________________
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम्।
नन्वेवं देशमुपेक्ष्याग्नेरेव लिङ्गित्वं स्यादनुमेयत्वात् । न चासो लिङ्गी भवितुमर्हति लोके सिद्धत्वादननुमेयत्वात् । तथा चोक्तम्-.
न धर्मी धर्मिणा साध्यो न धर्मस्तेन धर्म्यपि ।
धर्मेण धर्मः साध्यस्तु साध्यत्वाद्धर्मिणस्तथा ॥ [ प्र० समु० ३।१३] उपचारादेवेदमुच्यत इति चेत्, अत्र तत्त्वं मृग्यते, सुहृत्सूपचारः......... 5 साध्यत्वाद्धर्मिणस्तथा।
एवं त्वग्निमद्देशस्य लिङ्गत्वम्, धूमवत्त्वसाधकलिङ्गानन्यत्वात् , धूमवत्त्वखात्मवदेव ।
अत्राह–नन्वेवं देशमुपेक्ष्य अनादृत्य अग्नेरेव लिङ्गित्वं स्याद् भवितुं योग्यम् । कस्मात् ? अनुमेयत्वादिति । अत्रोच्यते न चासौ लिङ्गी भवितुमर्हति अग्निः, कस्मात् ? लोके सिद्धत्वात् , 10 अतोऽननुमेयत्वात् ।
तथा चोक्तं त्वया यथास्मन्मतं 'धर्मविशिष्टो धर्म्यव साध्यः साधनं च' इत्यत्र त्वद्वचनमेव ज्ञापकम् । न धर्मी धर्मिणेत्यादि श्लोकः । न धर्मी धर्मिणा साध्यो यथाग्निधूमेन, सिद्धत्वादग्नेस्तद्धर्म-४५१-१ त्वाभावाद् धूमस्य । न धर्मो ‘धर्मिणा' इति वर्तते, यथाग्निनोष्णस्पर्शः, सिद्धत्वात् तद्धर्मत्वाभावाच्च । तेन धर्म्यपि तेन धर्मेणाऽनन्तरनिर्दिष्टेन 'विभक्तिपरिणामनिर्देशात् धर्म्यपि न साध्यः, यथा-अस्ति 15 प्रधानम् , भेदानामन्वयदर्शनादिति, धर्म्यसिद्धेरेव धर्मासिद्धेः । पारिशेष्याद् धर्मेण धर्मः साध्यस्तु । ननु धर्मयोरपि परस्परं धर्मत्वासिद्धिर्धर्मित्वाभावे, तस्मादयुक्तं साध्य-साधनत्वमिति । नेत्युच्यते साध्यत्वाद्धर्मिणस्तथा, तेन प्रकारेण तथा अनेकधर्मणो धर्मिणो वस्तुनः सिसाधयिषितधर्मविशिष्टस्य साध्यत्वात् सिद्धधर्मविशिष्टस्य साधनत्वात् । तथा चाह-साध्यत्वापेक्षया चात्र धर्म-धर्मिव्यवस्था न गुण-गुणित्वेनेत्यदोषः [ ] इति ।
उपचारादेवेदमुच्यत इति चेत् । स्यान्मतम्-सत्यम् , परमार्थतो लिङ्गलिङ्गिभाव एकस्य वस्तुनः सिद्धसाध्यधर्मविशिष्टस्य तथापि उपचारकृताद्धर्मभेदाद् भिन्नमिवाभिन्नमप्युच्यते इति । एतच्चायुक्तम् , यस्मादत्र तत्त्वं मृग्यते सुहृत्सूपचार इत्यादि यावत् साध्यत्वध(त्वाद्ध)र्मिणस्तथेति गतार्थ सव्याख्यानम् । तस्थात् सिद्धमग्निमत्त्व-धूमवत्त्वविशिष्टस्यैव देशस्य लिङ्गत्वं लिङ्गित्वं च ।
__तदुपसंहृत्य त्वां प्रति यदसिद्धं प्रस्तुतमग्निमदेशलिङ्गत्वं तत् साधयामः । तद्यथा-एवं तु अग्निमद्दे-25 शस्य लिङ्गत्वमिति प्रतिज्ञा । हेतुः-धूमवत्त्वसाधकलिङ्गानन्यत्वादिति । दृष्टान्तः-धूमवत्त्वस्वात्मवदेव, यथा धूमवत्त्वं स्वात्मा देशस्य तदनन्यत्वात् लिङ्गं तथानिमत्त्वस्वात्मा तदनन्य[त्वा देशस्य ४५२-१ लिङ्गमेव, तदनन्यत्वं च प्रतिपादितमेवेति । .
१ इत्यग्र प्र०॥ २ धर्मा प्र०॥ ३ धर्मा प्र० ॥ ४ (तद्धर्मित्वा ? ) ॥ ५ धर्मिणो य० ॥ ६ विभक्तिनुपरिणाम भा०। ( विभक्तिविपरिण म ?)॥ ७ धर्मेण धर्मः साध्यतु ननु धर्मयोरपि य० । धधर्मयोरपि भा० ॥ ८ अनेकधर्मणो धर्मोणो वस्तुनः भा० । अनेकधर्मणोऽधर्मणो वस्तुनः य० ॥ 'अनेकधर्मणो वस्तुनः' इत्यपि पाठोऽत्र स्यात् ॥ ९त्वात्त-सिद्ध य० ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org