________________
रात्यलकृतं
न्यायागमानुसारिणीवृत्त्यलङ्कतं [अष्टम उभयनियमारे नाग्निमत्त्वस्य लिङ्गत्वं व्यभिचारित्वात् प्रमेयत्ववत् । ।
न, धूमवस्तुत्वानुमानभूतेन लिङ्गत्वं नियतम् । अव्यभिचारित्वोपपादनेनाग्यविनाभावित्वेनैव धूमत्वसिद्धेः।।
अथात्र किं प्रतिपत्तव्यं धूमलिङ्गादग्निप्रतिपत्तिवदग्नेरपि धूमप्रतिपत्तिः स्यात् । .5 अथ किंविषयः सम्प्रधारः ? दर्शितन्यायदेशसाध्यताया युक्तमेव लिङ्गस्य
लिङ्गिनो वा लिङ्गित्वं लिङ्गत्वं वा । धूमवत्त्वलिङ्गित्वापत्तौ तु प्रमेयत्ववदग्निमत्त्वव्यभिचाराल्लिङ्गत्वाभाव एव । न हि सर्वत्राग्नी धूमस्याशङ्कयमनुमानम् , अनुगमाभावात् । देशासाध्यतायामपि सिद्धसाधनन्यायविरोधदोषः।
अत्राह-नाग्निमत्त्वस्य लिङ्गत्वं व्यभिचारित्वात् , व्यभिचरति ह्यग्निमत्त्वं प्रदेशस्य धूमवत्त्वा10 दृतेऽपि देशान्तरे कालान्तरे चायोगुडाङ्गारादिषु दृष्टत्वात् । किमिव ? प्रमेयत्ववत् , यथा 'नित्यः शब्दः, प्रमेयत्वात् , आकाशवत्' इत्युक्त प्रमेयत्वं घटादावनित्ये विनापि नित्यत्वेन दृष्टं तथा अग्निमत्त्वं धूमवत्त्वेनेति व्यभिचारित्वादनन्यत्वस्यासाधकत्वम् । धूमवच्चस्य तु भवति अग्निमत्त्वेन 'विना न दृष्टत्वादिति । . अत्र ब्रूमः-न, धूमवस्तुत्वानुमानेत्यादि । धूमस्य हि वस्तुत्वे[न] आत्मलाभेनैवानुमानभूतेनान्यविनाभूतेन लिङ्गत्वं नियतं पाण्डुत्वबहुलत्वाविच्छिन्नमूलत्वादिरूपेण धूमत्वनिश्चयकरेण, तत्र लिङ्गित्व15 दोषप्रसङ्गस्यावतार एव नास्ति प्रत्यक्षत्वात् सिद्धत्वादेव लिङ्गत्वात् । तथाग्नेरपि प्रत्यक्षत्वे धूमस्य लिङ्गिनो लिङ्गत्वम् । अव्यभिचारित्वोपपादनेनेत्यादि, यदि तु अग्निमत्त्वं प्रमेयत्ववद् धूमं व्यभिचरेत् ततो धूमस्य धूमत्वमेव सन्दिह्येत बाष्पनीहारादिभावेनाबद्धमूलादित्वात् । तस्मात् सन्दिग्धासिद्धो हेतुः स्याद्धूमः, कुतोऽस्य लिङ्गत्वम् ? अग्न्यविनाभावित्वेनैव तु बद्धमूलत्वादिरूपेण धूमत्वसिद्धेः स्यात् पक्षधर्म
त्वाल्लिङ्गत्वम् , तथाग्नेरपि धूमसिद्धौ लिङ्गत्वम् । 20 इतर आह-अथात्र किं प्रतिपत्तव्यं धूमलिङ्गादग्निप्रतिपत्तिवदग्नेरपि धूमप्रतिपत्तिः
स्यात् , वस्तुनो लिङ्गलिङ्गित्वाविशेषात् । प्रतिपत्तौ तु दृष्टो विशेष इत्यभिप्रायः । ४५२-२ आचार्योऽत्रापि अविशेषमापादयितुकामस्तमेव वाचयितुं चाह-अथ किंविषयः सम्प्रधार इति ।
इतर आह-दर्शितन्यायदेशसाध्यत(ता)या हेतोः, दर्शितोऽयं न्यायः-देश एवाग्निमत्त्वेन साध्यः साधनं धूमवत्त्वेनेति । तस्मात् युक्तमेव लिङ्गस्य लिङ्गिनो वा लिङ्गित्वं [लिङ्गत्वं ] वा, न विरुध्यत 25 एतत् । किन्तु धूमवत्त्वलिङ्गित्वापत्तौ त्वित्यादि । सत्यपि संयोगित्वाविशेषे धूमसंयोगित्वमेवाग्नेर्गमकं
दृष्टम् 'यत्र यत्र धूमस्तत्र तत्राग्निः' इति । धूमवत्त्वस्य लिङ्गित्वे प्रमेयत्ववदग्निमत्त्वव्यभिचाराल्लिङ्गत्वाभाव एव । तस्मादग्नेरन्यथा संयोगित्वमन्यथा धूमस्य, यस्माद् न हि सर्वत्रेत्यादि 'यत्र यत्राग्निस्तत्र तत्र धूमः' इति आशयमनुमानम् अनुगमाभावात् सर्वत्राग्नौ धूमाभावात् । मा भूदेष दोष इति देशा
साध्यतेष्यते, तस्यां च देशासाध्यतायामपि 'सिद्धसाधनन्यायविरोधदोषः 'धूमादग्निः' इति अग्नेः 30 सिद्धत्वात् साध्यत्वेनेप्सितः पक्षः [न्यायमुखं.] इति लक्षणानवतारः प्रकाशितप्रकाशनवच्च वैयर्थ्यमिति ।
१ वायोगुडा य० ॥ २ विनानान दृष्ट° भा० । विना दृष्ट य० ॥ ३°वनुमा' य० ॥ ४ धूमस्य लिंगत्वम् भा० ॥ ५ त वाप्यनीहा भा० । 'त तवाप्यनीहा य०॥ ६ वा य० प्रतौ नास्ति ॥ ७धूमत्वलिंगित्वा य० ॥ ८(अशक्यमनुमानम् ?)॥ ९ (सिद्धसाधनं न्याय?)॥ १० दृश्यतां टिपृ० १२८ पं० ३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org