Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 363
________________ दिङ्गागप्रणीतापोहवाद निरासः ] द्वादशारं नयचक्रम् | निरवयव एव प्रतीयते तथाग्निवृक्षाभ्यामन्येऽवृक्षाज्वलनाः सर्वेऽपि व्यावृत्तिबुद्धिमात्रेण निरवयवाः प्रतीयेरन्, को दोषः ? सर्वस्यादर्शनान्न स्यात् । युक्तं पितुरपितुश्च दृष्टस्य व्यक्तग्रहणोत्तरकालं पितुः पर्युदासेनान्यस्यापितृत्वं प्रतिपाद्येत, न तु पितुरेवादर्शने । स हि पितरि प्रत्ययोत्पत्तिः । ७०९ यथा त्विदं त्वयेष्टं तुल्ये वृत्तिरतुल्ये चावृत्तिः । तत्र तुल्ये नावश्यं सर्वत्र वृत्तिराख्येया, क्वचिदानन्त्येऽर्थस्याख्यानासम्भवात्, न हि सम्भवोऽस्ति वृक्षशब्दस्य सर्ववृक्षेषु दर्शने । नापि सर्वत्र लिङ्गिनि सर्वलिङ्गस्य सम्भवः, अग्निधूमादिवत् । यद्यपि च क्वचिदस्ति डित्थादिषु सम्भवः तथापि गुणसमुदायमात्रस्य काणकुण्टादेर्दर्शनासम्भवः, सत्यपि च दर्शने सर्वथाऽनुमानासम्भवः [ ] इति तथा सर्वस्यादर्शनात् पितृकल्पस्य "तदपोहस्य वा[s] प्रतिपत्तिः । 10 यदि हि स्वार्थः परार्थश्च सपिण्ड्य विधिना गृहीतः स्यात् तत एवं प्रतिपद्येत 'अयं वृक्षः, अयं न भवति' इति, नात्यन्ताविदितवृक्षावृक्षशब्दार्थतायाम् । प्रतीयन्त इति दृष्टान्तस्तथाग्निवृक्षाभ्यामन्येऽवृक्षाज्वलना वृक्षज्वलनपर्युदासेनानन्ता भेदा अपि व्यावृत्तिबुद्धिमत्रेण निरवयवाः प्रतीयेरन् को दोष इति । अत्र दोषकुतूहलं चेद् ब्रूमः – सर्वस्यादर्शनाद् न स्यात् । युक्तं पितुरस्मद्दर्शनेन विधिरूपेण 15 दृष्टस्य अङ्गादङ्गं सम्भवसि | कौषीतकिना० २७] इत्यादिन्यायात् स्वपुत्रस्य गुणसमुदायरूपस्य प्राणान् ४६१-२ दत्तवतः पर्युदासेनान्यस्य भ्रात्रादेः स्वजनस्य पितृविपरीतबुद्धेरैध्यासेन ग्राह्यस्य 'एष पिता देवदत्तः, नेमे वसुरातादयः' इति पितुरपितुश्च व्यक्तग्रहणोत्तरकालं पैरजनस्य चान्यस्यापितृत्वं प्रतिपाद्येतेत्येषोऽस्ति न्यायः । त्वद्दर्शने पुनर्गुणसमुदायस्य न तु पितुरेवादर्शने 'युक्तम्' इति वर्तते न घटते पितुरेव ग्रहणासम्भवे असति वा पितरि गुणसमुदायमात्रार्थग्रहणाभिधानाभाव प्रकारेणोक्तेन । स हि पितरी - 20 त्यादिना दर्शनविधिं पितुः पितृदर्शनाच्चापितॄणां तदितरभेदानां च कथयति दर्शनविधिं यावत् प्रत्ययो - त्पत्तिरिति ग्रन्थेन । एषा दृष्टान्तवर्णना । दाष्टन्तिकोसमञ्जसतेदानीम् । यथा विदमित्यादि यथा त्वयेष्टं 'तुल्ये वृत्तिरतुल्ये चावृत्ति:' इत्युद्राहेण यावत् सर्वथानुमानासम्भव इति ग्रन्थो व्याचक्षाण एव गतः परमतम् । न्यायेन त्वदुक्तेनैव तथा सर्वस्यादर्शनात् पितृकल्पस्येत्यादिना दान्तिकवैषम्यापादनं गतार्थं यावत् तदपोहस्य वा[s]प्रतिपत्तिरिति । त्वन्मन कस्यचिदेव स्वार्थस्य परार्थस्य, चादर्शनादपि पितृत्वप्रत्ययाभाव एवेति पिण्डार्थः । अथवा 'सर्वस्यादर्शनात्' इत्यादिना प्रकारान्तरेण दोषं ब्रूमः - यदि हि स्वार्थ इत्यादि, 'वृक्षः' इत्युक्तेऽस्मदुक्तेन न्यायेन सामान्योपसर्जनो विशेषः समस्तः शिंशपादिरभिहितः स्यात् तेनापोढश्चावृक्षः सभेदो घटपटादिः सपिण्ड्य 'अयमन्योऽस्माद् वृक्षात् ' 25 १ तुलना पृ० ६५२ पं० २ । २ तुलना - पृ० ६६२ पं० २, पृ० ७०९ पं० १८ ॥ ३ तुलना पृ० ४७०-१ ॥ ४ अङ्गादङ्ग संभवसि य० । दृश्यतां पृ० ४६९ पं० ३ टि० १॥ ५ व्यासेन प्र० ॥ ६ ग्राह्यस्यैष्य पिता य० । ग्राह्यशैष्यपिता भा० ॥ ७ 'खजनस्य' [पं० [१७] इति प्रागभिहितत्वादत्र 'परजनस्य च' इत्युक्तम् ॥ ८ ( प्रतिपद्येते ? ) । तुलना - पृ० ७१० पं० ७ ॥ ९ 'समाजस्ते य० ॥ १० मत पर य० ॥ Jain Education International 5 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403