Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 343
________________ दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् । ६८९ .. इत्थं हि व्यभिचारिविशेषव्यावर्तनेनापि स एव सम्बन्धी गमकः सम्बन्ध्यन्तरस्य । न ते विशेषा गमकाः, तत्समर्थनार्थत्वात् । न हि वात्याप्रसङ्गव्यावर्तनेन धूमस्य व्यञ्जकत्वम् , बह्येव ह्यवात्या घटपटादि; न हि तद्वदग्नेरगमको धूमः। न वाऽवात्येति व्यञ्जकमग्नेर्भवितुमर्हति घटपटाद्यधूमतायामसत्यामेव । धूमतैव हि सती वह्नितायाः व्यञ्जिका। ____तथा कृतकत्वस्य [ अनित्यत्वोपलब्धसम्बन्धस्य ] अनित्यत्वाव्यभिचारप्रदर्शनार्थ व्यतिरेक उच्यते । यद्युपलब्धसम्बन्धस्य पुनरव्यभिचारित्वापेक्षमनुमानं न स्यात् व्यतिरेकवचनं न स्यात् । नापि च तस्यैवाभिव्यञ्जकत्वमापद्यते । तथा च कृतकत्वस्यानित्यत्वोपलब्धसम्बन्धस्य पुनरव्यभिचारापेक्षानुमितियुक्ता, तस्यैवा इत्थं हि व्यभिचारिविशेषव्यावर्तनेनापि स एव सम्बन्धी धूमादिरश्वादिर्वा गमकः 10 सम्बन्ध्यन्तरस्य प्रत्यक्षोऽनुमेयस्य द्वितीयस्यैकः सम्बन्ध्यन्तरस्य सम्बन्धित्वात् । न ते विशेषा व्यावा विधेया वा गमकाः तत्समर्थनार्थत्वात् , यथा न हि वात्याप्रसङ्गव्यावर्तनेन धूमस्य व्यञ्जकत्वम् , 'अधूमो वात्या, सा न भवत्ययं धूमः' इति वात्यायां निवर्तितीयामग्नेन गमको भवति धूमो यत्रादृष्टस्तद्वय ४४९-१ वच्छेदमात्रेण, यस्माद् बैह्वेवावाल्या घट-पटादि, न हि तद्वदग्नेरगमको धूमः, न वाऽवायेति व्यञ्जकं गमकमग्नेर्भवितुमर्हति घंटपटाद्यधूमतायामसत्यामेव, किं तर्हि ? धूमतैव हि सती वह्निताया: 15 सम्बन्धिनी सम्बन्धिन्या व्यञ्जिकेति । तस्माच्छेषसिद्धिवचनाद् निरस्तव्यभिचाराशङ्क सम्बन्धानुमानमेव प्रत्यक्षैकत्वविशेषणाभ्यां निरस्तसर्वाभासम् । किञ्चान्यत् , त्वयापीष्यत एतत् प्रसिद्धसम्बन्ध्येवाप्रसिद्धसम्बन्धिनो गमक(कं य दव्यभिचारस्वरूपावधारणार्थं व्यभिचारिविशेषव्यावृत्तिरुच्यत इत्यतस्तत्प्रदर्शनार्थमाह तथा कृतकत्वस्येत्यादि । 'अनित्यः शब्दः, कृतकत्वात् , यद् यत् कृतकं तत् तदनित्यम्' इति सम्बन्धविधिना प्रदर्य 20 कृतकत्वस्यैवानित्यत्वाव्यभिचारप्रदर्शनार्थं यदनित्यं न भवति तत् कृतकमपि न भवति' इति व्यतिरेक उच्यते, यापलब्धसम्बन्धस्य पुनरव्यभिचारित्यापेक्षमनुमानं न स्यात् व्यतिरेकवचनं पक्षधर्मसाध्यानुगतिसमर्थनार्थं न स्यात् , तत्तु दृष्टम् , नापि च तस्यैव व्यतिरेकवचनस्याभिव्यञ्जकत्वमापद्यते । तथा च एवं च कृत्वास्मन्न्यायेन कृतकत्वस्यानित्यत्वोपलब्धसम्बन्धस्य व्यतिरेके पुनरव्यभिचारापेक्षाऽनुमितियुक्ता, न तु त्वन्मतेन । किं कारणम् ? तस्यैवाभिव्यञ्जकत्वव्यक्तः, योऽसौ पुनरव्य-25 भिचारः स तस्यैव पक्षधर्मस्याभिव्यञ्जकत्वमभिव्यनक्ति, न स्वयमेवानुकंपा(कम्पते )। तथेहापीति ४४९-२ १ धूमस्याव्यञ्जकत्वम् प्र० ॥ २ तायामग्नेर्नामको भा० । “तामग्नेर्नामको य० ॥ ३ वह्वेवावात्या य० । बवाल्या भा० ॥ ४ विधिरूपा धूमतैव गमिका, न त्वधूमताया अभावः। न हि वात्यादिगता या अधूमता तदभाववत्त्वेऽपि घटपटादेरनिगम कलं दृश्यते । तस्माद् धूमतैव गमिके याशयः । यदि त्वयमाशयो न रोचते तदा 'न वाऽवात्येति व्यञ्जकं गमकमग्नेर्भवितुमर्हति घटपटादि धूमतायामसत्यामेव' इति पाठः कल्पनीयः ॥ ५न्यां व्यञ्जकेति भा० । 'न्यां व्यञ्जकतेति य० ॥ ६गमकमुदव्यभि प्र० ॥ ७'नार्थना स्यात् प्र० ॥ ८ ( स्वयमेवाभिव्यञ्जकः ? स्वयमेवाभिव्यनक्ति ?)॥ नय० ८७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403