Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 360
________________ ७०६ न्यायागमानुसारिणीवृत्त्यलङ्कतं [अष्टम उभयनियमारे - तावद् द्वयमप्युक्तम्-अनुमानमभिधानं चाधाराधेयवद्वृत्त्या न गमयति, अत्र च पक्षे कांश्चिद दोषानत्यदिशाम । संयोगिवद् विधिवृत्त्या गमयति, अत्र च पक्षे गुणानभ्यधाम । __ यत् पुनर्निरुक्तीकृत्यान्वयासम्भवं व्यतिरेकासम्भवमाशङ्कयोक्तं स्यादेतद् 5व्यतिरेकस्याप्यसम्भवः [ ] इति, तद् युक्तमेवोक्तम्, अन्वयव्यतिरेकयोर भावात् । अन्वयव्यतिरेको हि प्रत्ययात्मको, न वस्तुगते तुल्यातुल्ययोवृत्त्यवृत्ती, विशेषस्यैव वस्तुत्वादस्य नयस्य । तत्रान्वयाभाव उक्त एव त्वया । न च सम्भवोऽस्ति सर्वावृक्षार्थव्यतिरेकस्य, आनन्त्यात्, सर्ववृक्षार्थान्वयवत् । तावदित्यादिरुक्तार्थोपसंहारः । द्वयमप्युक्तम् , अन्यापोहविशिष्टार्थैकदेशान्वयदर्शनादनुमानमभिधानं 10 चाधाराधेयवद्वृत्त्या न गमयतीत्युक्तम् , अत्र च पक्षे कांश्चिदोषानत्यदिशाम अदीदृशाम, पाठान्तरं संयोगिवद् विधिवृत्त्या उभयतो व्याप्त्या गर्मैयतीत्युक्तिम् , अत्र च पक्षे गुणानभ्यधामेत्येवं शब्देन स्मारयति । किश्चान्यत् , यत् पुनर्निरुक्तीकृत्येत्यादि । त्वया 'अन्वयव्यतिरेकावानुमाने द्वारम् [ ] इत्युक्त्वा गुणसमुदाये डित्थाख्येऽर्थे काण-कुण्टाद्यवयवान्वयानभिधानादन्वयासम्भवं निरुक्तीकृत्य अन्वया15 सम्भववद् व्यतिरेकासम्भवमाशङ्कयोक्तं स्यादेतद् व्यतिरेकस्याप्यसम्भव इति, तद् युक्तमेव त्वयोक्तम् , अस्मदुक्तसंयोगिव द्विधिवृत्तिमन्तरेणान्वयव्यतिरेकयोरभावात् । तयोरेव तावद् लक्षणम् – अन्वयव्यतिरेको हि प्रत्ययात्मकौ, समानभवनानुवृत्तिप्रत्ययोऽन्वयः, तद्विपरीतो व्यतिरेकः, न वस्तुगते तुल्यातुल्ययोवृत्त्यवृत्ती त्वदुक्ते । कस्मात् ? विशेषस्यैव वस्तुत्वादस्य नयस्य स्याद्वादेऽनेकात्मकत्वात् । तत्रान्वया. भाव उक्त एव त्वयाऽस्माभिश्च त्वन्मतवत् । ४६०.१ व्यतिरेकाभावोऽधुनोच्यते न च सम्भवोऽस्तीत्यादि । वृक्षशब्दस्य शक्तिर्नास्ति सर्वानवृक्षान् व्यतिरेचयितुम् । कस्मात् ? आनन्त्यात् , आनन्त्ये हि भेदानाम् [प्र० समु० वृ० ५।२ ] इत्यादिग्रन्थव्याख्यानन्यायवदवृक्षार्थानां घटपटादीनामानन्त्याद् व्यतिरेचनाभावे न्यायो द्रष्टव्यः । सर्ववृक्षार्थान्वयवदिति दृष्टान्तः, यथा सर्वे वृक्षार्थी आनन्त्यात् सम्बन्धाशक्यत्वादन्वयाभावाच्चानभिधेयास्तथा बहुतरव्यावर्त्यघटपटाद्यनन्ततरत्वादव्यतिरेकः, तथा धूमस्य उदकादिसर्वानग्निव्यतिरेचने सामर्थ्याभावो 25 वाच्यः सर्ववृक्षानन्त्यादन्वयवदिति । १°त्यादिभक्त्यर्थो भा० । त्यादिभक्त्यार्थी य० ॥ २ पृ० ६८१॥ ३ षानतिदिशाम यदीदृशान पाठान्तरं य० । षानतिदिशा यदीदृशान पाठान्तरं भा०। (°षानतिदिश्यादीदृशाम, पाठान्तरं ?)। षानत्यदिशाम, 'अदीदृशाम' पाठान्तरम् । संयोगिवद्......' इत्यपि योजना समीचीना। ४गमयतीत्युत्र च पक्षे भा० । गमयतीत्यत्र च पक्षे य० । य० प्रतिपाठोऽप्यत्र संगच्छत इति ध्येयम् ॥ ५ तुलना-पृ० ६५२ पं० २॥ ६ तुलना पृ० ६५२ पं० १६ ॥ ७युक्तमेत त्वयोक्तम् अस्मादुक्त° प्र०॥ ८ (तयोरेवं?)॥ ९ वृक्षान् भा० ॥ १० दृश्यतां पृ० ६०७ पं० १४ पृ. ६२७ पं० ६ ॥ . 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403