Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 342
________________ न्यायागमानुसारिणीवृत्त्यलङ्कतं [अष्टम उभयनियमारे यदप्युक्तम्-ने चावश्यं सर्वत्र स्वस्वाम्यादीनामव्यभिचारः । तस्मात् सम्बन्धादनुमानं न भवति । उपलब्धसम्बन्धस्य न पुनरव्यभिचारापेक्षानुमितिर्युक्ता, तस्यैवाभिव्यञ्जकत्वापत्तेः [ प्र० समु० वृ० २।३७ ] इति, एतदपि न, शेषसिद्धिवचनेनाव्यभिचारिविधिवृत्तेरुपात्तत्वात्। इदं हि सर्वाभासव्युदासेन सम्बन्धानुमानविधानम् । प्रत्यक्षतरसम्बन्ध्यनुमेयः प्रत्यक्षाद्यविरुद्धार्थः पक्षो धर्मधर्मिसमुदायाख्यो निर्दोष एवानेन शेषसिद्धिवचनेन गृहीतः । यथायोग सम्बन्धादेकस्मात् प्रत्यक्षात् प्रत्यक्षवद्वा प्रसिद्धात् पक्षधर्मसम्बन्धाच्छेषेण शेषस्य सिद्धिरिति शेषसिद्धिवचनादेव विरुद्धासाधारणधर्मव्युदासः। सिद्धिवचनं साधारणानैकान्तिकवदसिद्धिर्मा भूदिति । असिद्धिय॑भिचारिधर्मता । तद्यथा-खाम्यसम्प्रदानचैत्रान्यथात्वम् ......"अतिप्रियसुतवत् । 10 किञ्चान्यत्-यदप्युक्तमित्यादि सम्बन्धवादिनो दोषवचनम् । न चावश्यमित्यादि प्रत्युच्चारणम् । एतदुक्तं भवति-स्वस्वाम्यादिसम्बन्धादनुमानं न भवति, तव्यभिचारार्थ विशेषाका नित्वात् उपलब्धेऽपि खे स्वामिनि वाश्वे चैत्रे वा स्वतन्त्रजीवदत्यन्तावियोगा आकाङ्कयन्ते । तेषामेवाव्यभिचारात् त एव हि अनुमापकाः स्युः, न स्वस्वाम्यादिसम्बन्धः सत्यपि तस्मिन्ननुमानाभावाद् व्यभिचारीति । एवं प्रत्युच्चार्य आचार्य उत्तरमाह-एतदपि न, शेषसिद्धिवचनेनाव्यभिचारिविधिवृत्तेरुपात्तत्वात् , सम्बन्धादे15 कस्मात् प्रत्यक्षाच्छेषसिद्धिरनुमानम् [ ] इत्यस्मिन् स्वार्थानुमानलक्षणे शेषसिद्धिवचनेन विधिवृत्तिरव्यभिचारिण्येवोपात्ता, तस्मादयमदोषः ।। ___ तत् कथमिति भाव्यत इति चेत् , उच्यते-इदं हि सर्वाभासव्युदासेनेत्यादि । पक्ष-हेतु-दृष्टान्ताभासाः सर्वे तेनैव सम्बन्धानुमानविधानेनापोद्यन्ते । प्रत्यक्षादितरः शेषः सम्बन्धी स्वादिना विशिष्यमाणो ४४८.२ देशादिः सम्बध्यतेऽनुमेयोऽनुमानाभासभेदैः प्रत्यक्षादिविरोधैरविरुद्धार्थः पक्षो धर्मधर्मिसमुदायाख्य उत्तरत्रा20 वय[व] विधाने परार्थानुमाने वीताख्ये 'साध्याभिधानम्' इति वक्ष्यमाणो निर्दोष एवानेन शेषसिद्धिवचनेन गृहीतः । यथायोगं स्व-स्वामि-निमित्त-नैमित्तिकादिषु तेन तेन सम्बन्धेन सम्बन्धात् प्रत्यक्षादिति प्रत्यक्षस्य धर्मादुपलब्धात् प्रसिद्धादिति यावत् । तत्रैको यः प्रत्यक्षः स पक्षधर्मः, शेषोऽनुमेयः । कृतकत्वाद्यप्रत्यक्षत्वादव्यापीति चेत् , अत आह-प्रत्यक्षवद्वा, प्रत्यक्षवत् प्रत्यक्षः प्रसिद्धः, तस्मात् प्रसिद्धत्वात् , सम्बन्धी पक्षधर्मोऽश्वः स्वम् , तस्य पक्षधर्मस्य सम्बन्धात् प्रागुपलब्धादनुस्मर्यमाणाच्छेषेण शेषस्य चैत्रस्य 25 सिद्धिरिति शेषसिद्धिवचनादेव विरुद्धासाधारणधर्मव्युदासः 'यत्र यत्राश्वः स्वं तत्र तत्र देवदत्तः स्वामी' इत्यत्यन्तावियोगादिसम्बन्धान्वययुक्तत्वात् सपक्षावृत्तिः विपक्ष एव वा वृत्तिः कुतः ? 'शेषाय शेषे वा प्रत्यक्षादेकस्मात् सम्बन्धात्' इत्येतावता सिद्धे सिद्धिवचनं 'सिद्धिरेव नासिद्धिः' इत्यवधारणात् 'प्रमेयत्वाद् नित्यः' इति साधारणानैकान्तिकवदसिद्धिर्मा भूदिति । का पुनरसिद्धिः ? व्यभिचारिधर्मता । तद्यथा-स्वाम्यसम्प्रदानेत्यादि यावदंतिप्रियसुतवदिति । चैत्रान्यथात्वं मरणम् । शेषं गतार्थम् । १ तुलना-पृ० ६८३ टि० २॥ २ मानं भवति प्र०॥ ३°न्तावियोषा प्र० ॥ ४ चारविधि प्र० ॥ ५ नमेवोनुमा भा० । नुमेवानुमा य० ॥ ६ तत्रैवकायः प्र०॥ ७ 'अथवा केचिदेवमाहुः-एकम्मात् प्रत्यक्षादिति प्रत्यक्षशब्दोऽयं प्रसिद्धत्वस्योपलक्षणम् । प्रत्यक्षात् प्रसिद्धादित्यर्थः ततः प्रत्यक्षात् प्रत्यक्षकार्याच्चान्यस्यापि ज्ञानस्य विषये लिङ्गे प्रत्यक्षव्यपदेशो भवति ।”-विशालामलवती P. ed, पृ० १३५ B-१३६ A ॥ ८ दितिप्रिप्र०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403