Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 338
________________ ६८४ न्यायागमानुसारिणीवृत्त्यलङ्कतं [अष्टम उभयनियमारे ततः स्वामिसम्बन्धित्वात् स्वस्य स्वाम्यायत्तत्वादुत्तरकालं स्मृतिरनर्थिका । अथान्यथा, तन्नोक्तम् । [प्र० समु० वृ० २।३७] इति । अत्र ब्रूमः-न किञ्चिदत्र नोक्तम् । तत्सम्बन्धिप्रत्यक्षात् तथैवानुमानाव यदि स्वस्वामिभावेन प्रत्यक्षः सम्बन्ध्येकस्ततो द्वितीयस्य स्वस्य स्वामिनो वा तेन सहैव गतत्वादेन्योन्या5 पेक्षत्वाच्च सम्बन्धस्य शेषसिद्ध्यर्थं स्मृत्यानर्थक्यम् । दृश्यते च स्मृतिबलेन शेषसिद्धिः । तस्मात् स्वत्वादिप्रत्यक्षत्वादयुक्तमुक्तम् । अथान्यथा, अथ मा भूदेष दोष इति स्वस्वामित्वादिभ्योऽन्येन केनचित् प्रकारेण प्रत्यक्षः सम्बन्ध्येकः ततस्तत्सम्बन्धस्मरणादनुमानमिति मन्येथाः तन्न भवति तस्य प्रकारस्यानुक्तत्वात् 'स्वस्वाम्यादिभावेन सम्बन्धात्' इति वचनात स्व-स्वामिभावेन वा प्रकृति-विकारभावेन वा कार्य४४६-१ कारणभावेन वा निमित्त-नैमित्तिकभावेन वा मात्रा-मात्रिकभावेन वा [सहचरिभावेन वा] वध्य-घातक10 भावेन वा कश्चिदर्थः कस्यचिदिन्द्रियस्य प्रत्यक्षो भवति इति तेभ्योऽतिरिक्तस्यावचनादेतेषामेव वचनादिति । एतस्मिन् परोक्ते दोषजाते परिहारं ब्रूमः-न किञ्चिदैत्र नोक्तम् । वक्तव्यमशेषमुक्तमित्यभिप्रायः । प्रतियोगिनि सिद्धे सम्बन्धस्मृतेरानर्थक्यम् । अथान्यथा, तन्नोक्तमिति तुल्यम् । न, तस्येत्यादि । अनुमेयस्थमिति । धर्मिणि धूमादेः सत्त्वमात्रं गृह्यते, न सम्बन्धित्वमिति । कदा तर्हि तद् गृह्यत इत्याह-पश्चादित्यादि । अव्युत्पन्नस्य तद्गतेरिति वखामिसम्बन्धाद्यनभिज्ञस्यापि शेषप्रतिपत्तरित्यर्थः । कथं पुनस्तद्गतिरित्याह-दृष्ट इत्यादि । कार्यकारणभावसम्बन्धे हि यथा कार्यकारणभावसम्बन्धः शास्त्रे विवेचितः तथैवाप्रतीतत्वमत्र विवक्षितम् , न सर्वथेति वेद्यम् । शास्त्रे ह्येकस्यैव भावस्य स्वरूपात्यागात् परिणामेन कार्यकारणभावो व्यवस्थाप्यते। य एवं कार्यकारणभावसम्बन्धं न प्रतिपादयन्ति तेऽप्यन्यथा तं प्रतिपद्य अविनाभावित्वमात्रोपलब्धेरनुमेयं निश्चिन्वन्ति । शास्त्रदृष्टः कार्यकारणभावोऽनुपपन्न एव । यस्मात् कार्यकारणयोरेकत्वे इदं कार्यमिदं कारणमित्येतदेव न स्यात् । अथ तयोर्येनैवं स्वभावातिशयः कश्चिदस्ति, भेदप्रसङ्गः। सत्त्वादिष्वपि स्वभावभेद एव भिन्न प्रकारान्तरकारणम् । ननु कार्यकारणभावत्वे सत्यपि न भेदः, त्रैगुण्यजात्यभेदादेकत्वमिति चेत् ; न, कार्यकारणाभ्यां भिन्नस्य त्रैगुण्यस्यानुपलक्षणात् । नित्यस्य क्रमेण युगपद्वा परिणामो न सम्भवति । ततस्तत्कारणवत्कार्यकारणव्यवस्था कुत इत्यलं प्रसङ्गेन । स्यादेतत्-सोऽगृहीत एव तदनुमानस्य कारणमित्याह-नेत्यादि सुगमम् । नावश्यमित्यादि । ननु खस्वरूपसिद्धिः स्वाम्यपेक्षव, तद्वयभिचारः कुत इति चेत्, अयमाशयः-अनुमानकाल एव खत्वेन गृहीतं लिङ्गं प्रतियोगिनं प्रतिपादयति, आहोस्वित् सम्बन्धग्रहणकाले तथा परिच्छिन्नमनुमानकाले चान्यथोपलभ्यमानमिति । यद्यनुमानकाले 'इदमस्य स्वम्' इत्येवं निश्चित गमकमिष्यते, अत्रोक्तो दोषः-स्वामिसम्बन्धित्वात् स्वत्वस्य [पृ० ६८३ पं० ३१] इत्यादिना। तस्माद् द्वितीयं दर्शनमभ्युपगन्तव्यम् , ततश्च व्यभिचारः, स्वस्वामिनोः परम्परया व्यतिरेकभावसम्भवात् तथाऽनुमातुं न शक्यते-अत्रात्मना तत् पूर्व स्वत्वेन गृहीतं तस्माद् यत्रेदमस्ति तत्रास्य स्वामी नियमेन भवितुमर्हतीति। भूपतेः सम्पत्त्याद्यभावेऽपि केवलस्य छत्रादेरधिपत्यभावे च दर्शनसम्भवात् । एवमन्यत्रापि यथासम्भवं व्यभिचारः कल्पनीयः । स्यादेतत्-स्वस्वामिभावादिना सर्वः सम्बन्धो न गमकः, किं तर्हि ? यत्राव्यभिचार इत्याह-उपलब्धसम्बन्धस्य नेत्यादि । यदि यथोक्तसम्बन्धग्रहणेऽपि पुनर्लिङ्गस्य व्यभिचारित्वमव्यभिचारित्वं चापेक्षते ततोऽविनाभावित्वमेवानुमानस्य कारणं भवेत् , न स्वस्खाम्यादिसम्बन्धाः । अविनाभावस्यानुमानकारणत्वे स्यादेतत् , स यथोक्तसम्बन्धे सति भवति, ततो निर्देश इति चेत्, तदयुक्तम् , तस्मिन् सत्यपि तदभावात् सम्बन्धस्याविशिष्टत्वादिति निमित्तनैमित्तिकसम्बन्धो द्विष्ठ इति स यथैकत्र तथा द्वितीयेऽपीति उभयत्र गमकभावः स्यात् ।"-VT. P. ed. पृ० १३६ A-१३८ A ॥ ३'भवितव्यमेवेति' इति 'भवितव्यमिति' इति वा पाठः सम्यक् प्रतीयते ॥ ४ विश्रब्ध य० ॥ ५ घटवदिति य० ॥ ६ स्य प्रत्यक्षस्येविवक्षः प्र० ॥ ७ दिसंयोगिसंयोगिनां भा० । 'दिसंयोगिनां इत्यपि पाठोऽत्र भवेत् ॥ ८ पर्यनुयुज्यता यदुक्तं भा० ॥ ९ दोषयुक्तम् य० ॥ १ प्रत्यक्षतः य० ॥ २ दन्योपेक्ष य० । दृश्यतां पृ० ६८५ पं० २६ ॥ ३ दयुक्तम् । अथा भा० ॥ ४ ततस्तंबंध भा० । तत् संबंध य० । ततः सम्बन्ध इति तत्सम्बन्ध इति वा पाठोऽप्यत्र समीचीन एव ॥ ५ वार्षगणतन्त्रभाष्येऽभिहितमिदम् । दृश्यतां पृ० ६८५ पं. ३, २०, टि. १, पृ० २४० पं० १२॥ ६°दत्त प्र०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403