लिङ्गित्वमसिद्धत्वात् । अस्मन्मतेन तु "लिङ्गत्वमपि 25 अग्निमत्त्वविशिष्टस्य देशस्यैव शक्यं भावयितुम् , अग्निप्रत्यक्षत्वे धूमाप्रत्यक्षत्वे च कदाचित् । अत एव मया तत्प्रधानमेव देशप्रधानमेवोच्यते-अग्नितोऽपि धूमानुमितिप्रसङ्ग इति ।
. १ दृश्यतां पृ० ६८३ टि० २ ॥ २ 'धूमवत्त्व[विशिष्ट]स्य हि देशस्यैव लिङ्गत्वं युक्तम्' इत्यपि पाठोऽत्र स्यात् ॥ ३ ब्रूवस्त्वा शिक्षा प्र० ॥ ४ लिंगिलिंगितत्त्व य० । लिङ्गलिङ्गितत्त्व इत्यपि पाठोऽत्र भवेत् ॥ ५ तन्मतु. पर्यस्य भा० । तन्मनुपर्यस्य य० ॥ ६ तत्कारणोक्तिं प्र. । (तत्कारणोक्तिः ?)॥ ७'एतदेवं स्यात्' इत्यपि भवेत् पाठः ॥ ८'अत्र' इत्यपि भवेत् पाठः । 'अथ पुनर्देशस्य साध्यसाधनत्वं नाति दोषगन्धोऽपीति' इत्यपि पाठः सम्भवेत् ॥ ९लिंगत्व प्र०॥ १०वक्षया य०॥ ११ लिंगित्वमपि प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org