Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 354
________________ न्यायागमानुसारिणीवृत्त्यलङ्कृतं [ अष्टम उभयनियमारे तद्भावदर्शनानुबन्धेन हि बुद्धयुत्पत्तिरनुमानम् । धूमवत्त्वमग्निमत्त्वानुबद्धमेवेत्यैकान्तिकग्रहणेऽनुमानं भवति, अव्यभिचारात् । व्यभिचारात्त्वनुमानाभासम्, तद्यथा वृक्षक्षुपादिवज्वलनतैक्ष्ण्यादिव्यभिचारेण । तथाविधदर्शनबुद्ध्यनुबद्धमेवानुमानमपि । तदतत्पक्षद्वयगतैकान्तमनाश्रित्य ज्ञानमनव धृतार्थमनध्यवसायो विपर्ययश्चानुमानाभासौ । व्यावृत्तेस्त्वनुमानाप्रामाण्यापत्तिः, अत्यन्ताज्ञानादन व्यवसायवत्, ग्राह्यवृत्यननुरोधिप्रतिपत्तेर्वा विपर्ययवत् । गतिरपि तद्भाÎदर्शनविधेरेव, तथा चान्यथा च दीप्ति-तैक्ष्ण्यादिरूपेण तद्विरहितत्वेन च दृष्टत्वाद् 10 व्यभिचारात्, नात्यन्ताभूत शीतादिव्यभिचार दसम्बद्धादगतिः, किं तर्हि ? सम्बद्धव्यभिचारादेव | किञ्चान्यत्, दर्शनविधेरेवानुमानलक्षणोपपत्तेः स एवैषितव्य इत्यत आह-तद्भावदर्शनानुबन्धेन हि बुद्ध्युत्पत्तिरनुमानमित्येतदनुमानर्हेक्षणम् । तद् व्याचष्टे - धूमवत्त्वमित्यादि, यदा 'धूमवत्त्वं प्रदेशस्याग्निमत्त्वानुबद्धमेव' इत्यैकान्तिकं ग्रहणं तदानुमानं भवति 'धूमादग्निरत्र' इति, तस्याग्नेरेकान्तेनैव ग्रहणमव्यभिचारात् । व्यभिचारात् त्वनुमानाभासम्, तद्यथा - वृक्ष - क्षुपादिवज्वलन तैक्ष्ण्यादिव्यभिचारेण, 15 यथा यदा तु 'वृक्षः क्षुपो वात्र, धूमात्' इति तदानुमानाभासं भवति, विनापि वृक्षादिना दृष्टत्वाद् व्यभिचाराद् दर्शनबलेनैव । तदुपसंहारः तथाविधदर्शन बुद्ध्यनुबद्धमेवानुमानमपीत्यादि तार्थ एवं सन्देहानुमानाभासश्च । अनध्यवसाय विपर्ययानुमानाभासावपि तद्यथा - तदतत्पक्षेत्यादि । स चाश्च पक्षौ तदतत्पक्षौ तयोर्द्वयम्, तद्गतमेकान्तं 'भूतमेव, अभूतमेव' इत्यनाश्रित्य यथा 'अग्निरत्रैव, अभिरत्र भवत्येव' एवमाद्यनिश्चितासन्दिग्धरूपं ज्ञानमनवधृतार्थमनध्यवसायः, विपर्ययश्चाभूते भूतप्रत्ययः, भूते 20 चाभूतप्रत्ययः, पुरुषप्रत्ययवत् । एतावप्यनुमानाभासौ । तत्परिणामाव्यवच्छेदेन तथाविधदर्शन४५६-२ बुद्ध्यनुबद्धमेवानुमानं दृष्टवत्, तथैवानुमानाभासोऽपि । ७०० त्वन्मत्या व्यावृत्तेस्त्वनुमानाप्रामाण्यापत्तिः ' न भवति न भवति' इत्युभयतोऽप्यभवनपरमार्थत्वदर्थान्तरभावो वाऽत्यन्तमदृष्टत्वात् 'अग्निर्न भवति, उदकमनग्निः स न भवति घटः खपुष्पं वा इति 25 अज्ञानमेवेत्यप्रामाण्यापत्तिः पूर्वोक्तन्यायेन । कस्मात् ? अत्यन्ताज्ञानादनध्यवसायवदित्यप्रामाण्यम् । तथा विपर्ययवदप्रामाण्यापादनार्थमाह-ग्राह्यवृत्त्यननुरोधिप्रतिपत्तेर्वा विपर्ययवदिति । ग्राह्यस्याग्नेर्विधिरूपेण वृत्तिरग्निभवनम्, तदनुरोधिनी न भवति या प्रतिपत्तिः सा ग्राह्यवृत्त्यननुरोधिनी, तस्याः प्रतिपत्तेर्ग्राह्यवृत्त्यननुरोधिन्या हेतोरप्रामाण्यं व्यावृत्त्यनुमानस्य, पुरुषे स्थाणुप्रत्ययवदिति प्रागुक्तन्यायबलेनानिष्टापादनं गतार्थम् । तस्माद् दृष्टवदेवानुमानतदाभासौ यथादृष्टज्ञानानुबद्धत्वादिति । १ दर्शने विधिरेव प्र० ॥ २संबद्ध य० ॥ ३ संबंधव्यभि प्र० ॥ ४ लक्षणं च य० ॥ ५ मपीति य० ॥ ६ गतार्थ एवं सन्देहानुमानाभासं च प्र० । ( गतार्थमेवं सन्देहानुमानाभासं च ? ) ॥ ७ तमेवेत्या प्र० । ( तमेव वेत्यना' ? ) ॥ ८ तथाविधिदर्श प्र० 11 ९ यन्तरं मत्वात् भा० ॥ १० 'नमेवोत्यप्रा भा० । 'नमेवोत्पत्यप्राय० ॥ ११ यत्रवदिति प्र० ॥ ( त्याsनुमानस्य ? ) ॥ १२ ननुमानस्य प्र० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403